सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 334, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 334

रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २६२
घातितैः पातितैर्नष्टैर्जायते गृहिणो ध्रुवम् ।
व्याधिदारिद्र्यदुःखार्तिर्निधनत्वं च जायते ॥ १३५ ॥
उच्चच्छायं छिद्रगर्भ भ्रमितं वमितं मुखे ।
हीनमध्यं नष्टसूत्रं³ शल्यविद्धं शिरोगुरु ॥ १३६ ॥
भ्रष्टाळिन्दकशोभं च विषमस्थं तुलार्ततलं ।
अन्योन्यद्रव्यविद्धं च कूँपदप्रविभाजितम् ॥ १३७ ॥
हीनभित्त्युत्तमाङ्गं च विनष्टं स्तम्भभित्तिकम् ।
भिन्नशालं त्यक्तकण्ठं निष्कन्दं मानवर्जितम् ॥ १३८ ॥
विकृतं च गृहं भर्तुरनिष्टफलदायकम् ।
तस्माद् दोषानिमांस्त्यक्त्वा गृहं कुर्याच्छुभावहम् ॥ १३९ ॥
एवंविधं दोषकरं गृहं स्याद् भर्तुश्च कर्तुश्च यतस्तदेते ।
ज्ञेयाः सदा शिल्पिवरप्रमत्तैस्त्याज्याश्च दोषाः शुभकीर्त्तिकांमैः
॥ १४० ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः ॥
अथ रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः ।
त्रिदशानां नृपाणां च वर्णिनां च विशेषतः ।
उत्पत्तिप्रसृतिं ब्रूमः प्रासादा यस्य ये मताः ॥ १ ॥
पुरा ब्रह्मासृजत् पञ्च विमानान्यासुरद्विषाम् ।
वियद्वर्त्मविचारीणि श्रीमन्ति च महान्ति च ॥ २ ॥
तानि वैराजकैलासे पुष्पकं मणिकाभिधम् ।
हैमानि मणिचित्राणि पञ्चमं च त्रिविष्टपम् ॥ ३ ॥
१ द. ˚र्त्ति तु व्यंचत्वं । २ ख. ग. द. नि । ३ क. त्रं स्वश । ४ द. त्यं । ५ क. सि ।
६ क. तु । ७ ख. ग. चतुष्षहप्रतिभा; द. जतुः पद प्रतिभा˚ । ८ द. स्यु । ९ द. य । १० द.
प्रकीर्त्तितामेः । ११ द. अपलक्षणो नामाष्टचत्वारिंशोध्यायः ॥छ॥ १२ द. र्त्ति । १३ द. सी ।