सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 468, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 468

४४२ प्रमाणवार्त्तिके [ हेतुलक्षण-
सत्तासाधनवृत्तेश्च सन्दिग्धः स्यादसन्न सः ।
असत्त्वं चाभ्युपगमादप्रमाणं न युज्यते ॥ २३७ ॥
असतो व्यतिरेकेऽपि सपक्षाद् विनिवर्त्तनम् ।
सन्दिग्धं तस्य सन्देहाद् विपक्षाद् विनिवर्त्तनम् ॥ २३८ ॥
एकत्र नियमे सिद्धे सिध्यत्यन्यनिवर्त्तनम् ।
द्वैराश्ये सति दृष्टेषु स्याददृष्टेऽपि संशयः ॥ २३९ ॥
किञ्च—'प्राणादेः सपक्षो नास्तीति ततो न व्यतिरेकः' इति यद्युच्यते,
तदसङ्गतम् ? इत्याह—आत्मनः सत्तायां साधनस्य प्राणादेर्वृत्तेः कारणात्
वादिप्रतिवादिनोरात्मा सन्दिग्धः स्यात् । न ह्यसत्तया निश्चितेऽर्थे कश्चित्
साधनमाह । प्रतिवादी च तत्साधनं शृण्वन् कथमसन्दिग्धो नाम, आत्म-
सन्देहाच्च सपक्षो नासन्, तत् कथमुच्यते—सपक्षासत्त्वात् न ततो व्यावृत्त
इति । व्यतिरेकी प्राणादिः । स्यादेतत् । प्रतिवादिनः सात्मत्वेन कस्याश्चिदनिष्टेः
सपक्षाभाव उच्यते ।
ननु पराभ्युपगमप्रमाणम्, अप्रमाणं वा । प्रमाणं चेत् ? नैरात्म्यमेव तर्हि
सिद्धम्, अलमात्मसाधनोपन्यासप्रयासेन ! अथाप्रमाणम् ? परस्याभ्युपगमात्
अप्रमाणत्वात् सपक्षसत्त्वं च न युज्यते ॥ २३७ ॥
तस्माद् असतः सपक्षाद्धेतोर्व्यतिरेकेऽप्युपगम्यमाने प्राणादेः सपक्षाद्
विनिवर्त्तनं सन्दिग्धम्; तस्य सपक्षसन्देहात् । यदि सपक्षाभावोऽसन्दिग्धः,
एवं हेतुव्यावृत्तिभावोऽप्यसन्दिग्धः स्यात् । तत्सन्देहे तस्यापि सन्देहः । सपक्षाद्
व्यावृत्तिसन्देहे विपक्षाद् विनिवर्त्तनं प्राणादेः सन्दिग्धम् ॥ २३८ ॥
कथम् ? इत्याह—एकत्र सपक्षे सत्त्वस्य नियमे सिद्धे सति अन्यतो
विपक्षान्निवर्त्तनं सिध्यति । यो हि पक्ष एव भवति, स नियमाद् विपक्षे न
भवति । यदि तु विपक्षेऽपि स्यात्, सपक्षे सत्तानियमो व्याहन्येत ।
ननु सात्मकत्वानात्मकत्वाभ्यां द्वैराश्यं भावानाम् । तत्र निरात्मकेषु घटादिषु
दृष्टः प्राणादिरर्थात् सात्मकेषु व्यवतिष्ठत इति प्राणादेरतो युक्तं सात्मकत्वानुमा-
नम् ? इत्याह—द्वैराश्ये सति भावानां घटादिषु निरात्मकेषु दृष्टेषु बहुलं