सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

५८ ऋतुसंहारे

ष्टानां क्रौञ्चानां पक्षिविशेषाणां निनादैर्विरुतै राजितं शोभितं
तं तथोक्तम् । प्रकाममत्यन्तं कामो यस्मिंस्तं तथोक्तम् ।
प्रमदाजनस्य स्त्रीजनस्य प्रियमिष्टं शिशिर इत्याह्वया यस्य
तं तथोक्तं कालं समयं शृण्वाकर्णयेत्यर्थः । वंशस्थवृत्तमेतत् ।
तल्लक्षणं तु पूर्वमुक्तम् ॥
निरुद्धवातायनमन्दिरोदरं
हुताशनो भानुमतो गभस्तयः ।
गुरूणि वासांस्यबलाः सयौवनाः
प्रयान्ति कालेऽत्रे जनस्य सेव्यताम् ॥ २ ॥
निरुद्धेति ॥ अत्र काले शिशिरकाले निरुद्धान्यवरुद्धानि
वातायनानि गवाक्षा यस्य तादृशस्य मन्दिरस्योदरं गर्भदेशः ।
‘वातायनं गवाक्षः स्यात्’ इत्यमरः । हुताशनोऽग्निर्भानुमतः
सूर्यस्य गभस्तयः किरणाः । गुरूणि वासांसि च वस्त्राणि ।
सयौवनास्तारुण्यसहिता अबलाः स्त्रियो जनस्य लोकस्य से-
व्यतां प्रयान्ति प्राप्नुवन्तीति वचनविपरिणामेनान्वयः ॥
न चन्दनं चन्द्रमरीचिशीतलं
न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् ।
न वायवः सान्द्रतुषारशीतला
जनस्य चित्तं रमयन्ति सांप्रतम् ॥ ३ ॥
नेति ॥ सांप्रतमिदानीं चन्द्रमरीचय इव चन्द्ररश्मय इव
शीतलं शिशिरं चन्दनं जनस्य चित्तं न रमयति । तथा


१ 'अथ'.

पञ्चमः सर्गः । ५९
शरदिन्दुवन्निर्मलं स्वच्छं हर्म्यतलं हर्म्यपृष्ठं प्रासादतलं जनस्य
चित्तं न रमयति । तथा सान्द्रेण घनेन तुषारेण हिमेन
शीतलाः शिशिरा वायवः पवना अपि जनस्य चित्तं न
रमयन्तीत्यर्थः ॥
तुषारसंघातनिपातशीतलाः
शशाङ्कभाभिः शिशिरीकृताः पुनः ।
विपाण्डुतारागणजिह्मभूषिता
जनस्य सेव्या न भवन्ति रात्रयः ॥ ४ ॥
तुषारेति ॥ तुषारसंघातस्य हिमसमूहस्य निपातेन शी-
तलाः पुनः शशाङ्कस्य चन्द्रस्य भाः कान्तयस्ताभिः शिशि-
रीकृताः । एतेन शैत्याधिक्यं सूचितम् । विपाण्डुना पाण्डु-
रवर्णेन तारागणेन नक्षत्रसमूहेन जिह्मं वक्रं यथा भवति
तथा भूषिता शोभिता रात्रयः शर्वर्यो जनस्य लोकस्य सेव्याः
सेवितुमुपभोक्तुं योग्या न भवन्तीत्यर्थः ॥
गृहीतताम्बूलविलेपनस्रजः
सुखासवामोदितवक्त्रपङ्कजाः ।
प्रकामकालागुरुधूपवासितं
विशन्ति शय्यागृहमुत्सुकाः स्त्रियः ॥ ५ ॥
गृहीतेति ॥ गृहीतास्ताम्बूलं च विलेपनं च कस्तूर्यादि
स्रजः कुसुममालाश्च याभिस्तास्तथोक्ताः । सुखयतीति सुखः
सुखकरो य आसवो मधु तेनामोदितं सुगन्धितं वक्त्रपङ्कजं
१ 'शीतला'. २ 'शिशिरीकृताः'. ३ 'चारुभूषणाः'. ४ 'सुरासवा;'
'पुष्पासवा'. ५ 'वासिताम्'. ६ 'शय्याम्'. ७ 'उत्सुकस्त्रियः'.

६० ऋतुसंहारे
मुखकमलं यासां तास्तथोक्ताः । उत्सुका उत्कण्ठिताः स्त्रियः
प्रकाममत्यन्तं कालागुरोः कृष्णागुरोर्धूपेन वासितं शय्यागृहं
शय्यामन्दिरं विशन्ति प्रविशन्तीत्यर्थः ॥
कृतापराधान्बहुशोऽपि तर्जिता^१-
न्सवेपथून्साध्वसलुप्त^२चेतसः ।
निरीक्ष्य भर्तॄन्सुरताभिलाषिणः
स्त्रियोऽपराधान्समदा विसस्मरुः^३ ॥ ६ ॥
कृतापराधानिति ॥ समदा मदसहिताः स्त्रियः कामिन्यः
कृतोऽपराधो यैस्तथोक्तानत एव बहुशो बहुवारमपि तर्जि-
तान्वेपथुभिः कम्पैः सहिता युक्तास्तांस्तथोक्तान् । साध्वसं
भयम् । 'साध्वसं भयम्' इत्यमरः । पूर्वकृतापराधमूलकं तेन
लुप्तं विनष्टं चेतश्चित्तं येषां ते तथोक्तानभर्तॄन्प्रियान्सुरताभि-
लाषिणः संभोगाभिलाषिणो निरीक्ष्य वीक्ष्य अपराधान्पूर्वकृता-
न्विसस्मरुरपराधस्मरणेन विप्रियंनोचुरित्यर्थः । वंशस्थवृत्तमे-
तत् । तल्लक्षणं तूक्तम् ॥
प्रकामकामैर्युवभिः^४ सनिर्दयं^३
निशासुदीर्घास्वभिरामिताश्चिरम्^५ ।
भ्रमन्ति^६ मन्दं^७ श्रमखेदितोरसः^८
क्षपावसाने नवयौवनाः स्त्रियः ॥ ७ ॥
१ 'अभितर्जितान्'. २ 'मन्द'. ३ 'न सस्मरुः'. ३ 'सुरतेऽति-
निर्दयम्'; 'युवभिः सुनिर्दयम्'. ५ 'दीर्घास्वभिभाविता भृशम्;' 'गाढं
दयितैश्चिरं दृढम्'. ६ 'भवन्ति; धमन्ति'. ७ 'मन्द'. ८ 'खेदितो
रवः'. 'मोदितोरसः'. 'खेदितोरवः'.

