प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 463, कुल 532 में से
संदर्भ में पढ़ेंविचारः ] परार्थानुमानपरिच्छेदः ४३७
नासाध्यादेव विश्लेषस्तस्य नन्वेवमुच्यते ।
साध्येऽनुवृत्त्यभावोऽर्थात् तस्यान्यत्राप्यसौ समः ॥ २१९ ॥
असाध्यादेव विच्छेद इति साध्येऽस्तितोच्यते ।
अर्थापत्त्याऽत एवोक्तमेकेनोभयदर्शनम् ॥ २२० ॥
ईदृग्व्यभिचारोऽतोऽन्वयिषु न सिध्यति ।
प्रतिषेधनिषेधश्च विधानात् कीदृशोऽपरः ॥ २२१ ॥
इतर आह—तस्य श्रावणत्वस्यासाध्याद् विपक्षादेव न विश्लेषो व्यावृत्तिः;
किन्तु सपक्षादपि । प्राणादेस्तु सर्वस्य जीवच्छरीरस्य सात्मत्वेन साध्यत्वात्
सपक्ष एव नास्तीति कथं ततो व्यावृत्तिरिति ?
अत्राह—नन्वेवमसाध्यादेव श्रावणत्वस्य न विश्लेष इत्याख्याने
साध्ये साध्यवति सपक्षेऽनुवृत्तेरन्वयस्याभावोऽर्थादुक्तः स्यात् । यो हि
विपक्षमात्राद्व्यावृत्तः, स सपक्षादपि व्यावृत्तेरन्वयरहित उक्तो भवति । तथा च
प्राणादेरसौ सपक्षानुवृत्त्यभावः समः । न हि प्राणादिसपक्षे क्वचित् सिद्धम्;
सर्वस्य जीवच्छरीरस्य पक्षत्वात् ॥ २१९ ॥
असाध्याद् विपक्षादेव साधनस्य विच्छेदो व्यावृत्तिरित्यभिधानेना-
र्थापत्त्यासामर्थ्येन साध्ये सपक्षेऽस्तितोच्यते । यदि तु सपक्षादपि व्यावृत्तिः,
तदा विपक्षादेव व्यावृत्तिरित्यसङ्गतम्; यतो विपक्षादेव व्यावृत्तिरिति आक्षिप्ता-
न्वय एव भवति । अत एवाचार्येण एकेन व्यतिरेकेणान्वयेन वा नियमवता
दृष्टेनोभयदर्शनमुक्तम्; अर्थापत्त्याऽन्यतरेणोभयदर्शनादिति ॥ २२० ॥
यस्मादैकान्तिको व्यतिरेक आक्षिप्तान्वय एव भवति, अतः ईदृग् विपक्षे
व्यतिरेकोऽव्यभिचारः अनन्वयिषु हेतुषु न सिध्यति । य एव साध्येना-
न्वितो हेतुः, तस्यैव विपक्षादेव व्यतिरेकः । यदि तु सत्यपि साध्ये हेत्वभावः,
तदा सपक्षादपि व्यतिरेकात् कथं विपक्षादेव निवृत्तिः !
किञ्च—प्राणादेः सपक्षे प्रतिषेधस्य निवृत्तेर्निषेधो विधानादपरः
कीदृशः । प्रतिषेधनिषेधो हि विधिरेव; परस्परपरिहारेणावस्थितेः । ततः प्राणादेः
सपक्षाच्चिन्निवृत्तिर्नास्तीत्यर्थाद् वृत्तिरेवोक्ता स्यादिति न व्यतिरेकित्वम् ॥ २२१ ॥