सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

२१० प्रमाणवार्त्तिके
नीलाद्याभासभेदित्वान्नार्थो जातिरतद्वती ।
सा चानित्या१ न जातिः स्यान्नित्या वा जनिका कथम् ॥ ३७२॥
नामादिकं निषिद्धं प्राङ् नायमर्थवतां क्रमः ।
इच्छामात्रानुरोधित्वार्दथशक्तिर्न सिध्यति ॥ ३७३ ॥
स्मृतिविचारः
स्मृतिश्चेदृग्विधं ज्ञानं तस्याश्चानुभवाद् भवः ।
स चार्थकाररहितः सेदानीं तद्वती कथम् ! ॥ ३७४ ॥
तद् वेद्यते; वेद्यवेदकभावस्य निषिद्धत्वात् । अतः स्ववेदनमेव तत् ॥ ३७१ ॥
स्यादेतद् । अतीता व्यक्तिरसत्त्वान्न विकल्पविषयः, जातिस्तु सत्त्वात्
स्याद् ? इत्याह—अतीतविकल्पस्य नीलाद्याभासभेदित्वात् वर्णसंस्थानाद्या-
कारविशेषवत्त्वात् न जातिरतद्वती वर्णाद्याकाररहितार्थविषयः ।
किञ्च—जातिर्विषयीभवन्ती अनित्या वा भवेत्, नित्या वा । सा
चानित्या जातिर्न स्यात्; नित्यलक्षणत्वात् तस्याः । नित्या वा बुद्धेर्जनिका
कथं स्यात्; नित्यस्य क्रमयौगपद्याभ्यां विरहात् ॥ ३७२ ॥
नामनिमित्ते विप्रयुक्तः संस्कारो विषयश्चेद् ? इत्याह—नामादिकं
विषयत्वेन निषिद्धं प्राक् “नामादिवचने वक्तृश्रोतृवाच्यानुबन्धिनि” (प्र० वा०
२. ११) इत्यादिना । किञ्च—अर्थवतां सविषयाणां चक्षुर्विज्ञानादीनामयं
क्रमोऽर्थसामर्थ्येन विनोत्पाद इति नास्ति । मनोविज्ञानानां त्वर्थसन्निधानान-
पेक्षाणामिच्छामात्रानुरोधित्वात् जनिकार्थशक्तिर्न सिध्यति । न चाहेतुरर्थो
ग्राह्यः, अतिप्रसङ्गात् ॥ ३७३ ॥
भवत्वतीतार्थालम्बनं विज्ञानं विषयाकारम्, अनुभवस्तु मा भूद् ? इत्याह—
ईदृग्विधमतीतविकल्पनात्मकं ज्ञानं च स्मृतिः । तस्याश्चानुभवाद् भव
उत्पादः । न हि अनुभवमन्तरेण स्मृतिः । स चानुभवो भवन्मतेऽर्थाकार-
रहितः । इदानीमस्मिन्नभ्युपगमे सा स्मृतिस्तद्वत्यर्थाकारवती कथमस्तु । यद्यनु-
भवारूढो नार्थकारः कथमसौ विदितः, अविदितस्य का स्मृतिः ! ॥ ३७४ ॥
१. वा नित्या—रा० ।

प्रत्यक्षपरिच्छेदः २११
नार्थाद् भावस्तदाभावात् स्यात्तथानुभवेऽपि सः ।
आकारः स च नार्थस्य स्पष्टाकारविवेकतः ॥ ३७५ ॥
व्यतिरिक्तं तदाकारं प्रतीयादपरस्तदा१ ।
नित्यमात्मनि सम्बन्धे प्रतीयात् कथितं च न ॥ ३७६ ॥
एकैकेनाभिसम्बन्धे प्रतिसन्धिर्न युज्यते ।
एकार्थाभिनिवेशात्मा प्रवक्तृश्रोतृचेतसोः ॥ ३७७ ॥
तदेकव्यवहारश्चेत् सादृश्यादतदाभयोः ।
भिन्नात्मार्थः कथं ग्राह्यस्तदा स्याद्धीरनर्थिका ॥ ३७८ ॥
अर्थात् स्मृतिरुत्पद्यत इति चेत् ? आह—नार्थाद् भावः, तस्यास्तदा
स्मृतिकालेऽभावादतीताथस्य । यथा चार्थदुत्पद्यमानायाः स्मृतेरर्थाकारो भवति,
तथानुभवेऽप्यर्थादुत्पद्यमाने सोऽर्थाकारः स्यात् ।
अपि च—स्मृत्यारूढः सोऽस्पष्टाकारो नार्थस्यानुभवारूढात् स्पष्टा-
दर्थाकाराद् विवेकतो भेदात् ॥ ३७५ ॥
यदि च बुद्धिव्यतिरिक्तोऽर्थ एव मनोविज्ञानग्राह्यः, तदा बुद्धेर्व्यति-
रिक्तमेकेन विकल्प्यमानं तदाकारमपरोऽपि योग्यदेशस्थः पुमान् प्रतीयात् ।
परोपलभ्यतां निषेद्धुं नित्यमात्मन्यस्य विकल्प्यस्यार्थस्य सम्बन्धे वा स्वी-
क्रियमाणे यदा स्वयमनुचिन्तयितुं परस्मै कथ्यते, तदा कथञ्चित् परो न
प्रतीयात्, प्रत्येति च कथितम् ॥ ३७६ ॥
प्रतीत्यर्थमेकेनैकेन वक्त्रा श्रोत्रा च भिन्नस्य भिन्नस्य अर्थस्याभि-
सम्बन्धेऽत्रापि स्वीक्रियमाणे प्रवक्तृश्रोतृचेतसोः प्रतिसन्धिरेकार्थाभिनिवे-
शात् ‘यदेवानेन कथितं तदेव मया प्रतीतम्’, ‘यदेव मया कथितं तदेवानेन
ज्ञातम्’ इत्यभिन्नार्थाध्यवसायरूपो न युज्यते ॥ ३७७ ॥
वक्तृश्रोतृसम्बन्धिनोस्तयोरर्थयोरेकव्यवहार एकत्वावसायः सादृश्या-
च्चेत् ? तदुभयदर्शने सादृश्यम्, न चात्र दर्शनम्। भवतु वा, तथापि अतदाभयो-
र्भिन्नात्मसम्बन्धार्थप्रतिभासिनोर्वक्तृश्रोतृचेतसोर्भिन्नात्माऽर्थः कथं ग्राह्यः ।
१. ०स्तथा—रा० ।

२१२ प्रमाणवार्त्तिके
तच्चानुभवविज्ञानेनोभयांशावलम्बिना ।
एकाकारविशेषेण तज्ज्ञानेनानुबध्यते ॥ ३७९ ॥
अन्यथा ह्यतथारूपं¹ कथं ज्ञानेऽधिरोहति ।
एकाकारोत्तरं ज्ञानं तथा ह्युत्तरमुत्तरम् ॥ ३८० ॥
तस्यार्थरूपेणाकारावात्माकारश्च² कश्चन ।
द्वितीयस्य तृतीयेन ज्ञानेन हि विविच्यते ॥ ३८१ ॥
अर्थकार्यतया ज्ञानस्मृतावर्थस्मृतेर्यदि ।
भ्रान्त्या सङ्कलनम्;
यदा चार्थभेदो नास्ति, तदाऽभिन्नार्थाध्यवसायिनी धीर्वक्तृश्रोत्रोरनर्थिका
स्यात् ; यथार्थं बुद्धेरभावात्, यथाबुद्धि चार्थाभावात् ॥ ३७८ ॥
भवतु तावदेवं स्मृतिः, विषयाकारानुभवज्ञानं त्वनाकृति स्याद् ?
इत्याह—तच्चानुभवविषयेण स्मरणेनानुबध्यते ऽनुगम्यते, स्मर्यते इति
यावत् । कीदृशेन ? उभयांशावलम्बिना ज्ञेयप्राचीनज्ञानगतविषयाकारानुभवरूप-
धर्मद्वयविषयेण । कथमन्बध्यते ? इत्याह—एकस्मादविवादसिद्धादनुभवाकाराद्
विशेषो विषयाकारस्तेन स्मरणज्ञानेन हि विज्ञानमर्थाकारानुभवाकारविशिष्टमेव
स्मर्यते, ततस्तादृशमेव तत् ॥ ३७९ ॥
अन्यथाऽतथारूपमाकारद्वयरहितमनुभवज्ञानं स्वग्राहिणि स्मरणज्ञाने कथं
द्वयाकारमधिरोहति ! अधिरूढं च ततो द्वयाकारं तत् । तथा ज्ञानमुत्तरमुत्तरं
बुद्धिपूर्वज्ञानालम्बनमेकाकारोत्तरमेकेनैकेनाकारेणाधिकं प्रतीयते । अर्थज्ञानेन
तदालम्बक एकोऽर्थकारः प्रतीयते, तदालम्बनेन तु विषयभूतज्ञानाकारस्तदा-
लम्बकश्च स्वाकारः ॥ ३८० ॥
यस्मात् तस्य द्वितीयस्य ज्ञानस्य तौ द्वावाकारावर्थरूपेण विषयभावेन
तदालम्बक आत्माकारश्च कश्चन तृतीयेन द्वितीयज्ञानालम्बकेन हि यस्माद्
विविच्यते अवधार्यते, तस्मादर्थाकारं स्ववेदनं च ज्ञानमभ्युपगन्तव्यम् ॥३८१॥
अथ निराकारमेव ज्ञानमर्थस्य कार्यमनुभवरूपमर्थकार्यतया ज्ञानस्मृतौ
१. ह्यतथाकारं—पाठा० । २. ०णाकारो वान्याकारश्च—पाठा० ।