पञ्चमः सर्गः । ६१
प्रकामकामैरिति ॥ प्रकाममत्यन्तं कामोऽभिलाषो येषां
तैस्तथोक्तैः । कामातुरैरित्यर्थः । युवभिस्तरुणैर्दीर्घासु निशासु
रात्रिषु चिरं चिरकालं निर्दयं निर्दयतया दयाभावेन सहितं
यथा भवति तथाभिरामिताः क्रीडिताः । अत एव श्रमेण
परिश्रमेण खेदितं खिन्नमुरो हृदयं यासां तास्तथोक्ता नवयौ-
वनास्तरुण्यः स्त्रियः क्षपायाः क्षणदाया अवसानं समाप्तिस्तस्मि-
न् । प्रभात इत्यर्थः । मन्दं मन्थरं भ्रमन्ति भ्रमणं कुर्वन्तीत्यर्थः ॥
मनोज्ञकूर्पासकपीड़ितस्तनाः
सरागकौशेयकभूषितोरसः ।
विवेशितान्तःकुसुमैः शिरोरुहै-
र्विभूषयन्तीव हिमागमं स्त्रियः ॥ ८ ॥
मनोज्ञेति ॥ मनोज्ञेन सुन्दरेण कूर्पासकेन चोलेन पीडि-
ताः स्तना यासां तास्तथोक्ताः । सरागं रागसहितं यत्कौशे-
यमेव कौशेयकं कृमिकोशोत्थं वस्त्रं तेन भूषितं शोभितमुरो
हृदयं यासां तास्तथोक्ताः स्त्रियो निवेशितानि निविष्टान्य-
न्तरन्तर्भागे कुसुमानि येषां ते तैस्तथोक्तैः शिरोरुहैः केशै-
र्हिमागमं शीतकालं विभूषयन्तीवेत्युत्प्रेक्षा ॥
पयोधरैः कुङ्कुमरागपिञ्जरैः
सुखोपसेव्यैर्नवयौवनोष्मभिः ।
विलासिनीभिः परिपीडितोरसः
स्वपन्ति शीतं परिभूय कामिनः ॥ ९ ॥
१ ‘कूर्पासनिपीडित’. २ ‘कौशेयविभूषितोरसः’. ३ ‘यौवनो-
त्सवाः’; ‘यौवनोत्सवः’. ४ ‘विलासिनीनाम्’. ५ ‘भृशम्’.

पयोधरैरिति ॥ विलासिनीभिः कुङ्कुमस्य केसरस्य रागेण
पिञ्जरैः पीतवर्णैः । सुखेनोपसेव्या उपभोग्यास्तैस्तथोक्तैः ।
नवो नूतनो यौवनस्य तारुण्यस्योष्मोष्ण्यं येषु तैस्तथोक्तैः
पयोधरैः कुचैः परिपीडितमुरो हृदयं येषां ते तथोक्ताः का-
मिनो विलासिनः शीतं हिमं परिभूयाभिभूय स्वपन्ति निद्रां
कुर्वन्तीत्यर्थः ॥
सुगन्धिनिश्वासविकम्पितोत्पलं
मनोहरं कामरतिप्रबोधकम्¹ ।
निशासु हृष्टाः सह कामिभिः स्त्रियः
पिबन्ति मद्यं मदनीयमुत्तमम् ॥ १० ॥
सुगन्धीति ॥ हृष्टा हर्षिताः स्त्रियो युवतयः सुगन्धिना
सुरभिणा निश्वासेन विकम्पितमुत्कम्पितमुत्पलं कुवलयं यस्मिं-
स्तत्तथोक्तं मनोहरं सुन्दरं काममत्यन्तं रतेः सुरतस्य प्रबो-
धकं प्रबोधजनकं मदनीयमुन्मादकरमुत्तममुत्तमजातीयं मद्यं
मधु निशासु रात्रिषु कामिभिः प्रियैः सह पिबन्तीत्यर्थः ॥
अपगतमदरागा योषिदेका² प्रभाते
³कृतनिविडकुचाग्रा पत्युरालिङ्गनेन ।
प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं
व्रजति शयनवासाद्वासमन्यद्धसन्ती⁴ ॥११॥
अपगतेति ॥ अपगतो मदरागो यस्याः सा तथोक्ता ।
पत्युः प्रियस्यालिङ्गनेन परिरम्भणेन कृतं निविडं सान्द्रं
कुचाग्रं स्तनाग्रं यस्याः सा तथोक्ता । प्रियतमेन कान्तेन प-
१ 'प्रबोधनम्'. २ 'एव'. ३ 'कृतविनतकुचाग्रा'; 'कुचनिविडकुचा
ग्रा'. ४ 'अन्यं हसन्ती'; 'अन्यद्व्रजन्ती'.

