समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 323, कुल 726 में से
संदर्भ में पढ़ें२९८ समराङ्गणसूत्रधारे
कलहाय प्रवासाय रोगाय च मरुत्प्लवा ।
मध्यप्लवा तु भूमिर्या सर्वनाशाय सा भवेत् ॥ ४ ॥
तुषास्थिकेशकीटत्वं(क्)शङ्खभस्मोषरान्विताम् ।
कर्पराङ्गारिणीं दुष्टसत्त्वानार्यजनां त्यजेत् ॥ ५ ॥
चैत्रे शोककरं वेश्म ज्येष्ठे मृत्युप्रदायकम् ।
पशुनाशनमाषाढे शून्यं भाद्रपदे कृतम् ॥ ६ ॥
आश्विने कलहाय स्यात् कार्त्तिके भृत्यनाशनम् ।
माघे चाग्निभयाय स्यान्मासेष्वेषु न कारयेत् ॥ ७ ॥
पावकस्य पदे पृष्ठवंशस्यापिं च पश्चिमे ।
पुरप्रासादकर्णे च कीलादि प्राक् प्रयोजयेत् ॥ ८ ॥
पूर्वपश्चिमदिङ्मूढं वास्तु स्त्रीनाशकृद् भवेत् ।
उदङ्गूढं न निष्पत्तिं याति सर्वं च नाशयेत् ॥ ९ ॥
यत्तु दक्षिणदिङ्मूढं जायते मरणाय तत् ।
प्राग्वास्तुनि (र्तु) कुर्वीत प्रासादं मन्दिरं पुरे ॥ १० ॥
वलितं चलितं भ्रान्तं विसूत्रं च समुत्सृजेत् ।
यत् स्यान्मुखविनिष्क्रान्तं वलितं तत् प्रकीर्तितम् ॥ ११ ॥
चलितं पृष्ठनिष्क्रान्तं दिङ्मूढं भ्रान्तमुच्यते ।
विसूत्रं कर्णहीनं स्यात् फलमेषां प्रचक्ष्महे ॥ १२ ॥
वलिते चलति स्थानं चलिते विग्रहो भवेत् ।
भ्रान्तं योषिद्विनाशाय विसूत्रं भूरिशत्रुकृत् ॥ १३ ॥
मूषकोत्करवल्मीकप्रान्ता वक्रा भुजङ्गवत् ।
छिन्ना भिन्ना विकर्णा च न वास्तुनि शुभा क्षितिः ॥ १४ ॥
मूषकोत्करवत्यर्थं हन्ति वल्मीकिनी सुतम् ।
विकर्णा कुरुते कर्णरोगं छिन्ना विनाशिनी ।
भिन्ना भेदं करोत्युर्वी कुटिला मतिवक्रताम् ॥ १५ ॥
१ द. वे। २ द. भासा। ३ द. केसीकीटत्वप्लषभस्मोषरान्वितं; ख. ग. 'सी' । ४ ख. ग.
त्वप्लषभ । ५ द. भ । ६ क. अश्विन्ये क; द. अं । ७ द. तः । ८ द. तः । ९ द. विरुद्धं । १०
द. विचित्र । ११ क. शुभम्; द. शुतं । १२ क. ग. र्तु । १३ क. गान् ।