प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 243, कुल 532 में से
संदर्भ में पढ़ेंप्रत्यक्षपरिच्छेदः २१७
ज्ञानस्य द्वैरूप्यसाधनम्
अस्त्येष विदुषां वादो बाह्यं त्वाश्रित्य वर्ण्यते ।
द्वैरूप्यं सहसंवित्तिनियमात् तच्च सिध्यति ॥ ३९८ ॥
ज्ञानमिन्द्रियभेदेन पटुमन्दाविलादिकाम् ।
प्रतिभासभिदामर्थे बिभ्रदेकत्र दृश्यते ॥ ३९९ ॥
अर्थस्याभिन्नरूपत्वादेकरूपं भवेन्मनः ।
सर्वं तदर्थमर्थाच्चेत् तस्य नास्ति तदाभता ॥ ४०० ॥
अर्थाश्रयेणोद्भवतस्तद्रूपमनुकुर्वतः ।
तस्य केनचिदंशेन परतोऽपि भिदा भवेत् ॥ ४०१ ॥
एवं तर्हि विज्ञाननय एव सर्वव्यवस्थानमविरोधात्, कथमाचार्येण बहि-
र्थापेक्षया ज्ञानद्विरूपतोक्ता ? इत्याह—अस्त्येष सर्वव्यवस्थासु विज्ञप्तिमात्रताप्रति-
पादको विदुषां न्यायदर्शिनां योगाचाराणां वादः । सौत्रान्तिकैरिष्टं
बाह्यमर्थमाश्रित्य ज्ञानस्य द्वैरूप्यमाचार्येण वर्ण्यते । तच्च द्वैरूप्यं सहसंवे-
दननियमात् सहोपलम्भनियमात् सिध्यति; भेदेऽपि सति तदभावात् ॥३९८॥
द्वैरूप्यसिद्धावुपपत्त्यन्तरं वक्तुमाह— इन्द्रियस्य भेदेन प्रसादोपघातादिना
विशेषेण पुरुषार्थे ज्ञानं पटुमन्दाविलादिकां प्रतिभासभिदां बिभ्रत् दधत्
दृश्यते ॥ ३९९ ॥
तस्य ज्ञानस्यार्थाच्चेन्नास्ति तदाभताऽर्थकारता, तदर्थस्याभिन्नरूप-
त्वात् । तदर्थं तद्विषयं सर्वं मनोवेदनमेकरूपं भवेत्, न पटुमन्दा-
विलतादिभिन्नम्; ज्ञानस्य स्वगताकारभेदानभ्युपगमात्, अर्थस्यैकरूपत्वात्
प्रतिभासभेदविरोधात् । अस्ति चायम् । तस्मादर्थरूपता, अनुभवरूपता चेति
द्वैरूप्यसिद्धिः ॥ ४०० ॥
नन्वर्थरूपतायामप्यर्थस्यैकरूपत्वात् तद्रूपं ज्ञानमेकाकारं स्यात्, न
प्रसन्नाविलादिरूपम् ? इत्याह— अर्थस्य सरूपस्याश्रयेणोद्भवतस्तस्य ज्ञानस्य
तद्रूपमर्थाकारमनुकुर्वतः केनचिदंशेनाकारेण पटुमन्दत्वादिना परतो वासना-
देराप कारणाद् भिदा भवेत् ॥ ४०१ ॥