पञ्चमः सर्गः । ६३
रिभुक्तं स्वं देहं निजं शरीरं वीक्षमाणा पश्यन्ती हसन्ती स्मे-
राननैका योषित्स्त्री प्रभाते प्रातःकाले शयनवासादन्यद्वासं
मन्दिरं व्रजतीत्यर्थः । मालिनीवृत्तमेतत् । लक्षणं तूक्तम् ॥
अगुरुसुरभिधूपा¹मोदितं केश²पाशं
गलितकुसुममा³लं तन्वती कुञ्चिताग्रम् ।
त्यजति गुरुनितम्बा निम्नमध्यावसौन्ना
उषसि ⁵शयनमन्या कामिनी ⁷चारुशोभा ॥
अगुर्विति ॥ अगुरोः सुरभिणा सुगन्धिना धूपेनामोदि-
तः संजातसौरभस्तं तथोक्तम् । गलिता स्रस्ता कुसुममाला
यस्य तं तथोक्तम् । कुञ्चिताग्रं कुञ्चिता वक्रभावापन्ना अग्रा
अग्रभागा यस्य तादृशं केशपाशं केशसमूहं तन्वती । गुरु-
नितम्बा गुरू नितम्बौ यस्याः सा तथोक्ता । निम्नं कृशं
मध्यावसानं मध्यप्रान्तो यस्याः सा तथोक्ता । चारुशोभा सु-
न्दरशोभान्या कामिनी र्युषसि प्रातःकाले शयनं पर्यङ्कम् ।
‘शयनं मञ्चपर्यङ्कपत्यङ्काः’ इत्यमरः । त्यजति मुञ्चतीत्यर्थः ।
क्वचित्पुस्तके ‘निम्नमध्यावसन्ना’ इति पाठः । तदर्थस्तु
निम्नेन मध्येनावसन्ना खिन्नेति निम्नमध्यावसन्ना । ‘उषसि’
इत्यत्र विवक्षाप्राप्तत्त्वान्न संहिता तदुक्तम्—‘संहितैकपदे नि-
त्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा वि-
वक्षामपेक्षते ॥’ इति ॥
कनककमलकान्तैः ⁸सद्य एवाम्बुधौतैः
⁹श्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः ।
१ ‘आमोदितान्’. २ ‘केशपाशान्’. ३ ‘मालान्’. कुञ्चि-
ताग्रं वहन्ती’, ‘धुन्वती कुञ्चिताग्रान्’. ५ ‘निम्ननाभिः सुमध्या.
६ ‘शयनवासम्;’ ‘शयनमध्या’. ७ ‘कामशोभा;’ ‘कामशोभाम्’.
८ ‘चारुविम्बाधरोष्ठैः’. ९ ‘श्रवणतटनिषिक्तैः;’ ‘स्मरदमृतनिषक्तैः.

६४ ऋतुसंहारे
उषसि वदनबिम्बैरंससंसक्तकेशैः
श्रिय इव गृहमध्ये संस्थिता योषितोऽद्य ॥ १३॥
कनकेति ॥ सद्य एव तत्कालमेवाम्बुधौतैरम्बुना जलेन
धौतानि प्रक्षालितानि तैरत एव कनककमलकान्तैः कनकस्य
सुवर्णस्य कमलमम्बुजमिव कान्तैः सुन्दरैर्वदनबिम्बैः । 'चा-
रुताम्राधरोष्ठैः' इति पाठे तु चारवः सुन्दराश्च ते ताम्रा
आरक्ताश्च तेऽधरोष्ठाश्च तैः । श्रवणतटे कर्णप्रान्ते निष्पक्तै-
र्निषण्णैः । पाटलः पाटलवर्ण उपान्तः प्रान्तो येषां तादृशा-
नि च तानि नेत्राणि लोचनानि तैः । 'लोचनं नयनं नेत्र-
म्' इत्यमरः । अंसे स्कंदे संसक्ताः संलग्ना ये केशाः कुन्त-
लास्तैश्चोपलक्षिता योषितः स्त्रियोऽद्येदानीमुषसि प्रातःकाले
गृहमध्ये श्रिय इव लक्ष्म्य इव संस्थिताः ॥
पृथुजघनभरार्ताः किंचिदानम्रमध्याः
स्तनभरपरिखेदान्मन्दमन्दं व्रजन्त्यः ।
सुरतसमयवेषं नैशमांशु प्रहाय
दधति दिवसयोग्यं वेषमन्यास्तरुण्यः ॥ १४॥
पृथ्विति ॥ पृथोः स्थूलस्य जघनस्य कट्यग्रभागस्य
भरेणार्ताः पीडिताः । 'क्लीबे तु जघनं पुरः' इत्यमरः ।
किंचिदीषदानम्रं नतं मध्यं यासां तास्तथोक्ताः । स्तनानां
कुचानां भरेण भारेण यः परिखेदः श्रमस्तस्मान्मन्दमन्दं
मन्थरं व्रजन्त्यो गच्छन्त्योऽन्यास्तरुण्यः कामिन्यो निशि भवं
१ 'संयुक्त'. २ 'संस्मिता'. ३ 'मध्या'. ४ 'स्तनयुग'. ५ 'व्रजन्त्याः'
६ 'सुरतसमयखेदम्' ? 'सुरतशयनवेषम्. ७ 'अङ्गे'; 'अन्यत्'. ८ 'एषाः'.