प्रत्यक्षपरिच्छेदः २१३
ज्योतिर्मनस्कारे च सा भवेत् ॥ ३८२ ॥
सर्वेषामपि कार्याणां कारणैः स्यात् तथा ग्रहः ।
कुलालादिविवेकेन न स्मर्येत घटस्ततः ॥ ३८३ ॥
यस्मादतिशयाज् ज्ञानमर्थसंसर्गभाजनम् ।
सारूप्यात्तत् किमन्यत् स्याद् दृष्टेश्च यमलादिषु ॥ ३८४ ॥
आद्यानुभयरूपत्वे ह्येकरूपे¹ व्यवस्थितम् ।
द्वितीयं व्यतिरिच्येत न परामर्शचेतसा ॥ ३८५ ॥
विशेषणत्वेनार्थस्य स्मृतेः स्मर्यमाणस्यार्थस्य भ्रान्त्या ज्ञानात्मनि सङ्कलनं
सम्बन्धनं यदि स्यात्, तदा को दोषः ?
आह—अर्थवज्ज्योतिष आलोकस्य मनस्कारस्य च ज्ञानहेतुत्वात्
तत्कार्यज्ञाने स्मर्यमाणे सा स्मृतिर्ज्योतिर्मनस्कारे आलोकसमनन्तरप्रत्यययोरपि
स्यात् । तत्र भ्रान्त्या अर्थाकारमिवालोकमनस्काराकारमपि सङ्कलनीयम्, न
त्वर्थाकारमेव नियमेन सङ्कलयितुं युक्तम् ॥ ३८२ ॥
यदि चार्थकार्यं भ्रान्त्या स्मर्यते, तदा सर्वेषामपि कार्याणां कारणैः सह
तथा ग्रहः कारणात्मत्वेन ग्रहणं स्यात् । ततश्च घटकुलालादिकार्यं कुलाला-
देर्विवेकेन भेदेन न स्मर्येत ॥ ३८३ ॥
अथास्त्येव कश्चिदालोकादिभ्यो विषयस्य ज्ञानात्मन्यारोपणीयो विशेषः, तत-
स्तदाकारावग्रहेण स्मर्यते, नान्यथा ? इत्याह—यस्मादर्थारोपितादतिशयात्
ज्ञानमर्थसंसर्गस्यार्थसंश्लेषस्य भाजनं पात्रं भवति । अर्थेन सारूप्यादन्यत् किं
तत् स्यात् ; सारूप्यादन्यस्यातिशयस्योपलक्षणत्वायोगात् । यमलादिषु सारू-
प्याद् भ्रान्त्या तथार्थनिश्चयस्य दृष्टेश्च ॥ ३८४ ॥
किञ्च—आद्यस्यार्थज्ञानस्यानुभयरूपत्वेऽर्थाकाररहितत्वात् अनुभवैक-
रूपत्वे तदालम्बकं द्वितीयं ज्ञानमेकस्मिन् रूपेऽनुभवात्मनि व्यवस्थितं परा-
मर्शचेतसा ज्ञानज्ञानालम्बकेन तृतीयज्ञानेन न व्यतिरिच्येत न विषय-
ज्ञानग्राहकतया भेदेन गृह्येत; स्वाभासमात्रत्वेन सर्वस्याविशेषात् ॥ ३८५ ॥
१. ह्येकरूपं—रा० ।

२१४ प्रमाणवार्त्तिके
अर्थसंकलनाश्लेषां१ धीर्द्वितीयावलम्बते ।
नीलादिरूपेण धियं भासमानां पुरस्ततः ॥ ३८६ ॥
अन्यथा ह्याद्यमेवैकं संयोज्येतार्थसम्भवात् ।
ज्ञानं नादृष्टसम्बन्धं पूर्वार्थेनोत्तरोत्तरम् ॥ ३८७ ॥
सकृत् संवेद्यमानस्य नियमेन धिया सह ।
विषयस्य ततोऽन्यत्वं केनाकारेण सिध्यति ॥ ३८८ ॥
भेदश्च भ्रान्तविज्ञानैर्दृश्येतेन्दाविवाद्वये ।
संवित्तिनियमो नास्ति भिन्नयोर्नीलपीतयोः ॥ ३८९ ॥
यतो बुद्धेरनाकारत्वे दोषोऽयम्; ततः पुरोऽर्थस्य धियं नीलादिरूपेण
भासमानां द्वितीया धीरर्थसंकलनस्यार्थाकारावग्रहस्याश्लेषः संसर्गो यस्याः
सा तामवलम्बते ॥ ३८६ ॥
अन्यथा यद्यनाकारं ज्ञानमर्थकार्यतया भ्रान्त्याऽर्थाकारं स्मर्यत इत्याश्रीयते,
तदाद्यमेवैकंमर्थज्ञानं स्मृत्याऽर्थेन संयोज्येत; अर्थात् सम्भवात् तस्य । न
उत्तरोत्तरं ज्ञानं पूर्वस्य ज्ञानस्यार्थेनाकारणभूतेनादृष्टसम्बन्धं संयोज्येत ।
तस्मात् स्थितमेतत्—ज्ञानानां विषयसारूप्यानुभवरूपत्वाभ्यां द्व्याकारत्वम्,
ततश्च सहोपलम्भनियमोऽर्थविज्ञानयोः, अर्थाकारतया अर्थोपलम्भात्, अनुभव-
रूपतायाः स्ववेदनत्वात् ॥ ३८७ ॥
तथा च—धिया सह नियमेन सकृत्संवेद्यमानस्य विषयस्य ततो
धियोऽन्यत्वं भेदः केनाकारेण प्रकारेण सिध्यति; भिन्नयोः सहोपलम्भनियमा-
योगात् ! ॥ ३८८ ॥
यदि विषयज्ञानयोरभेदः, तदा ग्राह्यग्राहकतया भेदः कथं प्रतिभाति ?
इत्याह—भेदश्च वासनावशात् भ्रान्तमुपप्लुताकारं ज्ञानं येषां तैरर्वाग्दर्शिभि-
र्दृश्यते इन्दाविवाद्वये एकरूपे द्वैतं तिमिरोपहतबुद्धिभिः ।
भेदेऽपि कस्मान्न सहोपलम्भनियमः ? इत्याह—भिन्नयोर्नीलपीतयोः
संवित्तिनियमो नास्ति । ततो यत्रास्ति तत्राभेद एव ॥ ३८९ ॥
१. अर्थसंकलनाश्लेषा—रा० ।

