समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 322, कुल 726 में से
संदर्भ में पढ़ेंगृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । २५७
चतुर्मुखा तु कर्तव्या सोपानैश्च चतुर्दिशम् ।
प्रतीहारसमायुक्ता चार्थचन्द्रोपशोभिता¹ ॥ १२ ॥
चतुःस्तम्भसमायुक्ता चतुष्कुम्भविराजिता ।
काञ्चनै राजनैस्ताम्रैर्मृन्मयैः कलशैस्तथा ॥ १३ ॥
कोणे कोणे तु विन्यस्तैर्बल्गुवानरभूषितैः ।
स्तम्भप्रमाणं वेदीनां कार्यं छायवशेन चै² ॥ १४ ॥
एकेन द्वित्रिभिर्वापि च्छायैः सामलसॉरकैः ।
स्तम्भमूलानि चाभ्यज्य गुडेन मधुसर्पिषा ॥ १५ ॥
परमान्नेन वाभ्यज्य तान्³ विन्यस्येद् यथातथम् ।
देवै⁴ताः⁵ पूजयित्वा तु ब्राह्मणान् स्वस्ति वाचयेत् ॥ १६ ॥
चतुर्विधमितीरितं यदिह वेदिकलक्षणं
समग्रमपि वर्तते मनसि यस्य तच्छिल्पिनः ।
स याति भुवि पूज्यतामवनिभोक्तुराप्नोति च
श्रियं स्थपतिसंसदि स्फुरति चास्य शुभ्रं यशः ॥ १७ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः ।
अथ गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः ।
अतः परं गृहादीनामप्रशस्तसमुच्छ्रितम् ।
क्रियते कथितं यस्मादेकत्र सुसमं भवेत् ॥ १ ॥
रक्षोम्बुनाथकीनाशमरुद्दहनदिक्प्लवां⁶ ।
मध्यप्लवा च भूर्व्याधिदारिद्र्यमरकावहा ॥ २ ॥
वह्निप्लवा वह्निभये मृतये दक्षिणँ⁷प्लवा ।
रुजे रक्षःप्लवा प्रत्यक्प्लवा धान्यधनच्छिदे ॥ ३ ॥
१ द. ताः । २ द. ण । ३ द. न् । ४ ख. ग. ड. र । ५ द. देवतानु (न् ) पूजयित्वात्
(च ) ब्राह्मणा स्वस्ति वाचयेत् । ६ द. निप्लवा । ७ द. णं ।
वा. ३३