पञ्चमः सर्गः । ६५
नैशं सुरतसमये संभोगकाले यो वेष आकारस्तमाशु झटिति
प्रहाय त्यक्त्वा दिवसयोग्यं वेषं दधतीत्यर्थः ॥
नखपदचितभागान्वीक्षमाणाः स्तनाग्रा-
नधरकिसलयाग्रं दन्तभिन्नं स्पृशन्त्यः ।
अभिमतरसमेतं नन्दयन्त्यस्तरुण्यः
सवितुरुदयकाले भूषयन्त्याननानि ॥ १५ ॥
नखपदेति ॥ नखपदैर्नखक्षतैश्चिता व्याप्ता भागा येषां
तांस्तथोक्तान्स्तनाग्रान्कुचाग्रान्वीक्षमाणा आलोकयन्त्यः । द-
न्तभिन्नं रदनखण्डितमधरः किसलयमिव पल्लवमिवेति तस्याग्रं
स्पृशन्त्यः स्पर्शं कुर्वन्त्य एतमभितो मनोऽभिलषितो यो रसस्तं
नन्दयन्त्योऽभिनन्दयन्त्यस्तरुण्यो विलासवत्यः सवितुः सूर्य-
स्योदयकाले प्रभात आननानि मुखानि भूषयन्त्यलंकुर्वन्तीत्यर्थः
प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः
प्रवलसुरतकेलिर्जातकंदर्पदर्पः ।
प्रियजनरहितानां चित्तसंतापहेतुः
शिशिरसमय एष श्रेयसे वोऽस्तु नित्यम् १६
प्रचुरेति ॥ प्रचुरो बहुलो गुडविकारः खण्डशर्करादि-
र्यसिंस्तथोक्तो जातः । स्वादवो ये शालयो धान्यानीक्षव
इक्षुदण्डाश्च तै रम्यो रमणीयः । प्रबला अत्याधिकाः सुरत-
केलयो यत्र तथाविधः । जातः संजातः कंदर्पदर्पो मन्मथा-
१ 'नखपदकृतभङ्गान्'. २ 'स्तनान्तान्'. ३ 'रतवेशम्'. ४ 'प्रसृत'.
५ 'शान्त.' ६ 'तेऽस्तु'.

५. पञ्चम सर्ग: शिशिर वर्णन (तुषार-पात व गृह-सौख्य)

६६ ऋतुसंहारे
धिक्यं यस्मिन्स तथोक्तः । प्रियजनेन कान्तजनेन रहिता-
नाम् । विरहिणीनामित्यर्थः । चित्तसंतापस्य हेतुः कारणमेष
शिशिरसमयः शीतकालो वो युष्माकं श्रेयसे कल्याणाय
नित्यं सदास्त्वित्यर्थः ॥
इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
शिशिरवर्णनं नाम पञ्चमः सर्गः ।
षष्ठः सर्गः ।
अथ क्रमप्राप्तं वसन्तकालं वर्णयति—
प्रफुल्लचूताङ्कुरतीक्ष्णसायको
द्विरेफमालाविलसद्धनुर्गुणः ।
मनांसि १वेद्धुं २सुरतप्रसङ्गिनां
वसन्तयोद्धा३ समुपागतः प्रिये ॥ १ ॥
प्रफुल्लेति ॥ हे प्रिये, प्रफुल्लस्य चूतस्याम्रवृक्षस्याङ्कुरा एव
तीक्ष्णा निशिताः सायका बाणा यस्य स तथोक्तः । द्विरेफाणां
भ्रमराणां माला पङ्क्तिरेव विलसन्धनुर्गुणो यस्य स तथोक्तो
वसन्तयोद्धा सुरतप्रसङ्गिनां मनांसि वेद्धुं विदारयितुं समुपागत
आगत इत्यर्थः । वंशस्थवृत्तमेतत् । लक्षणं तूक्तम् ॥
द्रुमाः सपुष्पाः सलिलं ४सपद्मं
स्त्रियः सकामाः ५पवनः ६सुगन्धिः ।
१ 'भत्तुम्'. २ 'सुरतोत्सुकानाम्'. ३ 'योधः' ४ 'सुपद्मम्'-
५ 'पवनाः' ६ 'सुगन्धयः'.

षष्ठः सर्गः । ६७
सुखाः प्रदोषा दिवसाश्च रम्याः
सर्वं प्रिये चारुतरं वसन्ते ॥ २ ॥
द्रुमा इति ॥ हे प्रिये, वसन्ते वसन्तकाले सर्वं चारुत-
रमतिरमणीयमस्ति । सर्वं किं तदाह—द्रुमा इति । द्रुमा
वृक्षाः सपुष्पाः कुसुमसहिताः । सलिलं जलं सपद्मं कमल-
सहितम् । स्त्रियो वनिताः सकामाः समन्मथाः । पवनो
वायुः सुगन्धिः कुसुमसंसर्गात्सुरभिः । प्रदोषाः संध्यासमयाः
सुखाः सुखकराः । दिवसाश्च रम्या रमणीया इति । उप-
जातिवृत्तमेतत् । लक्षणं तूक्तम् ॥
वापीजलानां मणिमेखलानां
शशाङ्कभासां प्रमदाजनानाम् ।
चूतद्रुमाणां कुसुमान्वितानां
ददाति सौभाग्यमयं वसन्तः ॥ ३ ॥
वापीति ॥ अयं वसन्तो वसन्तकालो वापीजलानां दीर्धि-
काजलानाम् । तत्र जलक्रीडावशात् मणिमेखलानां मणिख-
चितमेखलानाम् । स्त्रीभिः कटिप्रदेशे धारणात् । शशाङ्कभा-
सां चन्द्रकान्तीनाम् । रात्रौ संसेव्यत्वात् । प्रमदाजनानां
वनिताजनानाम् । सुखभोगात् । कुसुमैः पुष्पैैरन्विता युक्ता-
स्तेषां तथोक्तानां चूतद्रुमाणामाम्रवृक्षाणाम् । स्त्रीकर्णावतंस-
विषयपल्लवत्वात् । सौभाग्यं सुभगतां ददातीत्यर्थः ॥
कुसुम्भरागारुणितैर्दुकूलै-
र्नितम्बबिम्बानि विलासिनीनाम् ।
१ 'कुसुमानतानाम्'. २ 'सौरभ्यम्'. ३ 'नितम्बिनीनाम्'.
२-३ श्लोकयोर्मध्येऽयं श्लोको दृश्यते—
ईषत्तुषारैः कृतशीतहर्म्यः सुवासितं चारुशिरः सचम्पकैः ।
कुर्वन्ति नार्योऽपि वसंतकाले स्तनं सहारं कुसुमैर्मनोहरैः ॥