प्रत्यक्षपरिच्छेदः २१५
नार्थोऽसंवेदनः कश्चिदनर्थं वापि वेदनम् ।
दृष्टं संवेद्यमानं तत् तयोर्नास्ति विवेकिता ॥ ३९० ॥
तस्मादर्थस्य दुर्वारं ज्ञानकालावभासिनः ।
ज्ञानादव्यतिरेकित्वम्;
हेतुभेदानुमा भवेत् ॥ ३९१ ॥
अभावादक्षबुद्धीनां सत्स्वप्यन्येषु हेतुषु ।
नियमं यदि न ब्रूयाद् प्रत्ययात् समनन्तरात् ॥ ३९२ ॥
बीजादंकुरजन्माग्नेर्धूमात् सिद्धिरितीदृशी ।
बाह्यार्थाश्रयिणी यापि कारकज्ञापकस्थितिः ॥ ३९३ ॥
सापि तद्रूपनिर्भासा तथा नियतसङ्गमाः ।
तथा हि—नार्थोऽनुभवमन्तरेण कश्चिद् दृष्टः, वेदनं चार्थकारं विना न
दृष्टं संवेद्यमानम्; तत् तस्मात्तयोरर्थतदुपलम्भयोर्नास्ति विवेकिता ॥३९०॥
तस्मात्, ज्ञानकालावभासिनोऽर्थस्य, अर्थज्ञानयोरपि सहसंवित्ति-
ज्ञानादव्यतिरेकित्वमभिन्नत्वं दुर्वारमित्युपसंहारः ।
स्यादेतत् । सत्स्वप्यन्येष्विन्द्रियादिषु हेतुष्वक्षबुद्धीनामभावाद् हेतु-
भेदस्य तदतिरिक्तस्य कारणविशेषस्यानुमा भवेत्; कारणसाकल्ये सति
तन्मात्रसाध्यस्य कार्यस्यानुत्पादायोगात् । यश्चासौ कारणभेदः स बाह्योऽर्थो
भविष्यतीति मन्यते परः, एवमप्यनुमानगम्यो बहिरर्थो भवेन्न प्रत्यक्षो यथेष्यते,
किन्तु व्यतिरेकसामर्थ्यादपि तदार्थः सिध्येत; यदि योगाचारो नानार्थ-
प्रतिभासिनीनां धियामुत्पादक्रमस्य नियमं यथाप्रत्ययं प्रबुद्धवासनागर्भात् सम-
नन्तरप्रत्ययान्न ब्रूयात् ॥ ३९१–३९२ ॥
ननु बाह्यार्थाभावे बीजादङ्कुरस्य जन्मेतीदृशी एवञ्जातीया यापि प्रतीति-
सिद्धा कारकस्थितिः । धूमात् कार्यात् कारणस्याग्नेः सिद्धिरितीदृशी यापि ज्ञापक-
हेतुस्थितिः तदुच्छेदः स्यात्; हेतुफलभावाश्रयस्य बाह्यस्यैवाभावात् ? ॥ ३९३ ॥
अत्राह—सा कारकज्ञापकस्थितिरपि तद्रूपनिर्भासा बीजाङ्कुरधूमाग्नि-

बुद्धीराश्रित्य कल्प्येत यदि किं वा विरुध्यते ॥ ३९४ ॥
अनग्निजन्यो धूमः स्यात् तत्कार्यात् कारणेऽगतिः ।
न स्यात् कारणतायां वा कुत एकान्ततो गतिः ॥ ३९५ ॥
तत्रापि धूमाभासा धीः प्रबोधपटुवासनाम् ।
गमयेदग्निर्निभासां धियमेव न पावकम् ॥ ३९६ ॥
तद्योग्यवासनागर्भ एव धूमावभासिनीम् ।
व्यनक्ति चित्तसन्तानो धियं धूमोऽग्नितस्ततः ॥ ३९७ ॥
प्रतिभासवासनाप्रतिनियमात् । तथा क्रमविशेषेण नियतः सङ्क्रम उत्पादो यासां
ताः बुद्धीराश्रित्य यदि कल्प्येत तदा किं वा विरुध्यते, न किञ्चित् । हि
बीजप्रतिभासं ज्ञानं स्वहेतोः प्रबुद्धाङ्कुरज्ञानवासनापाटवमङ्कुरज्ञानं जनयति, एवं
धूमज्ञानमग्निज्ञानमुत्पादयति । तावतैव च ज्ञापकव्यवस्थाया अविरोधः ॥ ३९४ ॥
नन्वस्ति विरोधः । तथा हि—धूमज्ञानादग्निज्ञानोत्पादेऽनग्निजन्यो
धूमः स्यात् । अग्निप्रतिभासस्य प्रागविद्यमानत्वात् विपर्ययः स्यात् । तत्
तस्मात् कार्यात् कारणे गतिर्न स्यात् । अग्निज्ञानं प्रति धूमज्ञानस्य कारण-
तायां वा कारणात् कार्य एकान्ततोऽसन्दिग्धा कुतो गतिरिति ? ॥ ३९५ ॥
अत्राह—तत्र धूमादग्न्यनुमानेऽपि धूमाभासा धीरग्निवासनाप्रतिबद्धा
एकसामग्र्यधीनतयाऽग्निर्निभासां धियमेव धूमज्ञानादेव प्रबोधेन पटुजननौ-
न्मुखा वासना शक्तिर्यस्यास्तां गमयेत्, न पावकं बाह्यरूपम्; सर्वदाऽ-
दर्शनात् ॥ ३९६ ॥
अग्निवासनाधूमज्ञानयोर्हेतुफलतामाख्यातुमाह—तस्याग्निप्रतिभासस्य योग्या
जननसमर्था वासनागर्भे स्वभावभूता यस्य चित्तसन्तानस्य स चित्तसन्तानो
धूमावभासिनीं धियं व्यनक्ति उत्पादयति । ततोऽग्नित एव धूमो
भवतीति न कार्यकारणताविपर्ययः । न च कारणात् कार्यानुमानम्; अग्निवासनाप्र-
भवत्वात् धूमाग्निज्ञानयोः । धूमज्ञानात् प्रबुद्धाग्निवासनाद्वारेणाग्निज्ञानानुमितिरेक-
सामग्र्यधीना ॥ ३९७ ॥

प्रत्यक्षपरिच्छेदः २१७
ज्ञानस्य द्वैरूप्यसाधनम्
अस्त्येष विदुषां वादो बाह्यं त्वाश्रित्य वर्ण्यते ।
द्वैरूप्यं सहसंवित्तिनियमात् तच्च सिध्यति ॥ ३९८ ॥
ज्ञानमिन्द्रियभेदेन पटुमन्दाविलादिकाम् ।
प्रतिभासभिदामर्थे बिभ्रदेकत्र दृश्यते ॥ ३९९ ॥
अर्थस्याभिन्नरूपत्वादेकरूपं भवेन्मनः ।
सर्वं तदर्थमर्थाच्चेत् तस्य नास्ति तदाभता ॥ ४०० ॥
अर्थाश्रयेणोद्भवतस्तद्रूपमनुकुर्वतः ।
तस्य केनचिदंशेन परतोऽपि भिदा भवेत् ॥ ४०१ ॥
एवं तर्हि विज्ञाननय एव सर्वव्यवस्थानमविरोधात्, कथमाचार्येण बहि-
र्थापेक्षया ज्ञानद्विरूपतोक्ता ? इत्याह—अस्त्येष सर्वव्यवस्थासु विज्ञप्तिमात्रताप्रति-
पादको विदुषां न्यायदर्शिनां योगाचाराणां वादः । सौत्रान्तिकैरिष्टं
बाह्यमर्थमाश्रित्य ज्ञानस्य द्वैरूप्यमाचार्येण वर्ण्यते । तच्च द्वैरूप्यं सहसंवे-
दननियमात् सहोपलम्भनियमात् सिध्यति; भेदेऽपि सति तदभावात् ॥३९८॥
द्वैरूप्यसिद्धावुपपत्त्यन्तरं वक्तुमाह— इन्द्रियस्य भेदेन प्रसादोपघातादिना
विशेषेण पुरुषार्थे ज्ञानं पटुमन्दाविलादिकां प्रतिभासभिदां बिभ्रत् दधत्
दृश्यते ॥ ३९९ ॥
तस्य ज्ञानस्यार्थाच्चेन्नास्ति तदाभताऽर्थकारता, तदर्थस्याभिन्नरूप-
त्वात् । तदर्थं तद्विषयं सर्वं मनोवेदनमेकरूपं भवेत्, न पटुमन्दा-
विलतादिभिन्नम्; ज्ञानस्य स्वगताकारभेदानभ्युपगमात्, अर्थस्यैकरूपत्वात्
प्रतिभासभेदविरोधात् । अस्ति चायम् । तस्मादर्थरूपता, अनुभवरूपता चेति
द्वैरूप्यसिद्धिः ॥ ४०० ॥
नन्वर्थरूपतायामप्यर्थस्यैकरूपत्वात् तद्रूपं ज्ञानमेकाकारं स्यात्, न
प्रसन्नाविलादिरूपम् ? इत्याह— अर्थस्य सरूपस्याश्रयेणोद्भवतस्तस्य ज्ञानस्य
तद्रूपमर्थाकारमनुकुर्वतः केनचिदंशेनाकारेण पटुमन्दत्वादिना परतो वासना-
देराप कारणाद् भिदा भवेत् ॥ ४०१ ॥

