सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 333, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 333

२६८ समराङ्गणसूत्रधारे
व्याधयः संप्रवर्धन्ते धनैनाशः कुलक्षयः ।
राजदण्डभयं चै स्यादपत्यानां च पीडनम् ॥ १२३ ॥
षड्दारुकाणां मध्येषुं द्वारमध्येषु वा पुनः ।
कर्णद्रव्यादिभिर्विद्धेष्वेवतदेवाद्दिशेत् फलम् ॥ १२४ ॥
संविद्धा नागदन्तैर्या स्तम्भैर्वातायनैस्तथा ।
शय्या शस्त्राद् भयं भर्तुः कुर्यात् तस्करतोऽपि वा ॥ १२५ ॥
गृहमध्ये कृतं द्वारं द्रव्यकोशविनाशनम् ।
आवहेत् कलहं भर्तुर्भार्या वास्य प्रदूषयेत् ॥ १२६ ॥
द्रव्येणैकोत्तरेणापि महामर्मणि पीडिते ।
सर्वस्वनाशो गृहिणो मरणं वा ध्रुवं भवेत् ॥ १२७ ॥
द्वारस्तम्भतुलालिन्द श्रं(च)यदोषैः संमीरितैः ।
विसूत्रे नागदन्तेऽपि तच्छून्यं जायते गृहम् ॥ १२८ ॥
विभागपदैहीनेषु रूपस्थानेषु वास्तुषु ।
यक्षमातृक्रियाद्येषु रोगान्मृत्युर्न संशयः १२९ ॥
कटुकण्टकिदुर्गन्धिगुह्यकाद्याश्रयान् द्रुमान् ।
न धारयेत् समीपस्थान् पुरप्रासादवेश्मनाम् ॥ १३० ॥
बदरी कदली चैव दाडिमी बीजपूरिका ।
प्ररोहन्ति गृहे यत्र तद् गृहं न प्ररोहति ॥ १३१ ॥
द्रव्यं द्रव्याधिकं हन्ति कुलमायामतोऽधिकम् ।
उच्छ्रयाभ्यधिकं पूजां सन्ततिं विस्तराधिकम् ॥ १३२ ॥
स्तम्भाङ्गेर्भाित्तिभिः पट्टैः शीर्षकैर्भवनेस्तथा ।
आलोकनातोरणाद्यैश्छाद्यकैः कन्दकूटकैः ॥ १३३ ॥
हीरशाखोत्तमाङ्गैश्च तुलाभिः सन्धिपालकैः ।
अर्गलाग्रैर्वेदिकाभिर्व्यालैर्जालैश्च नूतनैः ॥ १३४ ॥
१ द. धनत्रासककुं । २ द. चः । ३ द. तु । ४ क. ख. तृ; द. 'भिदृद्ध्येवेदे' । ५ द. स्त ।
६ द. त । ७ द. बां । ८ क. न्दै । ९ ख. ग. द. स्व । १० क. ख. ग. द. कि । ११ द. शाद ।
१२ क. नः । १३ क. क्ष । १४ द. नवधारयस्रं । १५ द. ति ।