प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 242, कुल 532 में से
संदर्भ में पढ़ेंबुद्धीराश्रित्य कल्प्येत यदि किं वा विरुध्यते ॥ ३९४ ॥
अनग्निजन्यो धूमः स्यात् तत्कार्यात् कारणेऽगतिः ।
न स्यात् कारणतायां वा कुत एकान्ततो गतिः ॥ ३९५ ॥
तत्रापि धूमाभासा धीः प्रबोधपटुवासनाम् ।
गमयेदग्निर्निभासां धियमेव न पावकम् ॥ ३९६ ॥
तद्योग्यवासनागर्भ एव धूमावभासिनीम् ।
व्यनक्ति चित्तसन्तानो धियं धूमोऽग्नितस्ततः ॥ ३९७ ॥
प्रतिभासवासनाप्रतिनियमात् । तथा क्रमविशेषेण नियतः सङ्क्रम उत्पादो यासां
ताः बुद्धीराश्रित्य यदि कल्प्येत तदा किं वा विरुध्यते, न किञ्चित् । हि
बीजप्रतिभासं ज्ञानं स्वहेतोः प्रबुद्धाङ्कुरज्ञानवासनापाटवमङ्कुरज्ञानं जनयति, एवं
धूमज्ञानमग्निज्ञानमुत्पादयति । तावतैव च ज्ञापकव्यवस्थाया अविरोधः ॥ ३९४ ॥
नन्वस्ति विरोधः । तथा हि—धूमज्ञानादग्निज्ञानोत्पादेऽनग्निजन्यो
धूमः स्यात् । अग्निप्रतिभासस्य प्रागविद्यमानत्वात् विपर्ययः स्यात् । तत्
तस्मात् कार्यात् कारणे गतिर्न स्यात् । अग्निज्ञानं प्रति धूमज्ञानस्य कारण-
तायां वा कारणात् कार्य एकान्ततोऽसन्दिग्धा कुतो गतिरिति ? ॥ ३९५ ॥
अत्राह—तत्र धूमादग्न्यनुमानेऽपि धूमाभासा धीरग्निवासनाप्रतिबद्धा
एकसामग्र्यधीनतयाऽग्निर्निभासां धियमेव धूमज्ञानादेव प्रबोधेन पटुजननौ-
न्मुखा वासना शक्तिर्यस्यास्तां गमयेत्, न पावकं बाह्यरूपम्; सर्वदाऽ-
दर्शनात् ॥ ३९६ ॥
अग्निवासनाधूमज्ञानयोर्हेतुफलतामाख्यातुमाह—तस्याग्निप्रतिभासस्य योग्या
जननसमर्था वासनागर्भे स्वभावभूता यस्य चित्तसन्तानस्य स चित्तसन्तानो
धूमावभासिनीं धियं व्यनक्ति उत्पादयति । ततोऽग्नित एव धूमो
भवतीति न कार्यकारणताविपर्ययः । न च कारणात् कार्यानुमानम्; अग्निवासनाप्र-
भवत्वात् धूमाग्निज्ञानयोः । धूमज्ञानात् प्रबुद्धाग्निवासनाद्वारेणाग्निज्ञानानुमितिरेक-
सामग्र्यधीना ॥ ३९७ ॥