२१८ प्रमाणवार्त्तिके
तथा ह्याश्रित्य पितरं तद्रूपोऽपि¹ सुतः पितुः ।
भेदं केनचिदंशेन कुतश्चिदवलम्बते ॥ ४०२ ॥
मयूरचन्द्रकाकारं नीललोहितभास्वरम् ।
सम्पश्यन्ति प्रदीपादेर्मण्डलं मन्दचक्षुषः ॥ ४०३ ॥
तस्य तद्बाह्यरूपत्वे का प्रसन्नेक्षणेऽक्षमा ।
भूतं पश्यँश्च तद्दर्शी कथं चोपहतेन्द्रियः ॥ ४०४ ॥
शोधितं तिमिरेणास्य व्यक्तं चक्षुरतीन्द्रियम् ।
पश्यतोऽन्याक्षदृश्येऽर्थे तदव्यक्तं कथं पुनः ॥ ४०५ ॥
आलोकाक्षममनस्कारादन्यस्यैकस्य गम्यते ।
तथा हि पितरमाश्रित्य तद्रूपः पित्राकारोऽपि सुत उत्पन्नः केनचिदं-
शेनाकारेण कुतश्चित् कर्मादेर्हेतोः पितुः सकाशात् भेदमन्यादृशत्वमवलम्बते;
पितापुत्रयोः सर्वथा साम्याभावात् ॥ ४०२ ॥
द्वैरूप्यसिद्धावुपपत्त्यन्तरमाह-मयूरचन्द्रकाकारमन्तरान्तरा नीललोहित-
भास्वरं दीप्तं प्रदीपादेर्मण्डलमविद्यमानमेव मन्दचक्षुषः सम्पश्यन्ति;
दीपस्य तादृशस्वरूपाभावात् । ज्ञानस्यानुभवात्मनः स आकार इति द्वैरूप्य-
सिद्धिः ॥ ४०३ ॥
अथ तादृशं वस्त्वेवोत्पन्नं दृश्यत इति न ज्ञानाकारः ? इत्याह-तस्य
मण्डलस्य तद्बाह्यरूपत्वेऽभ्युपगम्यमाने प्रसन्नेक्षणे द्रष्टरि काऽक्षमा द्वेषः,
येनास्मै नात्मानमुपदर्शयेत् । यद्वस्तूपहतेन्द्रियेण दृश्यते, तदनुपहतेन्द्रियेण
सुतरां दृश्यते । भूतं सत्यं च पश्यन् तद्दर्शी मण्डलदर्शी कथमुपहतेन्द्रियैः
अपरैरदृश्यं मण्डलं पश्यतोऽस्य मन्दचक्षुष्ट्वेन नष्टस्य तिमिरेण व्यक्तं
चक्षुः शोधितमित्युपहसति । किन्तु तैमिरिकस्यातीन्द्रियार्थदर्शनक्षमं तच्चक्षु-
रन्यस्यातैमिरिकस्य अक्षदृश्येऽर्थे प्रदीपे कथं पुनरव्यक्तमस्फुटं यदतीन्द्रियं
पश्यति तत् सर्वं दृश्यं सुतरां पश्यति ॥ ४०४-४०५ ॥
किञ्च-आलोकाक्षममनस्कारादन्यस्य दीपस्य एकस्य मण्डलज्ञानजनने
१. तद्रूपो हि—रा० ।

शक्तिर्हेतुस्ततो नान्योऽहेतुश्च विषयः कथम् ! ॥ ४०६ ॥
स एव यदि धीहेतुः किं प्रदीपमपेक्षते ।
दीपमात्रेण धीभावादुभयं नापि कारणम् ॥ ४०७ ॥
दूरासन्नादिभेदेन व्यक्ताव्यक्तं न युज्यते ।
तत् स्यादालोकभेदाच्चेत् तत्पिधानापिधानयोः ॥ ४०८ ॥
तुल्या दृष्टिरदृष्टिर्वा सूक्ष्मोऽशस्तस्य कश्चन ।
आलोकेन च मन्देन दृश्यतेऽतो भिदा यदि ॥ ४०९ ॥
एकत्वेऽर्थस्य बाह्यस्य दृश्यादृश्यभिदा कुतः ।
शक्तिर्गम्यते; तन्मात्रभावेन भावात् । ततो दीपादन्यो मण्डलो न हेतुः,
अहेतुश्चासौ मण्डलज्ञानस्य कथं विषयः; अतिप्रसङ्गात् ॥ ४०६ ॥
स मण्डल एव मण्डलग्राहिण्या धियो हेतुर्न दीपो यदीष्यते, तदा
मण्डलं किं कस्मात् प्रदीपमपेक्षते । न ह्येतोरपेक्षा; अतिप्रसङ्गात् ।
दीपो मण्डलं च मण्डलबुद्धिहेतुः ? इत्याह—उभयं न कारणम् ; दीप-
मात्रेण मण्डलधियो भावात् ॥ ४०७ ॥
यदि चार्थ एव साकारो ग्राह्यः, ज्ञानं त्वनाकारम्, तदर्थस्य दूरासन्नादिता
भेदेन विशेषेण व्यक्ताव्यक्तं न युज्यते; एकात्मनः पदार्थस्य स्वरूपेण
दृश्यमानत्वात् दूरासन्नस्थाभ्यां समानः प्रतीयेत; ज्ञानस्वगताकारभेदानभ्यु-
पगमात् । व्यवधानाव्यवधानयोरालोकस्य मान्द्यामान्द्यभेदात् तद् व्यक्ताव्यक्तं
वस्तु स्यादिति चेत् ? दूरस्थितौ तस्यालोकस्य पिधानमपिधानं चाभ्युप-
गन्तव्यं तयोस्तुल्ययोः ॥ ४०८ ॥
सर्वस्य प्रतिपत्तुर्दृष्टिरदृष्टिर्वा तुल्यार्थस्य स्यात् ; दूरस्थस्य रजोनीहा-
रादिभिरुपहतत्वात् मन्देनालोकेन तस्य दृश्यर्थस्य सूक्ष्मोऽशोऽवयवः कश्चन
न दृश्यते । अतः संनिकृष्टाद् व्यक्तं दृश्यमानादर्थाद्व्यक्तत्वेन भिदा यद्युच्यते,
तदापि द्वयी कल्पना ॥ ४०९ ॥
योऽसौ स्थवीयान् दृश्यते स एकः, अनेको वा ? तत्रैकत्वेऽर्थस्य बाह्य-

