सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 328, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 328

गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । २६३
अन्यवास्तुच्युतं द्रव्यमन्यवास्तौ न योजयेत् ।
प्रासादे न भवेत् पूजा गृहे च न वसेद् गृही ॥ ६३ ॥
द्रव्येण देवदग्धेन भवनं यद् विधीयते ।
न तत्र वसति स्वामी वसन्नपि विनश्यति ॥ ६४ ॥
सूर्योद्भवा द्रुमच्छाया ध्वजच्छाया च गर्हिता ।
द्वारातिक्रमणादेताः क्षुद्व्याधिकलिकारकाः ॥ ६५ ॥
प्रासादशिखरच्छाया ध्वजच्छायेति कीर्तिता ।
त्रिपञ्चसप्तमी भर्तुर्गृहदारा न शोभना ॥ ६६ ॥
निम्नोनतं करालं च सम्मुखं पृष्ठदेशगम् ।
वामावर्तं च न शुभं द्वारमग्रतरं गृहे ॥ ६७ ॥
निम्ने स्यात् स्त्रीजितो भर्ता दुर्जनस्थितिरुन्नते ।
सम्मुखे सुतपीडा स्यात् पृष्ठगे चपलाः स्त्रियः ६८ ॥
वामे वित्तक्षयो द्वारि(रे)भवत्यग्रतरे प्रभोः ।
द्वारं तस्मान्न कर्तव्यमीहग्रूपं विचक्षणैः ॥ ६९ ॥
नागदन्ततुलास्तम्भभित्तिमूषागवाक्षकाः ।
द्वारमध्ये न दातव्या न चैते विषमस्थिताः ॥ ७० ॥
इतिहासपुराणोक्तं वृत्तान्तप्रतिरूपकम् ।
निन्दितं च गृहे नेष्टं शस्तं देवकुलेषु तत् ॥ ७१ ॥
यानीन्द्रजालतुल्यानि यानि मिथ्याकृतानि च ।
भीषणानी च यानि स्युर्न कुर्यात् तानि वेश्मसु ॥ ७२ ॥
स्वयमुद्घाटितं द्वारमुच्चाटनकरं भवेत् ।
धनहृद् बन्धुवैरं स्यादथवा कलिकारकम् ॥ ७३ ॥
स्वयं यत् पिहितं द्वारं तद् भवेद् बहुदुःखदम् ।
सशब्दं भयकृत् पादशैथिलं गर्भपातनम् ॥ ७४ ॥
१ क. ख. स्तुनि यो; द. वास्तु नियो˚ । २ द. ती । ३ द. ˚वो । ४ द. ˚यां । ५ द. न्सु˚ ।
६ द. पृष्ठं त्वे च˚ । ७ द. ˚परि रक्षणैः ॥ ८ द. ˚व्यं । ९ द. काः । १० द. च । ११ द. द्वा˚ ।
१२ द. वृद्ध˚ । १३ द. पिहति । १४ द. पात˚ । १५ द. स्य ।