सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 319, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 319

२६४ समराङ्गणसूत्रधारे
शान्तिकर्म प्रकुर्वीत ततः शान्तिकरं भवेत् ।
एवमादौ कृते पश्चात् पुनः संस्कारयेद् बुधः ॥ १४ ॥
पूर्वावयवनिर्माणाद् विशिष्टं रचयेत् पुनः ।
१दृढसन्धिनिगूढं च दृढद्रव्यसमन्वितम् ॥ १५ ॥
विविधं रूपकर्मार्ढ्यं सुसंस्थानं मनोरमम् ।
अकुब्जमनतं चैव पूर्वोत्कृष्टतरं तथा ॥ १६ ॥
नियुक्ते तु पुनः शान्तिं ब्राह्मणान् वाचयेत् ततः ।
पुराणे वा नवे वाथ कृते वार्धकृतेऽथवा ॥ १७ ॥
प्रासादे वा गृहे वापि कपोतः प्रविशेद् यदि ।
तत्र दोषाः प्रपद्यन्ते शान्तिकर्म तथैव च ॥ १८ ॥
३कालमूर्तिः कपोतश्च पापमूलकरण्डकम् ।
विहङ्गापशदो हीनः कृष्णचारी विहिङ्गमः ॥ १९ ॥
चतुर्विधः समाख्यातो मुनिभिः स तपोधनैः ।
श्वेतो विचित्रकण्ठश्च विचित्रोऽन्योऽथ कृष्णकः ॥ २० ॥
कपोतो भवने यस्य श्वेतवर्णो विशेत् क्वचित् ।
कीर्त्तिविद्याधनं पुण्यं शीघ्रं च नयते क्षयम् ॥ २१ ॥
नित्यं रोगाः प्रवर्धन्ते शिशुपीडा च जायते ।
चित्रकण्ठो ७ हरेज्जायां पुत्रान् सर्वान् विचित्रकः ॥ २२ ॥
सर्वाः सिद्धीश्च कृष्णाङ्गः ४प्रदुष्यै च कुलं हरेत् ।
रोगाः सर्वेऽपि वर्धन्ते विपदो व्यसनानि च ॥ २३ ॥
बन्धनानि च जायन्ते प्रविष्टे तु कपोतके ।
तस्माद् यत्नपरो भूत्वा प्रायश्चित्तं समाचरेत् ॥ २४ ॥
स्नातस्त्रिकालशुद्धात्मा सोपवासो जितेन्द्रियः ।
देवपूजार्चनरतो नित्यं दानपरः शुचिः ॥ २५ ॥
१ ख. ग. द. दृढं । २ ग. द. न । ३ क. कलिसूत्रं क । ४ द. ०धं । ५ द. ष्ठे ।
६ क. यु । ७ ग. द. ण्ठ्यं ।