३२० प्रमाणवार्त्तिके
अनेकत्वेऽणुशो भिन्ने दृश्यादृश्यभिदा कुतः ! ॥ ४१० ॥
मान्द्यपाटवभेदेन भासो बुद्धिभिदा यदि ।
भिन्नेऽन्यस्मिन्नभिन्नस्य कुतो भेदेन भासनम् ॥ ४११ ॥
मन्दं तदपि तेजः किमावृत्तेरिह सा न किम् ।
तनुत्वं तेजसोऽप्येतदस्त्यन्यत्राप्यतानवम् ॥ ४१२ ॥
अत्यासन्ने च सुव्यक्तं तेजस्तत् स्यादतिस्फुटम् ।
तत्राप्यदृष्टमाश्रित्य भवेद् रूपान्तरं यदि ? ॥ ४१३ ॥
स्याभ्युपगम्यमाने दृश्यादृश्यभिदा कुतः शङ्किता ! एवं दृश्यमदृश्यमेव वा
स्यादेकान्तेन। अनेकत्वे दृश्यस्यार्थस्याभ्युपगम्यमानेऽणुशो भिन्नेऽस्मिन् दृश्या-
दृश्यभिदा कुतः ! न ह्यणुष्वपि स्थूलसूक्ष्मभेदः, येन किञ्चिदुपलभ्येत किञ्चि-
न्नेति विभागः ॥ ४१० ॥
अथैकरूपेऽप्यर्थे भास आलोकस्य मान्द्यपाटवभेदेन स्पष्टास्पष्टतया भेदो
बुद्धेर्यदोच्यते, तदाप्यन्यस्मिन्नालोके पटुमन्दतया भिन्नेऽभिन्नस्यार्थस्य
स्वरूपेण दृश्यमानस्य कुतो भेदेन स्पष्टास्पष्टतया भासनं युक्तम् ॥ ४११ ॥
किञ्च—व्यवहितवस्त्वन्तरालवर्त्ति तेजो मन्दं किं कस्माद्धेतो रजोनीहारा-
दिभिस्तद्देशवर्त्तिभिरावृत्तेरालोको मन्द इति चेत् ? इह सन्निहितवस्त्वन्तराल-
वर्त्तिन्यालोके सा रजोनीहारादिभिरावृत्तिः किं न भवति । तनुत्वादावरकस्य
नीहारादेर्नावृत्तिश्चेत् ? तत् तनुत्वं तेजसोऽपि सन्निहितवस्त्वन्तरालवर्त्तिनोऽ-
स्तीति सन्निहितं च वस्तु न स्फुटं प्रतीयते, तथाऽन्यत्र दूरस्थं वस्तु स्फुटं
प्रतीयेत । दूरस्थे वस्तुन्यावरकालोकयोः समानमतानवम्, समीपस्थे च समं
तानवमिति न स्यात् प्रतीतिभेदः ॥ ४१२ ॥
किञ्च—लोचनस्यात्यासन्ने शलाकादौ सुव्यक्तं तेज आवरकस्य
तनुत्वादिति तदत्यासन्नं शलाकादिकमतिस्फुटं स्यात् । न च मनागव्यवहित-
मिवात्यासन्नं वस्तु स्फुटमीक्ष्यते । तत्र दूरात्यासक्तिभेदेन व्यक्ताव्यक्तदर्शने-
ऽप्यदृष्टं धर्माधर्ममाश्रित्यापेक्ष्य रूपान्तरं व्यक्ताव्यक्तं जायत इति यद्यु-
च्यते ? ॥ ४१३ ॥

प्रत्यक्षपरिच्छेदः २२१
अन्योन्यावरणात् तेषां स्यात् तेजोविहतिस्ततः ।
तत्रैकमेव दृश्येत तस्यानावरणे सकृत् ॥ ४१४ ॥
पश्येत् स्फुटास्फुटं रूपमेकोऽदृष्टेन वारणे ।
अर्थानर्थो न येन स्तस्तददृष्टं करोति किम् ॥ ४१५ ॥
तस्मात् संविद् यथाहेतु जायमानार्थसंश्रयात् ।
प्रतिभासभिदां धत्ते, शेषाः कुमतिदुर्नयाः ॥ ४१६ ॥
ज्ञानशब्दप्रदीपानां प्रत्यक्षस्येतरस्य वा ।
तदा तेषां व्यक्ताव्यक्तानां रूपाणामन्योन्यस्यावरणात् कदाचित् कस्य-
चिदुपलम्भो भवतीति वक्तव्यम् । तत एकोपलम्भकालेऽपरोपलम्भहेतोस्तेजसो
विहतिरावृतिरिति च स्यात् । अन्यथा नावृते तस्मिन्नपरस्याप्युपलब्धिः स्याद्;
अवैकल्यात् सामग्र्याः । तत्रापरोपलम्भहेतोरालोकस्यावरणे सति एकमेव व्यक्त-
मव्यक्तस्वरूपं दूरसन्नादिदेशस्थितैः प्रतिपत्तृभिः सर्वैर्दृश्येत, न त्वेकेन व्यक्तम्
इतरेण चाव्यक्तमिति स्यात् । तस्यादृष्टोत्पन्नरूपस्य परस्परमनावरणे, तेजसश्चा-
नावरणे सकृत् स्फुटास्फुटं रूपं पश्येदेकः प्रतिपत्ता । दृश्यरूपद्वयस्य
दर्शनहेतोश्चालोकस्यानावरणाददृष्टेन द्वितीयस्य रूपस्यावरणे¹ व्यक्तमव्यक्तमेव
वा रूपमेकं दृश्यत इति चेत् ? येन द्वितीयरूपावरणेन कृतेन पुंसोऽर्थानर्थाव-
दृष्टकार्यौ न स्तः सम्भवतः, तदावरणमदृष्टं कर्तुं किं कस्मात् करोति ।
शुभाशुभलक्षणं ह्यदृष्टमर्थानर्थफलम् । यत् पुनरनुभवस्वभावं तद् दृष्टफलमेव
भवति ॥ ४१४-४१५ ॥
यस्मात् सर्वमनन्तरोक्तमसङ्गतम्, तस्मादर्थसंश्रयाज्जायमाना संवित्
बुद्धिर्यथाहेतु वासनाप्रबोधहेत्वनतिक्रमेण प्रतिभासस्याकारस्य व्यक्ताव्यक्तादे-
र्भिदां धत्ते बिभर्तीति न्याय्यम् । तदितरे पुनरालोकभेदोपन्यासाद्याः शेषाः
कुमतिदुर्नयाः परवादिनां कुमतीनां दुर्विमर्शाः ॥ ४१६ ॥
किञ्च—अनाकारेण ज्ञानेनार्थः क्षणिकोऽक्षणिको वा व्यज्येत, तत्र—
क्षणिकानां ज्ञानशब्दप्रदीपादीनां स्वविषयस्य प्रत्यक्षस्याप्रत्यक्षस्य वा
१. रूपस्य । वरणे—रा० ।

२१२ प्रमाणवार्त्तिके
जनकत्वेन पूर्वेषां क्षणिकानां विनाशतः ॥ ४१७ ॥
व्यक्तिः कुतोऽसतां ज्ञानाद्;
अन्यस्यानुपकारिणः ।
व्यक्तौ व्यज्येत सर्वोऽर्थस्तद्धेतोर्नियमो यदि ॥ ४१८ ॥
नैषापि कल्पना ज्ञाने ज्ञानं त्वर्थावभासतः ।
तं व्यनक्तीति कथ्येत तदभावेऽपि तत्कृतम् ॥ ४१९ ॥
नाकारयति चान्योऽर्थोऽनुपकारात् सहोदितः ।
व्यक्तोऽनाकारयन्' ज्ञानं' स्वाकारेण कथं भवेत् ! ॥ ४२० ॥
ज्ञानस्य जनकत्वेन हेतूनां पूर्वेषां ज्ञानकाले विनाशतः, असतां ज्ञानात्
कुतो व्यक्तिः ! यदाऽर्थस्तदा न ज्ञानम्, यदा ज्ञानं तदा नार्थ इति कुतो
व्यङ्ग्यव्यञ्जकभावस्तयोः ।
अथ शब्दादयो ज्ञानेन सह द्वितीयं स्वोपादेयक्षणं जनयन्ति, स एव तेन
ज्ञानेन व्यज्यते, नेतरद् ? इत्याह—स्वकारणादन्यस्य सहोत्पन्नस्यानुपकारिणो
व्यक्तिविवक्षायां सर्वोऽर्थः समानकालेन ज्ञानेन व्यज्यतामनुपकारकत्वा-
विशेषात् । तस्मात् सहोत्पादकात् हेतोरनुपकारकत्वविशेषेष्वपि सहोत्पन्न एवार्थो
ज्ञानेन व्यज्यत इति नियमो यदि कल्प्यते ? ॥ ४१७-४१८ ॥
तदैषापि कल्पना न युक्ता; ज्ञाने व्यञ्जकत्वस्य सहोत्पन्नेन्द्रियादि-
व्यञ्जकत्वप्रसङ्गात् । अस्माकं मते तु साकारं तेनार्थेन कृतं ज्ञानमिति ज्ञानस्य
काले तस्यार्थस्याभावेऽप्यर्थावभासतोऽर्थाकारात् संवेद्यमानात् तमर्थं व्यन-
क्तीति कथ्येत; अन्यस्यार्थव्यक्तिप्रकारस्यायोगात् ॥ ४१९ ॥
सहोत्पन्नस्यापि तर्हि स्वाकारज्ञानेन व्यक्तिः स्याद् ? इत्याह—कारणा-
दन्यस्यान्यश्चार्थः सहोत्पन्नो ज्ञानेन नाकारयति स्वाकारेण विशेषयति
अनुपकारात् । न ह्यनुपकारकाकारेण विशिष्यते; अतिप्रसङ्गात् । यश्चार्थो ज्ञानं
नाकारयति, स कथं व्यक्तो भवेत् ! ॥ ४२० ॥
१-१. नाकारयञ्ज्ञानं—रा० ।

