ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 76, कुल 91 में से
संदर्भ में पढ़ेंषष्ठः सर्गः । ७३
कुर्वन्ति कामं¹ पवनावधूताः²
पर्युत्सुकं³ मानसमङ्गनानाम् ॥ १५ ॥
ताम्रेति ॥ ताम्राणामारक्तानां प्रवालानां पल्लवानां स्तब-
कैर्गुच्छैरवनम्रा नताः । पुष्पिताः संजातपुष्पा अत एव चारवः
सुन्दराः शाखा येषां ते तथोक्ताः । पवनेन वायुनावधूताः
कम्पिताश्चूतद्रुमा आम्रवृक्षा अङ्गनानां वनितानां मानसमन्तः-
करणं काममत्यन्तं पर्युत्सुकमुत्कण्ठितं कुर्वन्तीत्यर्थः ॥
आ मूलतो विद्रुमरागताम्रं⁴
सपल्लवाः⁵ पुष्पचयं दधानाः ।
कुर्वन्त्यशोका हृदयं सशोकं
निरीक्ष्यमाणा नवयौवनानाम् ॥ १६ ॥
आ मूलेति ॥ आ मूलतो मूलादारभ्य विद्रुमस्य प्रवा-
लस्य रागवत्ताम्रमारक्तं पुष्पचयं कुसुमसमूहं दधाना धारय-
न्तः सपल्लवाः पत्रसहिता अशोका वञ्जुलद्रुमा निरीक्ष्यमाणा
अवलोक्यमानाः सन्तो नवयौवनानां विप्रयुक्तानां तरुणीनां
चं⁶ हृदयं सशोकं कुर्वन्तीत्यर्थः ॥
मत्तद्विरेफपरिचुम्बितचारुपुष्पा
मन्दानिलाकुलितनम्रमृदुप्रवालाः ।
कुर्वन्ति कामिमनसां सहसोत्सुकत्वं
चूताभिरामकलिकाः⁷ समवेक्ष्यमाणाः ॥ १७॥
१. 'कान्ते'. २. 'पवनाभिभूताः'. ३. 'समुत्सुकम्'. ४. 'ताम्राः'.
५. 'सपल्लवम्'. ६. 'चारु'. ७. 'चूता विमुक्तकलिकाः'; 'बालातिमु-
क्तकलिकाः'.