ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 79, कुल 91 में से
संदर्भ में पढ़ें७६ ऋतुसंहारे
पुंस्कोकिलैः कलवचोभिरुपात्तहर्षैः
कूजद्भिरुन्मदकलानि वेचांसि भृङ्गैः ।
लज्जान्वितं सविनयं हृदयं क्षणेन
पर्याकुलं कुलगृहेऽपि कृतं वधूनाम् ॥ २१ ॥
पुंस्कोकिलैरिति ॥ कलमव्यक्तमधुरं वचो वचनं येषां
तैस्तथोक्तैः । उपात्तः संप्राप्तो हर्षो येषां तैस्तथोक्तैः पुंस्को-
किलैः । उन्मदेनोत्कटमदेन कलान्यव्यक्तमधुराणि वचांसि
वचनानि कूजद्भिर्भृङ्गैर्भ्रमरैः । लज्जया त्रपयानन्वितं युक्तं स-
विनयं विनयसहितं वधूनां स्त्रीणां हृदयं कुलगृहेऽपि क्षणेन
क्षणमात्रेण पर्याकुलं व्याकुलं कृतमित्यर्थः ॥
आकम्पयन्कुसुमिताः सहकारशाखा
विस्तारयन्परभृतस्य वचांसि दिक्षु ।
वायुर्विवाति हृदयानि हरन्नैराणां
नीहारपातविगमात्सुँभगो वसन्ते ॥ २२ ॥
आकम्पयन्निति ॥ वसन्ते वसन्तकाले नीहारस्य हिमस्य
यः पातः पतनं तस्य विगमान्नाशात्सुभगः सुन्दरो वायुः
पवनः कुसुमिताः संजातकुसुमाः सहकारस्यातिसौरभस्याम्र-
वृक्षस्य शाखाः । ‘आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः’
इत्यमरः । आकम्पयन्सन् । दिक्षु परभृतस्य कोकिलस्य ।
‘वनप्रियः परभृतः कोकिलः पिकः’ इत्यमरः । वचांसि
वचनानि विस्तारयन् । नराणां पुंसां हृदयानि हरन्नपहर-
न्निवाति विशेषेण वहतीत्यर्थः ॥
१. ‘फलरसैः समुपात्तहर्षैः’. २. ‘विलोचनानि’; ‘वचांसि धीरम्’.
३. ‘वधूनाम्’. ४. ‘विमलः.’