सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 253, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 253

प्रत्यक्षपरिच्छेदः २२७
यथा नीलादिरूपत्वान्नीलाद्यनुभवो मतः ।
तथानुभवरूपत्वात् तस्याप्यनुभवो भवेत् ॥ ४३६ ॥
नानुभूतोऽनुभव इत्यर्थवद्धि विनिश्चयः ।
तस्माददोष इति चेत् नार्थेऽप्यस्त्येष सर्वदा ॥ ४३७ ॥
कस्माद् वानुभवे नास्ति सति सत्तानिबन्धने ।
अपि चेदं यदाभाति दृश्यमाने सितादिके ॥ ४३८ ॥
पुंसः सिताद्यभिव्यक्तिरूपं संवेदनं स्फुटम् ।
तत् किं सिताद्यभिव्यक्तेः पररूपमथात्मनः ॥ ४३९ ॥
पररूपेऽप्रकाशायां व्यक्तौ व्यक्तं कथं सितम् !
ज्ञानं व्यक्तिर्न सा व्यक्तेत्यव्यक्तमखिलं जगत् ॥ ४४० ॥
यथा नीलादिरूपत्वात् ज्ञानं नीलादीनामनुभवो मतः, तथा
किमनुभवरूपत्वात् तस्यानुभवस्यार्थविषयस्यापि पूर्वकस्योत्तरं ज्ञानमनुभवो
न भवेत् ! ॥ ४३६ ॥
नानुभवेऽनुभूतोऽनुभव इत्यर्थवदर्थ इव गृहीते विनिश्चयो भवति ।
तस्मादनुभवस्याप्यनुभवो ग्राह्यः कः स्यादित्ययमदोष इति चेत् ? न केवल-
मनुभवे, अर्थेऽप्येषोऽनुभूतत्वनिश्चयः सर्वदा नास्ति । न हि धारावाहिन्यर्थज्ञाने-
ऽर्थेषु प्रतिक्षणमनुभूतनिश्चयः । ततश्चार्थोऽपि नानुभूतः स्यात् ॥ ४३७ ॥
कस्माद्वाऽनुभवेऽनुभूतनिश्चयस्य सत्तानिबन्धने सारूप्ये तदुत्पादे च
सति नास्ति सत्तानिश्चयः । अर्थेऽप्यनुभूतनिबन्धने सारूप्यतदुत्पत्ती एव ते
तज्ज्ञानेऽपि समाने । अपि च स्वसंवेदनानभ्युपगमे सितादिके दृश्यमाने,
यदिदं सिताद्यभिव्यक्तिरूपमन्तःप्रकाशमानं संवेदनं स्फुटं पुंसः प्रतिपत्तु-
राभाति, तत् किं सिताद्यभिव्यक्तेः पररूपम्, अथात्मभूतमिति विकल्पौ;
सतस्तत्त्वान्यत्वाव्यतिक्रमात् ॥ ४३८-४३९ ॥
पररूपेऽभ्युपगम्यमाने, संवेदनं यत् प्रकाशते तन्न सितादिव्यक्तिरूपमित्य-
प्रकाशायां शुक्लादिव्यक्तौ सितं कथं व्यक्तम् । ज्ञानं हि व्यक्ति, न च सा
व्यक्ता सितादिके दृश्यमाने दृश्यत इत्यव्यक्तमखिलं जगत्प्राप्तम् ॥४४०॥