६८ ऋतुसंहारे
¹रक्तांशुकैः ²कुङ्कुमरागेगौरै-
रलंकियन्ते स्तनमण्डलानि ॥ ४ ॥
कुसुम्भेति ॥ कुसुम्भस्य रागेणारुणितानि रक्तानि तैस्त-
थोक्तैर्दुकूलैर्वस्त्रैर्विलासिनोनां विलासवतीनां नितम्बबिम्बानि ।
कुङ्कुमस्य केसरस्य रागेण गौराः पिञ्जरास्तैस्तथोक्तै रक्तांशुकै
रक्तवस्त्रैः स्तनमण्डलानि कुचमण्डलान्यलंकियन्त इत्यर्थः ॥
कर्णेषु योग्यं नवकर्णिकारं
चलेषु नीलेष्वलकेष्व⁴शोकम् ।
⁵पुष्पं च फुल्लं ⁶नवमल्लिकायाः
⁷प्रयाति कान्तिं ⁸प्रमदाजनानाम् ॥ ५ ॥
कर्णेष्विति ॥ प्रमदाजनानां वनिताजनानां कर्णेषु श्रव-
णेषु योग्यमवतंसयोग्यं नवं नूतनं कर्णिकारं कर्णिकारकुसु-
मम् । 'अथ द्रुमोत्पलः । कर्णिकारः परिव्याधः' इत्यमरः ।
चलेषु चञ्चलेषु नीलेषु कृष्णवर्णेष्वलकेष्वशोकं वञ्जुलकुसुम-
म् । 'वञ्जुलोऽशोके' इत्यमरः । फुल्लं संफुल्लं नवमल्लिकायाः
पुष्पं च । जात्यभिप्रायेणैकवचनम् । कान्तिं शोभां प्रयाति
प्राप्नोतीत्यर्थः ॥
स्तनेषु हाराः सितचन्दनाद्र्रा
भुजेषु संङ्गं वलयाङ्गदानि ।
१ 'तन्वंशुकैः' २ 'पिञ्जरैः. ३ 'स्तनेषु हाराः.' ४ 'अशोकः'.
५ 'शिखासु फुल्लाः', 'शिखासु मालाः'. ६ 'नवमालिकाश्च'. ७ 'प्र-
यान्ति शोभाम्'. ८ 'प्रमदाजनस्य'. ९ 'कम्बूवलयाङ्गदानि'.

प्रयान्त्येन¹ङ्गातुरमानसानां
नितम्बिनीनां जघनेषु काञ्च्यः ॥ ६ ॥
स्तनेष्विति ॥ अनङ्गेन मन्मथेनातुरं पीडितं मानसं
यासां तासां तथोक्तानां नितम्बिनीनां नितम्बवतीनां स्तनेषु
कुचेषु सितचन्दनेन धवलचन्दनद्रवेणार्द्रा हारा मुक्ताहाराः
भुजेषु बाहुषु वलयाङ्गदानि कटककेयूराणि । जघनेषु का-
ञ्च्यः सङ्गं संबन्धं प्रयान्ति प्राप्नुवन्तीत्यर्थः ॥
सपत्रलेखेषु विलासिनीनां
वक्त्रेषु हेमाम्बुरुहोपमेषु ।
र²त्नान्तरे मौक्तिकसङ्ग³रम्यः
स्वेदा⁴गमो विस्तरतामुपैति ॥ ७ ॥
सपत्रेति ॥ रत्नान्तरे रत्नानां मध्ये मौक्तिकानां मुक्ताफलानां
सङ्गेनैव रम्यो रमणीयः स्वेदागमो घर्मनिर्गमो विलासिनीनां
विलासवतीनां स्त्रीणां सपत्रलेखेषु पत्रलेखा कपोलादौ कस्तूर्या-
दिरचितावली तया सहितेषु हेमाम्बुरुहेण काञ्चनपद्मेनोपमेषु
वक्त्रेषु मुखेषु विस्तरतां विस्तारभावमुपैति प्राप्नोतीत्यर्थः ॥
उच्छ्वासयन्त्यः श्लथबन्धनानि
गात्राणि कंदर्पसमाकुलानि ।
समीपवर्ति⁵ष्वधुना प्रियेपु
समुत्सुका एव भवन्ति नार्यः ॥ ८ ॥
उच्छ्वासयन्त्य इति ॥ श्लथानि शिथिलानि बन्धनानि
१. 'निःशङ्कमनङ्गसौख्यम्'; 'निःसङ्गमनङ्गसौख्यम्'. २. 'स्तनान्तरे'.
३. 'सङ्गातः'. ४. 'स्वेदोद्गमः'. ५. 'अपि कार्मुकेषु'.
७