प्रत्यक्षपरिच्छेदः २२३
अक्षणिकव्यक्तेरसम्भवत्वम्
वज्रोपलादिरप्यर्थः स्थिरः सोऽन्यानपेक्षणात् ।
सकृत् सर्वस्य जनयेज्ज्ञानानि जगतः समम्¹ ॥ ४२१ ॥
क्रमाद् भवन्ति तान्यस्य सहकार्युपकार्यतः ।
आहुः प्रतिक्षणं भेदं स दोषोऽत्रापि पूर्ववत् ॥ ४२२ ॥
स्वसंवेदनविचारः
संवेदनस्य तादात्म्ये न विवादोऽस्ति कस्यचित् ।
तस्यार्थरूपताऽसिद्धा सापि सिध्यति संस्मृतेः ॥ ४२३ ॥
भेदेनाननुभूतेऽस्मिन्नविभक्ते स्वगोचरैः ।
एवमेतन्न खल्वेवमिति सा स्यान्न भेदिनी ॥ ४२४ ॥
अक्षणिकस्याप्यर्थस्य व्यक्तिं निषेद्धुमाह—यो वज्रोपलादिः स्थिरोऽर्थः
सोऽपि ज्ञानोत्पादनस्वभावत्वेनान्यस्य सहकारिणोऽनुपकारकस्याानपेक्षणात्
सकृत्सर्वस्य जगतः स्वग्राहकाणि ज्ञानानि सममेककालं जनयेत् ॥४२१॥
न चैतदस्ति, क्रमेणोत्पादात् क्रमाद् भवन्ति जायमानानि तानि वज्रादि-
ज्ञानान्यस्य वज्रोपलादेः सहकारिणामुपकारात् स्वभावान्तरलक्षणात् प्रति-
क्षणं भेदमन्यस्वभावतामाहुः । यथा च पूर्ववत् शब्दादिष्विवात्र वज्रादिष्वपि
क्षणिकेषु विज्ञानात् पूर्वकालभाविषु सोऽव्यक्तिदोषप्रसङ्गस्तदवस्थः ॥ ४२२ ॥
पुनर्बुद्धेरर्थाकारसिद्धयर्थमाह—संवेदनस्य तादात्म्येऽनुभवरूपत्वे कस्य-
चिद् विदुषो वादो नास्ति । तस्य संवेदनस्यार्थरूपता विवादादसिद्धा
साऽर्थाकारतापि संस्मृतेरर्थाभासानुभवस्य सम्यक् स्मरणात् सिध्यति ॥४२३॥
अस्मिन्नर्थसंवेदनेन भेदेनाननुभूते² स्वस्य गोचरैरर्थैः स्वाकारसम-
र्पणद्वारेणाविभक्ते परस्परतो भेदेन व्यवस्थापिते एतज्ज्ञानमेवं घटग्राहकम्, न
खल्वेवं नैव घटग्राहकमिति । सा संवेदनस्मृतिर्भेदिनी विभागवती न स्यात्
ज्ञानेन सह ॥ ४२४ ॥
१. स्वयम्—पाठा० । २. भेदेनानुभूते—रा० ।

२२४ प्रमाणवार्त्तिके
न चानुभवमात्रेण कश्चिद् भेदो विवेचकः ।
विवेकिनी न चास्पष्टभेदे धीर्यमलादिवत् ॥ ४२५ ॥
द्वैरूप्यसाधनेनापि प्रायः सिद्धं स्ववेदनम् ।
स्वरूपभूताभासस्य तदा संवेदनेक्षणात् ॥ ४२६ ॥
धियाऽतद्रूपया ज्ञाने निरुद्धेऽनुभवः कथम्¹ ।
स्वं च रूपं न सा वेत्तीत्युत्सन्नोऽनुभवोऽखिलः² ॥ ४२७ ॥
बहिर्मुखं च तज्ज्ञानं भात्यर्थप्रतिभासवत् ।
बुद्धेश्च ग्राहिका वित्तिर्नित्यमन्तर्मुखात्मनि ॥ ४२८ ॥
न चानुभवमात्रेणावान्तरभिन्नेन प्रतिज्ञानं कश्चिद् भेदो विद्यमानोऽपि
परस्परं विवेचको भेदव्यवस्थापनहेतुः । तथाविधास्पष्टे भेदे सत्यपि धीः स्मृतिरूपा
विवेकिनी न भवति; किन्त्वेकबोधाध्यवसायिनी प्रत्यभिज्ञैव स्यात्, यमला-
दिवद् । यमलयोरवान्तरभेदसद्भावेऽप्यको दृश्यमानो नापरस्माद् भेदेनावसीयते;
किन्त्वेकत्वेनैव प्रत्यभिज्ञायते । तस्मादर्थाकारानुभवाकारतया बुद्धिर्द्विरूपैव ॥४२५॥
ज्ञानानां द्वैरूप्यसाधनेनापि प्रायो बाहुल्येन स्ववेदनं ज्ञानं सिद्धम् ।
तथा ज्ञानस्य स्वरूपभूतस्याभासस्याकारस्य तदा द्विरूपज्ञानोत्पत्तिकाले
संवेदनादनुभूतेरीक्षणात् ॥ ४२६ ॥
ज्ञानान्तरेण सरूपेण ज्ञानमर्थवद्वेद्यते इति चेत् ? तदा धियाऽतद्रूपतयाऽ-
ग्राह्यज्ञानस्वरूपया निरुद्धे ग्राह्ये ज्ञाने कथमनुभवः । स्वकाले ज्ञानं न वेद्यते,
ग्राहककाले ग्राह्यस्यैवाभाव इति कथं बुद्धिवेदनम् ! स्वञ्च रूपं तन्मते सा
बुद्धिर्न वेत्तीत्यनुभवोऽखिलोऽर्थस्य ज्ञानस्य चोत्सन्नः स्यात् । ज्ञानप्रकाशो
ह्यर्थप्रकाशः, स च स्वपरकालयोर्नास्तीति प्रकाशो न स्यात् सर्वस्य ॥ ४२७ ॥
किञ्च—अस्यार्थस्य ग्राह्यस्य प्रतिभासवदाकारवत् तद् बाह्यग्राहकं ज्ञानं
बहिर्मुखं बाह्यतया प्रतिभाति, यथा नीलादिज्ञानम् । बुद्धेश्चात्मनि ग्राहिका
वित्तिर्नित्यं सर्वकालमन्तर्मुखाऽबाह्यतया ग्राहकत्वेन प्रतिभाति । तदेतत् स्व-
वेदनतायामेवोपपन्नम् ॥ ४२८ ॥
१. कुतः—पाठा० । २. ०ऽर्थिनः—पाठा० ।

