ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 77, कुल 91 में से
संदर्भ में पढ़ें७४ ऋतुसंहारे
मत्तेति ॥ मत्तैरुन्मत्तैर्द्विरेफैर्भ्रमरैः परिचुम्बितानि चारू-
णि सुन्दराणि पुष्पाणि यासां तास्तथोक्ताः । मन्दैरनतिप्रब-
लैरनिलैः पवनैराकुलिता आन्दोलिता नम्रा नम्रीभूता मृदवः
कोमलाश्च प्रवाला नवकिसलया यासां तास्तथोक्ताः । चूत-
स्याग्रस्याभिरामाः सुन्दराः कलिकासमवेक्ष्यमाणा अवलोक्य-
मानाः सत्यः कामिमनसां सहसाकस्मादुत्सुकत्वमौत्सुक्यं कुर्व-
न्तीत्यर्थः ॥ वसन्ततिलकावृत्तमेतत् । लक्षणं तूक्तम् ॥
१कान्तामुखद्युतिजुषामपि चोद्गतानां
शोभां परां कुरवकद्रुममञ्जरीणाम् ।
दृष्ट्वा प्रिये २सहृदयस्य भवेन्न कस्य
कंदर्पबाण३पतनव्यथितं हि चेतः ॥ १८ ॥
कान्तेति ॥ हे प्रिये, कान्तामुखस्य रमणीवदनस्य द्युतिं
कान्तिं जुषन्ते सेवन्त इति तेषां तथोक्तानाम् । अपि च
किंचोद्गतानां निर्गतानाम् । कुरवकद्रुमा अम्लानवृक्षास्तेषां
मञ्जरीणाम् । 'अम्लानस्तु महासहा । तत्र शोणे कुरबकः'
इत्यमरः । परामुत्कृष्टां शोभां दृष्ट्वावलोक्य कस्य सहृदयस्य
चेतोऽन्तःकरणं कंदर्पस्य कामस्य बाणानां शराणां पतनेन
निपातेन व्यथितं पीडितं न भवेत् । अपि तु सर्वस्यापी-
त्यर्थः । हिः पादपूरणार्थः ॥
आदीप्तवह्निसदृशैर्मरुतावधूतैः
सर्वत्र किंशुकवनैः कुसुमावनम्रैः ।
१. 'कान्तामुखद्युतिमनोहरमुद्धतानाम्'; 'कान्ताननद्युतिमुषामचि-
रोद्गतानाम्'; 'नानामुखद्युतिजुषामपि चोद्गतानाम्'. २. 'हि पथिकस्य'.
३. 'निकरैर्व्यथितम्'; 'पतनव्यथनम्'.