७० ऋतुसंहारे

कञ्चुक्यादीनां येषु तानि तथोक्तानि कंदर्पेणानङ्गेन समाकु-
लानि व्याकुलानि । ‘कंदर्पो दर्पकोऽनङ्गः’ इत्यमरः । गात्रा-
णि शरीराण्युच्छ्वासयन्त्यो नार्यः स्त्रियोऽधुना वसन्तकाले
समीपवर्तिषु निकटस्थितेषु प्रियेषु कान्तेषु समुत्सुका उत्क-
ण्ठिता एव भवन्ति जायन्त इत्यर्थः ॥
तनूनि पाण्डूनि ²समन्थराणि
मुहुर्मुहुर्जृम्भणतत्पराणि ।
अङ्गान्यनङ्गः प्रमदाजनस्य
करोति लावण्य²संसंभ्रमाणि ॥ ९ ॥
तनूनीति ॥ अनङ्गः कामः प्रमदाजनस्य स्त्रीजनस्याङ्गानि
गात्राणि तनूनि कृशानि पाण्डूनि पाण्डुवर्णानि समन्थराणि
जडीभूतानि मुहुर्मुहुर्वारंवारं जृम्भणतत्पराणि जृम्भणे प्रसि-
तानि । ‘तत्परे प्रसितासक्तौ’ इत्यमरः । लावण्येन सौन्द-
र्येण ससंभ्रमाणि संवेगसहितानि । ‘समौ संवेगसंभ्रमौ’
इत्यमरः । करोतीत्यर्थः ॥
नेत्रेषु लो³लो ४मदिरालसेषु
गण्डेषु पाण्डुः ५कठिनः स्तनेषु ।
मध्येषु नि६म्नो जघनेषु पीनः
स्त्रीणामनङ्गो बहुधा स्थितोऽद्य ॥ १० ॥
नेत्रेष्विति ॥ स्त्रीणां युवतीनां मदिरयालसान्यालस्ययु-
क्तानि तेषु तथोक्तेषु नेत्रेषु लोचनेषु । ‘लोचनं नयनं नेत्रम्’
इत्यमरः । लोलश्चञ्चलः। गण्डेषु कपोलेषु पाण्डुः पाण्डुवर्णः।
१. ‘मदालसानि’. २. ‘रसोत्सुकानि’. ३. ‘लोलम्’; ‘अलोलः’.
४. ‘मदिरारसेषु’. ५. ‘कठिनस्तनेषु’. ६. ‘नग्नः’.

स्तनेषु कुचेषु कठिनः । मध्येषु मध्यभागेषु निम्नॊ गभीरः ।
जघनेषु पीनः पुष्ट इत्यनेन प्रकारेणानङ्गः कामोऽद्य बहुधा
बहुप्रकारेण स्थित उपस्थित इत्यर्थः ॥
अङ्गानि निद्रालसवि१भ्रमाणि
वाक्यानि किंचिन्मद२लालसानि ।
भ्रूक्षेपजिह्मानि च वीक्षितानि
चकार कामः ३प्रमदाजनानाम् ॥ ११ ॥
अङ्गानीति ॥ कामः प्रमदाजनानां कामिनीनामङ्गानि
शरीराणि निद्रयालसा विभ्रमा शृङ्गारवेषा येषु तानि तथो-
क्तानि । वाक्यानि किंचिदीषन्मदेन लालसानि चाटूनि ।
वीक्षितानि प्रेक्षणानि भ्रूक्षेपेण जिह्मानि कुटिलानि च चकार
कृतवानित्यर्थः ॥
प्रियङ्गुकालीयककुं४कुमाक्तं
५स्तनेषु गौरेषु विलासिनीभिः ।
आलिप्यते चन्दनमङ्गनाभि-
र्मदालसाभिर्मृगनाभियुक्तम् ॥ १२ ॥
प्रियङ्ग्विति ॥ विलासिनीभिर्विलासवतीभिर्मदेनालसा
आलस्ययुक्तास्ताभिस्तथोक्ताभिरङ्गनाभिः स्त्रीभिर्गौरेषु गौरव-
र्णेषु स्तनेषु कुचेषु प्रियङ्गुः श्यामा लता, कालीयकं जाय-
कम्, कुङ्कुमं केसरं च तैराक्तं युक्तं मृगनाभियुक्तं कस्तूरी-
युक्तं चन्दनमालिप्यते लाप्यत इत्यर्थः ॥
१. 'विह्वलानि'. २. 'मदिरालसानि;' 'मदसालसानि'. ३. 'प्रमदो-
त्तमानाम्.' ४. 'कुङ्कुमानि' . ५. 'स्तनाङ्गरागेषु विसर्जितानि'; 'स्तना-
ङ्गरागेषु विचर्चितानि'.

७२ ऋतुसंहारे
गुरूणि वासांसि विहाय तूर्णं
तनूनि लाक्षारसरञ्जितानि ।
सुगन्धिकालागुरुधूपितानि
धत्ते जनः काममदालसाङ्गः ॥ १३ ॥
गुरूणीति ॥ काममदेनालसमङ्गं यस्य स तथोक्तो जनो
गुरूणि वासांसि वस्त्राणि तूर्णं सत्वरं विहाय त्यक्त्वा तनूनि
सूक्ष्माणि लाक्षारसेन रञ्जितान्यारक्तानि सुगन्धिना सुरभिणा
कालागुरुणा कृष्णागुरुणा धूपितानि संजातधूपानि वासांसि
धत्ते दधातीत्यर्थः ॥
पुंस्कोकिलश्चूतरसासवेन
मत्तः प्रियां चुम्बति रागहृष्टः ।
कूजद्विरेफोऽप्ययमम्बुजस्थः
प्रियं प्रियायाः प्रकरोति चाटु ॥ १४ ॥
पुंस्कोकिलेति ॥ रागेण हृष्टो हर्षितश्चूतस्याम्रवृक्षस्य रस
एवासवस्तेन मत्तः प्रमत्तः पुंस्कोकिलः प्रियां चुम्बति । अ-
म्बुजे कमले तिष्ठति स तथोक्तः कूजन्गूञ्जन्नयं द्विरेफो भ्रम-
रोऽपि प्रियाया भ्रमर्याः प्रियमिष्टं चाटु प्रकरोतीत्यर्थः ॥
ताम्रप्रवालस्तवकावनम्रा-
श्चूतद्रुमाः पुष्पितचारुशाखाः ।
१. 'शिरांसि'. २. 'कामशरानुविद्धः'. ३. 'चूतरसेन मत्तः प्रिया-
मुखं चुम्बति सादरोऽयम्'. ४. 'गुञ्जन्'. ५. 'अधिकः प्रमत्तः'.
६. 'क्षिप्रम्'. ७. 'चाटुम्'; 'क्षिप्रम्'. ८. 'प्रवालनम्रास्तवकावतंसाः'.

