सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 324, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 324

गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । २१९
सपादं सत्रिभागं वा सार्धं द्विगुणमेव चं¹ ।
यत् स्यान्मुखायतं वेश्म तदनिष्टफलप्रदम् ॥ १६ ॥
यद् द्विशालं त्रिशालं वा चतुःशालमथापि वा ।
मूषयां² रहितं वेश्म तदनिष्टफलप्रदम् ॥ १७ ॥
पुरतः पृष्ठतः पार्श्वे यदि वालिन्दवर्जिता³ ।
गृहे न शस्यते शाला देवागारे तु शस्यते ॥ १८ ॥
अन्यपृष्ठस्थितद्वारं वेश्म खादकमुच्यते ।
परॅस्परविरोधाय⁴ तद् वेश्म गृहिणोस्तयोः ॥ १९ ॥
सशल्यं पादहीनं च समसन्धि शिरोगुरुँ⁵ ।
वेश्मनामिदमुद्दिष्टं मर्मदोषचतुष्टयम् ॥ २० ॥
वास्तुक्षेत्रस्य यत्राङ्गे यस्य वर्त्म प्रवर्तते ।
तँदङ्गं⁶ वास्तुनस्तस्य च्छिन्नां⁷ तेनेति निर्दिशेत् ॥ २१ ॥
छिन्नाङ्गं विकलं तत् स्याद् भीतिदं सर्वदोषकृत् ।
तद्भर्तुर्भज्यतेऽङ्गं तद् वेधस्तस्याफलोऽन्यथा ॥ २२ ॥
स्वगृहद्वयमध्येन निर्गाहो यदि वर्त्मनः ।
द्वारवेधोदितान् दोषांस्तदा प्राप्नोति निश्चितम् ॥ २३ ॥
मार्गश्चैको यदा गच्छेदुभयोर्गृहपार्श्वयोः ।
मार्गवेधस्तदा स स्याच्छोकसन्तापकारकः ॥ २४ ॥
उत्सङ्गः पूर्णबाहुश्च हीनबाहुस्तथापरः ।
प्रत्यक्षाग्र इति प्रोक्तं प्रवेशानां चतुष्टयम् ॥ २५ ॥
गृहस्य सम्मुखं यत्र द्वारं भवति वास्तुनः ।
उत्सङ्ग⁸ इति स प्रोक्तः पूर्णबाहुः ९प्रदक्षिणः† ॥ २६ ॥
वामतो हीनबाहुः स्यात् प्रत्य॑क्षो¹⁰ वा (क्षो य) स्तु पृष्ठतः ।
चतुर्थो¹²ऽयं समुद्दिष्टः प्रवेशो वास्तुनो बुधैः ॥ २७ ॥
१ द. वा । २ द. मूखो । ३ द. नि । ४ द. परविरोधायातद्गवे तद्° । ५ ख. ग. द. रुः ।
६ क. य । ७ द. उच्छांग । ८ ख. सं । ९ द. ˚बाहुमुद˚ । १० ख. ‘मु’ । ११ द. प्रत्युक्तवात्तु˚;
ख. त्युक्तो वा । १२ द. ˚ष्टो ।
† ‘पूर्णबाहुस्तु’ दक्षिणे इति तु पाठो युक्तः ।