प्रत्यक्षपरिच्छेदः २२५
यो यस्य विषयाभासस्तं वेत्ति न तदित्यपि ।
प्राप्ता का संविदन्यास्ति ताद्रूप्यादिति चेन्मतम् ॥ ४२९ ॥
प्राप्तं संवेदनं सर्वसदृशानां परस्परम् ।
बुद्धिः सरूपा तद्विच्चेत् नेदानीं वित् सरूपिका ॥ ४३० ॥
स्वयं सोऽनुभवस्तस्या न स सारूप्यकारणः ।
क्रियाकर्मव्यवस्थायास्तल्लोके स्यान्निबन्धनम् ॥ ४३१ ॥
स्वभावभूततद्रूपसंविदारोपविप्लवात् ।
यदि तु बुद्धयन्तरग्राहिका बुद्धिः स्यात् , तदा नीलादिवत् स्मर्यमाणातीत-
स्वबुद्धिवच्च ग्राहकाकारत्वाद् बहिष्टेनावभासेत । तथा स्ववेदनताऽभावे यो
विषयस्याभास आकारो यस्य ज्ञानस्य तं स्वाकारार्पकं विषयं तदाकारवत्
ज्ञानं न वेत्तीति प्राप्तम् । विषयस्वरूपस्यात्मनो वेदने हि विषयवेदनं तत्परोक्ष-
तया अर्थोऽपि परोक्षः स्यात् ; यतोऽर्थस्वरूपधीवेदनादन्या का संविदर्थस्यास्ति ।
ताद्रूप्याद् विषयसारूप्यादस्वसंवेदनादर्थस्य संविदिति चेन्मतम् ? ॥ ४२९ ॥
एवं सति सर्वेषां यमलकादीनां सदृशानां परस्परं संवेदनं प्राप्तम् , न
सदृश इत्येवानुभवः । सरूपा तद्विदर्थस्य संवेदनं चेत् ? इदानीमस्मिन्नभ्युपगमे
सरूपिका विन्न भवति । सारूप्यं वेदनलक्षणं न भवति, किन्त्वनुभवरूपता;
सत्यपि सारूप्ये यमलकादीनामनुभवत्वात् । नापि सारूप्यवाहितानुभवमात्रं
वेदनम्; किन्तु स्वसंवेदनं सारूप्यम् ॥ ४३० ॥
यदि सारूप्यवशाद् वेदनम् , तदा बुद्ध्यात्मनापि सारूप्याद् वेदनं स्यात् ,
तथा ग्राह्यग्राहकयोर्भेद एव प्राप्तः ? इत्याह—तस्या बुद्धेः सोऽनुभवोऽपरो-
क्षत्वं स्वयं स्वरूपेण तथोत्पत्तेर्न सारूप्यकारणः सोऽनुभवो बुद्धेः ।
एवं तर्हि बाह्येऽप्यर्थे बुद्धिसारूप्यं निष्फलम् ? इत्याह—तदर्थसारूप्यं
क्रियाया अर्थादनुभूतेः, कर्मणो बाह्यस्य व्यवस्थाया निबन्धनं लोके
बहिरध्यवसायिनि स्यात् । न ह्यस्य सारूप्यमन्तरेण 'इयमस्य संवित्तिः' इति
शक्यं व्यवस्थापयितुम् ॥ ४३१ ॥
यस्या बुद्धेः स्वभावभूतस्य रूपस्य विषयाकारस्य संविदो बहिरर्थेऽवारोपः
प्र० वा० : १५

२२६ प्रमाणवार्त्तिके
नीलादेरनुभूताख्या नानुभूतेः परात्मनः ॥ ४३२ ॥
धियो नीलादिरूपत्वे बाह्योऽर्थः किम्प्रमाणकः ।
धियोऽनीलादिरूपत्वे स तस्यानुभवः कथम् ! ॥ ४३३ ॥
यदा संवेदनात्मकत्वं न सारूप्यनिबन्धनम् ।
सिद्धं तत् स्वत एवास्य किमर्थेनोपनीयते ! ॥ ४३४ ॥
न च सर्वात्मना साम्यमज्ञानत्वप्रसङ्गतः ।
न च केनचिदंशेन सर्वं सर्वस्य वेदनम्¹ ॥ ४३५ ॥
स एव विप्लवो भ्रान्त्युपनीतत्वात् । तस्मान्नीलादेर्वस्तुतोऽदृश्यमानस्याप्यनु-
भूताख्याऽनुभवव्यवहारो लोकस्य, न पुनर्ज्ञानात् परात्मनोऽर्थस्य साक्षादनु-
भूतेरर्थानुभवव्यवहारः ॥ ४३२ ॥
परमार्थतस्तु धियो नीलादिरूपत्वे स्वसंवेद्ये तदाकारार्पको बाह्योऽर्थः
स्वरूपेणादृश्यमानः किम्प्रमाणकः ! न ह्याकारद्वयं वेद्यते, येनैको बाह्यस्य
अपरो ज्ञानस्येति स्यात् !
बाह्य एवाकारवान्, धीस्तु निराकारेति प्रत्यक्षसिद्धोऽर्थः स्याद् ? इत्याह—
धियोऽनीलादिरूपत्वे सोऽर्थाकाररहितोऽनुभवस्तस्य नीलस्य ग्राहक इति कथं
शक्यव्यवस्थापनः; अनुभवमात्रामतया सर्वत्र ज्ञानेऽविशेषात् । विशेषव्यवस्थान-
शक्त्या यदा संवेदनात्मकत्वमपरोक्षत्वं न सारूप्यनिबन्धनम्, तदा स्वत एव
प्रकाशात्मतयोत्पत्तेस्तत् संवेदनात्मकत्वं सिद्धम् । ततश्चार्थेनास्य ज्ञानस्य किमु-
पनीयते येन तस्य तद्वेदनमित्युच्यते । न हि ज्ञानस्य स्वप्रकाशेऽर्थापेक्षा । न च
स्वस्माद्व्यतिरिक्तं तेन वेद्यते, तत् कथमर्थवेदनमनेनेत्युच्यते ॥ ४३३-४३४ ॥
किञ्च—ज्ञानं सर्वात्मना वा एकदेशेन वाऽर्थस्य सरूपं यत् तद्ग्राहकं
स्यात् । तत्र न तावत् सर्वेण जडत्वादिना साम्यम्; अज्ञानत्वप्रसङ्गतः । न च
जडयोर्ग्राह्यग्राहकभावः केनचिदंशेन; वस्तुत्वनीलत्वादिना सर्वं ज्ञानं सर्वस्यार्थस्य
संवेदनं स्यात् । सर्वं वा नीलज्ञानं सर्वस्य नीलस्य वेदनं स्यात् ॥ ४३५ ॥
१. “सर्वात्मना हि सारूप्ये ज्ञानमज्ञानतां व्रजेत् !
साम्ये केनचिदंशेन स्यात् सर्वं सर्ववेदनम् ॥”—पाठा० ।