षष्ठः सर्गः । ७३
कुर्वन्ति कामं¹ पवनावधूताः²
पर्युत्सुकं³ मानसमङ्गनानाम् ॥ १५ ॥
ताम्रेति ॥ ताम्राणामारक्तानां प्रवालानां पल्लवानां स्तब-
कैर्गुच्छैरवनम्रा नताः । पुष्पिताः संजातपुष्पा अत एव चारवः
सुन्दराः शाखा येषां ते तथोक्ताः । पवनेन वायुनावधूताः
कम्पिताश्चूतद्रुमा आम्रवृक्षा अङ्गनानां वनितानां मानसमन्तः-
करणं काममत्यन्तं पर्युत्सुकमुत्कण्ठितं कुर्वन्तीत्यर्थः ॥
आ मूलतो विद्रुमरागताम्रं⁴
सपल्लवाः⁵ पुष्पचयं दधानाः ।
कुर्वन्त्यशोका हृदयं सशोकं
निरीक्ष्यमाणा नवयौवनानाम् ॥ १६ ॥
आ मूलेति ॥ आ मूलतो मूलादारभ्य विद्रुमस्य प्रवा-
लस्य रागवत्ताम्रमारक्तं पुष्पचयं कुसुमसमूहं दधाना धारय-
न्तः सपल्लवाः पत्रसहिता अशोका वञ्जुलद्रुमा निरीक्ष्यमाणा
अवलोक्यमानाः सन्तो नवयौवनानां विप्रयुक्तानां तरुणीनां
चं⁶ हृदयं सशोकं कुर्वन्तीत्यर्थः ॥
मत्तद्विरेफपरिचुम्बितचारुपुष्पा
मन्दानिलाकुलितनम्रमृदुप्रवालाः ।
कुर्वन्ति कामिमनसां सहसोत्सुकत्वं
चूताभिरामकलिकाः⁷ समवेक्ष्यमाणाः ॥ १७॥
१. 'कान्ते'. २. 'पवनाभिभूताः'. ३. 'समुत्सुकम्'. ४. 'ताम्राः'.
५. 'सपल्लवम्'. ६. 'चारु'. ७. 'चूता विमुक्तकलिकाः'; 'बालातिमु-
क्तकलिकाः'.

७४ ऋतुसंहारे
मत्तेति ॥ मत्तैरुन्मत्तैर्द्विरेफैर्भ्रमरैः परिचुम्बितानि चारू-
णि सुन्दराणि पुष्पाणि यासां तास्तथोक्ताः । मन्दैरनतिप्रब-
लैरनिलैः पवनैराकुलिता आन्दोलिता नम्रा नम्रीभूता मृदवः
कोमलाश्च प्रवाला नवकिसलया यासां तास्तथोक्ताः । चूत-
स्याग्रस्याभिरामाः सुन्दराः कलिकासमवेक्ष्यमाणा अवलोक्य-
मानाः सत्यः कामिमनसां सहसाकस्मादुत्सुकत्वमौत्सुक्यं कुर्व-
न्तीत्यर्थः ॥ वसन्ततिलकावृत्तमेतत् । लक्षणं तूक्तम् ॥
१कान्तामुखद्युतिजुषामपि चोद्गतानां
शोभां परां कुरवकद्रुममञ्जरीणाम् ।
दृष्ट्वा प्रिये २सहृदयस्य भवेन्न कस्य
कंदर्पबाण३पतनव्यथितं हि चेतः ॥ १८ ॥
कान्तेति ॥ हे प्रिये, कान्तामुखस्य रमणीवदनस्य द्युतिं
कान्तिं जुषन्ते सेवन्त इति तेषां तथोक्तानाम् । अपि च
किंचोद्गतानां निर्गतानाम् । कुरवकद्रुमा अम्लानवृक्षास्तेषां
मञ्जरीणाम् । 'अम्लानस्तु महासहा । तत्र शोणे कुरबकः'
इत्यमरः । परामुत्कृष्टां शोभां दृष्ट्वावलोक्य कस्य सहृदयस्य
चेतोऽन्तःकरणं कंदर्पस्य कामस्य बाणानां शराणां पतनेन
निपातेन व्यथितं पीडितं न भवेत् । अपि तु सर्वस्यापी-
त्यर्थः । हिः पादपूरणार्थः ॥
आदीप्तवह्निसदृशैर्मरुतावधूतैः
सर्वत्र किंशुकवनैः कुसुमावनम्रैः ।
१. 'कान्तामुखद्युतिमनोहरमुद्धतानाम्'; 'कान्ताननद्युतिमुषामचि-
रोद्गतानाम्'; 'नानामुखद्युतिजुषामपि चोद्गतानाम्'. २. 'हि पथिकस्य'.
३. 'निकरैर्व्यथितम्'; 'पतनव्यथनम्'.

षष्ठः सर्गः । ७५
सद्यो वसन्तसमये हि¹ समाचितेयं
रक्तांशुका नववधूरिव भाति भूमिः ॥ १९ ॥
आदीप्तेति ॥ वसन्तसमये वसन्तकाले सर्वत्रेतस्ततः सद्यः
सत्वरमादीप्तेनाभिमुख्येन प्रज्वलितेन वह्निना सदृशैस्त-
थोक्तैः । आरक्तैरित्यर्थः । मरुता पवनेनावधूताः कम्पिता-
स्तैस्तथोक्तैः । कुसुमैः पुष्पैरावनम्रा नतास्तैस्तथोक्तैः किंशुक-
वनैः पलाशवृक्षसमुदायैः । ‘पलाशे किंशुकः पर्णी वातपोथः’
इत्यमरः ॥ समाचितेयं भूमिः पृथिवी रक्तांशुका रक्तवसना
नववधूरिव नूतनस्त्रीव भाति शोभत इत्यर्थः । हि निश्चितम् ॥
किं किंशुकैः शुकमुखच्छविभिर्न भिन्नं²
किं कर्णिकारकुसुमैर्न कृतं नु दग्धम् ।
यत्कोकिलः⁴ पुनरयं मधुरैर्वचोभि-
र्यूनां मनः सुवदनानिहितं निहन्ति ॥ २० ॥
किं किंशुकैरिति ॥ सुवदनायां रमणीयमुखायां निहितं
स्थापितं यूनां तरुणानां मनोऽन्तःकरणं शुकस्य कीरस्य मुख-
स्य वदनस्य छविरिव छविः कान्तिर्येषां तैस्तथोक्तैः किंशुकैः
पलाशकुसुमैः किं न भिन्नं न विदारितम् । कर्णिकारस्य द्रुमो-
त्पलस्य कुसुमैः पुष्पैश्च । नु निश्चयम् । किं दग्धं न कृतम् ।
यत्पुनरयं कोकिलो मधुरैर्वचोभिर्वचनैर्निहन्तीत्यर्थः ॥
१. ‘न समागतेयम्’; ‘समुपागते हि’. २. ‘दग्धम्’. ३. ‘कृतं मनो-
ज्ञम्’; ‘हृतं मनोज्ञैः’. ४. ‘कोकिलाः’. ५. ‘पुरुरवैः’, ‘पुनरमी’.
६. ‘सुवदने नियतं हरन्ति’.

