समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 332, कुल 726 में से
संदर्भ में पढ़ेंगृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । २६७
वज्रमध्यं स्थूलमूलं कुक्षिभिन्नं च दारु यत् ।
भिन्नमूलं कूर्मपृष्ठं पक्षहीनं च वर्जयेत् ॥ १११ ॥
पातितान् वर्जयेद् वृक्षान् द्विपाश्वांग्रिजलानिलैः ।
प्रभूतपक्षिनिलयान् काककौशिकसेवितान् ॥ ११२ ॥
मधुग्रहपिशाचाहिदुष्टांश्चैत्यश्मशानजान् ।
चतुष्पथत्रिकमहानदीसङ्गममार्गजान् ॥ ११३ ॥
देवनायतनजातानूर्ध्वशुष्कान् क्षतच्छदान् ।
वल्लीपिनद्धान् सुषिरकोटरग्रन्थिसङ्कुलान् ॥ ११४ ॥
याम्यापराशापतितांस्त्यजेत् कण्टकिनोऽपि च ।
कपित्थोडुम्बरौश्वत्थशिरीषवटचम्पकान् ॥ ११५ ॥
कोविदारधवारिष्टश्लेष्मातकविभीतकान् ।
किञ्च सप्तच्छदक्षीरिफलदांश्च द्रुमांस्त्यजेत् ॥ ११६ ॥
मर्माणि यत्र पीड्यन्ते द्वारैर्भित्तिभिरेव वा ।
दारिद्र्यं कुलहानिं वा गृहिणस्तत्र निर्दिशेत् ॥ ११७ ॥
स्तम्भैर्विनश्यति स्वामी तुलाभिः स्त्रीवधो ध्रुवम् ।
सङ्ग्रहैर्बन्धुनाशः स्याज्जयन्तीभिः स्नुषावधः ॥ ११८ ॥
मर्मस्थानस्थितैः कार्यैर्भर्तुः कायो निपीड्यते ।
मर्मस्थैः सन्धिपालैस्तु सुहृद्विश्लेषमादिशेत् ॥ ११९ ॥
गृहपीडा नागदन्तैर्नागपाशैर्धनक्षयः ।
कापिच्छुकैस्तु प्रेष्याणां क्षयं मर्मस्थितैर्वदेत् ॥ १२० ॥
षड्दारुकान्यनुसरागवाक्षालोकनानि च ।
मर्मस्थाननिविष्टानि जनयन्ति महाभयम् ॥ १२१ ॥
स्तम्भैर्वा द्वारमध्यैर्वा तुलाभिर्नागपाशकैः ।
वातायनैर्नागदन्तैर्द्वारमध्ये निपीडिते ॥ १२२ ॥
१ द. श्च । २ द. जुष्टान् चै° । ३ द. ज्ञा । ४ ख. गः च्छदावृतान्; द. °न्
भङ्गच्छेदावृतान् । ५ द. °रो । ६ द. नि । ७ द. धाः । ८ द. समं° । ९ द. लैः ।
१० द. त्थ । ११ द. धर्मस्थानानि° ।