सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 325, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 325

२६० समराङ्गणसूत्रधारे
उत्सङ्गाख्ये प्रवेशे स्यात् प्रजाहानिः कुटुम्बिनः ।
धनधान्यक्षयो वास्य मरणं वा ध्रुवं भवेत् ॥ २८ ॥
पूर्णबाहौ पुत्रपौत्रा धनधान्यसुखानि च ।
भवन्ति वसतो³ नित्यं गृहिणस्तत्र वास्तुनि ॥ २९ ॥
अल्पमित्रो गृही हीनबाहौवत्यल्पबान्धवः ।
स्याद् वाल्पवित्तो जीयेत स्त्रीभिः पीड्येतै वामयैः ॥ ३० ॥
प्रत्यक्षाय प्रवेशँस्तु विहिनो यत्र वेश्मनि° ।
तस्मिन् निवसतं पुंसां निश्चितः स्याद् धनक्षयः ॥ ३१ ॥
मूषास्वस्थानयुक्तासु शालाभेद इति स्मृतः ।
प्राप्नोति तत्र निवसन् मृत्युं दुःखं सरोगताम् ॥ ३२ ॥
उदग्दक्षिणशालासु पूर्वापरगतासु च ।
अन्यथा वा स्थितं द्वारं वधबन्धनकारकम् ॥ ३३ ॥
मूषागतान् भ्रमान् कुर्यान्न शालां प्रतिभेदयेत् ।
भ्रमभग्नासु शालासु विपद्यन्ते कुटुम्बिनः ॥ ३४ ॥
शालाभेदो भवेद् यत्र पृष्ठतः पार्श्वतोऽपि वा ।
धनधान्यक्षयस्तत्र गृहिणो जायते ध्रुवम् ॥ ३५ ॥
यत्र प्रत्यङ्मुखे शाले गृहं तत् स्याद् विकोकिलम् ।
आयुश्चतुष्पदं धान्यं वसतां तत्र नश्यति ॥ ३६ ॥
सीमाशालाप्रभिन्नस्य प्रासादस्य गृहस्य च ।
अंस्थिरा जायते ऋद्धिः स्थितिश्च न भवेच्चिरम् ॥ ३७ ॥
सर्वदोषकरि ज्ञेया गर्भे चन्द्रावलोकिता ।
मूषां विना विनाशाय कामोच्छित्त्यै गवाक्षकः ॥ ३८ ॥
यदा गण्डोऽथवा कुक्षिः पृष्ठं कक्षाथ भिद्यते ।
दायद्यं जायते भर्तुस्तदानीमदुस्सहम् ॥ ३९ ॥
१ द. ज । २ द. ºहा । ३ भवतो निं° । ४ द. ह । ५ द. पीड्यते वासयैः ।
६ द. ºसा° । ७ द. नः । ८ ग. थ । ९ द. प्रासादे रूपगृ° । १० द. स्थिरान् । ११ ख. ग.
कनां; द. कना ।