७६ ऋतुसंहारे
पुंस्कोकिलैः कलवचोभिरुपात्तहर्षैः
कूजद्भिरुन्मदकलानि वेचांसि भृङ्गैः ।
लज्जान्वितं सविनयं हृदयं क्षणेन
पर्याकुलं कुलगृहेऽपि कृतं वधूनाम् ॥ २१ ॥
पुंस्कोकिलैरिति ॥ कलमव्यक्तमधुरं वचो वचनं येषां
तैस्तथोक्तैः । उपात्तः संप्राप्तो हर्षो येषां तैस्तथोक्तैः पुंस्को-
किलैः । उन्मदेनोत्कटमदेन कलान्यव्यक्तमधुराणि वचांसि
वचनानि कूजद्भिर्भृङ्गैर्भ्रमरैः । लज्जया त्रपयानन्वितं युक्तं स-
विनयं विनयसहितं वधूनां स्त्रीणां हृदयं कुलगृहेऽपि क्षणेन
क्षणमात्रेण पर्याकुलं व्याकुलं कृतमित्यर्थः ॥
आकम्पयन्कुसुमिताः सहकारशाखा
विस्तारयन्परभृतस्य वचांसि दिक्षु ।
वायुर्विवाति हृदयानि हरन्नैराणां
नीहारपातविगमात्सुँभगो वसन्ते ॥ २२ ॥
आकम्पयन्निति ॥ वसन्ते वसन्तकाले नीहारस्य हिमस्य
यः पातः पतनं तस्य विगमान्नाशात्सुभगः सुन्दरो वायुः
पवनः कुसुमिताः संजातकुसुमाः सहकारस्यातिसौरभस्याम्र-
वृक्षस्य शाखाः । ‘आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः’
इत्यमरः । आकम्पयन्सन् । दिक्षु परभृतस्य कोकिलस्य ।
‘वनप्रियः परभृतः कोकिलः पिकः’ इत्यमरः । वचांसि
वचनानि विस्तारयन् । नराणां पुंसां हृदयानि हरन्नपहर-
न्निवाति विशेषेण वहतीत्यर्थः ॥
१. ‘फलरसैः समुपात्तहर्षैः’. २. ‘विलोचनानि’; ‘वचांसि धीरम्’.
३. ‘वधूनाम्’. ४. ‘विमलः.’

षष्ठः सर्गः । ७७
कुन्दैः सविभ्रमवधूहसितावदातै-
रुद्द्योतितान्युपवनानि मनोहराणि ।
चित्तं मुनेरपि हरन्ति निवृत्तरागं
प्रागेव रागमलिनानि मनांसि यूनाम् ॥२३॥
कुन्दैरिति ॥ सविभ्रमाणि विभ्रमसहितानि यानि वधूह-
सितानि रमणीहास्यानि तानीवावदातानि धवलानि तैस्तथो-
क्तैः । 'अवदातः सितो गौरोऽवलक्षो धवलोऽर्जुनः' इत्यमरः ।
कुन्दैः कुन्दकुसुमैरुद्द्योतितानि दीप्तानि । शोभितानीति याव-
त् । मनोहराण्युपवनान्यारामाः । निवृत्तोऽनुरागो यस्मात्तत्तथो-
क्तं मुनेरपि चित्तं हरन्त्यपहरन्ति । प्रागेव मुनिचित्तापहर-
णात्प्रागेव रागेण मलिनानि यूनां मनांसि हरन्तीत्यर्थः ॥
आलम्बिहेमरसनाः स्तनसक्तहाराः
कंदर्पदर्पशिथिलीकृतगात्रयष्ट्यः ।
मासे मधौ मधुरकोकिलभृङ्गनादै-
र्नार्यो हरन्ति हृदयं प्रसभं नराणाम् ॥२४॥
आलम्बीति ॥ आलम्बिन्यो लम्बमाना हेमरसनाः सुव-
र्णमेखला यासां तास्तथोक्ताः । स्तनेषु कुचेषु सक्ताः संसक्ता
हारा यासां तास्तथोक्ताः । कंदर्पस्य मन्मथस्य दर्पेनाधिक्येन
शिथिलीकृता गात्रयष्ट्यः शरीरलता यासां तास्तथोक्ता नार्यः
स्त्रियो मधौ मासे वसन्ते नराणां हृदयं मधुरैः कोकिलाश्च
भृङ्गाश्च तेषां नादैर्विरुतैः सह प्रसभमत्यन्तं हरन्तीत्यर्थः ॥
१. 'प्रायेण रागचलितानि'; 'प्रागेव रागमखिलानि'. २. 'पुंसाम्'.
३. 'प्रालम्बि'. ४. 'रावैः'. ५. 'रामाः'.