प्रत्यक्षपरिच्छेदः २२७
यथा नीलादिरूपत्वान्नीलाद्यनुभवो मतः ।
तथानुभवरूपत्वात् तस्याप्यनुभवो भवेत् ॥ ४३६ ॥
नानुभूतोऽनुभव इत्यर्थवद्धि विनिश्चयः ।
तस्माददोष इति चेत् नार्थेऽप्यस्त्येष सर्वदा ॥ ४३७ ॥
कस्माद् वानुभवे नास्ति सति सत्तानिबन्धने ।
अपि चेदं यदाभाति दृश्यमाने सितादिके ॥ ४३८ ॥
पुंसः सिताद्यभिव्यक्तिरूपं संवेदनं स्फुटम् ।
तत् किं सिताद्यभिव्यक्तेः पररूपमथात्मनः ॥ ४३९ ॥
पररूपेऽप्रकाशायां व्यक्तौ व्यक्तं कथं सितम् !
ज्ञानं व्यक्तिर्न सा व्यक्तेत्यव्यक्तमखिलं जगत् ॥ ४४० ॥
यथा नीलादिरूपत्वात् ज्ञानं नीलादीनामनुभवो मतः, तथा
किमनुभवरूपत्वात् तस्यानुभवस्यार्थविषयस्यापि पूर्वकस्योत्तरं ज्ञानमनुभवो
न भवेत् ! ॥ ४३६ ॥
नानुभवेऽनुभूतोऽनुभव इत्यर्थवदर्थ इव गृहीते विनिश्चयो भवति ।
तस्मादनुभवस्याप्यनुभवो ग्राह्यः कः स्यादित्ययमदोष इति चेत् ? न केवल-
मनुभवे, अर्थेऽप्येषोऽनुभूतत्वनिश्चयः सर्वदा नास्ति । न हि धारावाहिन्यर्थज्ञाने-
ऽर्थेषु प्रतिक्षणमनुभूतनिश्चयः । ततश्चार्थोऽपि नानुभूतः स्यात् ॥ ४३७ ॥
कस्माद्वाऽनुभवेऽनुभूतनिश्चयस्य सत्तानिबन्धने सारूप्ये तदुत्पादे च
सति नास्ति सत्तानिश्चयः । अर्थेऽप्यनुभूतनिबन्धने सारूप्यतदुत्पत्ती एव ते
तज्ज्ञानेऽपि समाने । अपि च स्वसंवेदनानभ्युपगमे सितादिके दृश्यमाने,
यदिदं सिताद्यभिव्यक्तिरूपमन्तःप्रकाशमानं संवेदनं स्फुटं पुंसः प्रतिपत्तु-
राभाति, तत् किं सिताद्यभिव्यक्तेः पररूपम्, अथात्मभूतमिति विकल्पौ;
सतस्तत्त्वान्यत्वाव्यतिक्रमात् ॥ ४३८-४३९ ॥
पररूपेऽभ्युपगम्यमाने, संवेदनं यत् प्रकाशते तन्न सितादिव्यक्तिरूपमित्य-
प्रकाशायां शुक्लादिव्यक्तौ सितं कथं व्यक्तम् । ज्ञानं हि व्यक्ति, न च सा
व्यक्ता सितादिके दृश्यमाने दृश्यत इत्यव्यक्तमखिलं जगत्प्राप्तम् ॥४४०॥

२२८ प्रमाणवार्त्तिके
व्यक्तेर्व्यक्त्यन्तरव्यक्तावपि दोषप्रसङ्गतः ।
दृष्ट्या वाऽज्ञातसम्बन्धं विशिनष्टि तया कथम् ! ॥ ४४१ ॥
यस्माद् द्वयोरेकगतौ न द्वितीयस्य दर्शनम् ।
द्वयोः संसृष्टयोर्दृष्टौ स्याद् दृष्टमिति निश्चयः ॥ ४४२ ॥
सरूपं दर्शनं यस्य दृश्यतेऽन्येन चेतसा ।
दृष्टाख्या १ तत्र १ चेत्;
सिद्धं सारूप्येऽस्य स्ववेदनम् ॥ ४४३ ॥
सिताद्यभिव्यक्तिरेषितव्या, तथा हि-- अर्थव्यक्तेर्व्यक्तिरापद्यमाना न व्यक्ता
स्यात् । अथ व्यक्तिरेव न सिध्येत्, तस्याः स्वप्रकाशत्वेऽर्थव्यक्तिरपि तथास्तु ।
अथार्थव्यक्तिव्यक्तेर्व्यक्त्यन्तराद् उत्तरकालभाविवेदनाद् व्यक्तिरेवं तस्याश्चान्यत
इत्यनवस्था दुर्वाररा ।
किञ्च--दृष्ट्या धियाऽसंविदितया सहाज्ञातसम्बन्धमर्थं कथं विशि-
नष्टि प्रतिपत्ता--दृष्टोऽयमिति ॥ ४४१ ॥
कथमर्थो दृष्ट्याऽज्ञातसम्बन्धः ? इत्याह--यस्माद् द्वयोरर्थज्ञानयोर्मध्ये
एकस्य गतौ दर्शनकाले न द्वितीयस्य दर्शनमस्ति । तथा हि--न पदार्थो
दृश्यते, न तदा बुद्धिरुपलभ्यते; तदुपलम्भस्य भावित्वात् । यदा च बुद्धिरुप-
लभ्यते न तदाऽन्यः; अतीतत्वात् । तस्माद् द्वयोरर्थज्ञानयोः संसृष्टयोरेकोप-
लम्भात् दृष्टौ सत्यां दृष्टमिदमिति निश्चयः; ततोऽन्योपलब्धिः स्वोपलब्धि-
रूपैव ॥ ४४२ ॥
स्यादेतत् । यस्यार्थस्य सरूपं समानाकारं दर्शनं ज्ञानमन्येन चेतसा
दृश्यते, तत्रार्थे दृष्टाख्या दृष्टव्यवहार इति चेत् ?
अत्राह--अस्य ज्ञानस्यार्थेन सह सारूप्ये सिद्धे स्वसंवेदनं ज्ञानं
सिद्धम् । तथा हि--अर्थाकारस्तावत् ज्ञानकाले परिस्फुटं वेद्यमानो ज्ञानस्यात्मा
चेत् ? ज्ञानमप्यर्थाकारवदपरोक्षमेव स्वभावत इति नान्यवेद्यम् ॥ ४४३ ॥
१-१. दृष्टाख्येति न--रा० ।

प्रत्यक्षपरिच्छेदः २२९
अथात्मरूपं नो वेत्ति पररूपस्य वित् कथम् ।
सारूप्याद् वेदनाख्या च प्रागेव प्रतिवर्णिता ॥ ४४४ ॥
दृष्टयोरेव सारूप्यग्रहोऽर्थं च न दृष्टवान् ।
प्राक् कथं दर्शनेनास्य सारूप्यं सोऽध्यवस्यति ॥ ४४५ ॥
सारूप्यमपि नेच्छेद् यस्तस्य नोभयदर्शनम् ।
तदर्थो ज्ञानमिति च ज्ञाते चेति गता कथा ॥ ४४६ ॥
अथ स्वरूपम्, सा तर्हि स्वयमेव प्रकाशते ।
यत् तस्यामप्रकाशायामर्थः स्यादप्रकाशितः ॥ ४४७ ॥
अथ ज्ञानमात्मरूपं न वेत्ति, पररूपस्य बाह्यरूपस्य वित् कथम् !
‘न ह्यर्थाकारज्ञानवेदनमन्तरेणार्थवेदनम्’ इत्युक्तम् ।
सारूप्यमात्रेणार्थवित्तिर्भविष्यतीति चेत् ? सारूप्यादनुभवात्मतारहिताद्
वेदनाख्या वेदनव्यवहृतिश्च प्रागेव “प्राप्तं संवेदनं सर्वसदृशानां परस्परम्”
( प्र० वा० २. ४३० ) इत्यनेन प्रतिवर्णिता प्रत्युक्ता ॥ ४४४ ॥
किञ्च—दृष्टयोरेव कयोश्चित् सारूप्यग्रहो दृष्टः, यथा यमलयोः । न
च कश्चिद् द्रष्टा ज्ञानात् प्रागर्थं दृष्टवान्, तत् कथं दर्शनेन सहास्यादृष्टस्यार्थस्य
स द्रष्टा सारूप्यमध्यवस्यति निश्चिनोति ॥ ४४५ ॥
किञ्च—सारूप्यमपि शब्दात् स्वसंवेदनं यो वादी नेच्छेत्, न
तस्योभयस्यार्थस्य ज्ञानस्य च दर्शनं संगच्छते; सारूप्याभावेऽर्थवेदनाऽ-
योगात् । स्ववेदनाभावे च न ज्ञानसंवेदनम्; अन्येन तद्ग्रहस्य निषिद्धत्वात् ।
यदा चैवम्, तदार्थो ज्ञानमिति भेदः । ते च ज्ञाते चेति कथापि गतेति
कृत्स्नं जगदन्धमूकं भवेत्; प्रतीतिनिबन्धनत्वादस्य व्यवहारस्य ॥ ४४६ ॥
अथ यदेतत् सिताद्यभिव्यक्तिरूपं स्फुटसंवेदनमाभाति तद् बुद्धेः स्वरूपम् ।
सा बुद्धिस्तर्हि स्वयमेवापरोक्षतया प्रकाशते; यद्यस्मादस्यां बुद्धावप्रकाशायां
परोक्षायामर्थोऽप्रकाशितः स्यात् । प्रकाशते चार्थ इति बुद्धिरप्यपरोक्षस्वभावेति
स्वसंवेदनसिद्धिः ॥ ४४७ ॥