सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 330, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 330

गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । २६५
देवध्वजेन बन्धः स्यात् सभयैश्वर्यसंक्षयः ।
सन्निपातभयं वाप्या तुल्या दृष्ट्वमाकृते(?) ॥ ८७ ॥
हृद्रुक् कुलालचक्रेण दारिद्र्यं वारिणा भवेत् ।
व्याधिरुक् कचकूटेन आपाकेन(?) सुतक्षयः ॥ ८८ ॥
निश्चँ(स्व)तोदूखलेन स्याच्छिलैै्या चाश्मरी भवेत् ।
तोयभाण्डेन दुर्मन्त्री भस्मना चार्शसो गृही ॥ ८९ ॥
दारिद्र्यं छायया विद्धे भवेद् द्वारे कुटुम्बिनः ।
स्थलस्पन्दनवल्मीकैर्विद्देशगमनं भवेत् ॥ ९० ॥
कृशं विकृतमत्युच्चं करालं शिथिलं पृथु ।
वक्रं विशालमुत्तानं शू(स्थू)लाग्रं ह्रस्वकुक्षिकम् ॥ ९१ ॥
स्वपादचलितं ह्रस्वं हीनकर्णं मुखानतम् ।
पार्श्वगं सूत्रमार्गाच्च भ्रष्टं द्वारं न शोभनम् ॥ ९२ ॥
तत् करोति क्षयं घोरं विनाशं स्वामिसम्पदः ।
वसतां कलहं नित्यमतस्तत् परिवर्जयेत् ॥ ९३ ॥
अन्तर्द्वाराद् बहिर्द्वारं नोच्चं कुर्यान्न सङ्कटम् ।
उच्चं विसङ्कटं वापि तच्छिवाय न जायते ॥ ९४ ॥
पट्टसन्धिर्यदा मध्ये द्वारस्य स्यात् कथञ्चन ।
कर्तुस्तदा विनाशः स्यात् कुलस्य च परिक्षयः ॥ ९५ ॥
तुला उपतुला वा स्युर्द्वारि तिर्यग् यदा कृताः ।
दारिद्र्यव्याधिसन्तापा भवन्ति स्वामिनस्तदा ॥ ९६ ॥
अनुवंशमनुप्राप्ता जयन्त्यो यदि मन्दिरे ।
वित्तायुषोस्तदाल्पत्वमनारोग्यं च जायते ॥ ९७ ॥
उदुम्बरे(वि)निहिता(नि?)ललाटी नाम सा तुला ।
दूषणं मरणं वापि कन्यानां विदधाति सा ॥ ९८ ॥
१ ख. द. द्र; ग. द्रष्ट्व; द्र । २ द. द्रं । ३ क. कतरच । ४ क. श्वि । ५ द. ॰ला ।
६ द. स्पं° । ७ द. वक्त्रं सिलामुत्तानं च शूलाग्रं लम्बकुं° । ८ ख. लम्बकु । ९ द. न्ध्ये° ।
१० द. हृं° । ११ द. जा । १२ द. छा । १३ ख. भल्ला ।
† कन्दकूटकमिति उपरि वक्ष्यते ।
वा. ३४