प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 236, कुल 532 में से
संदर्भ में पढ़ें२१० प्रमाणवार्त्तिके
नीलाद्याभासभेदित्वान्नार्थो जातिरतद्वती ।
सा चानित्या१ न जातिः स्यान्नित्या वा जनिका कथम् ॥ ३७२॥
नामादिकं निषिद्धं प्राङ् नायमर्थवतां क्रमः ।
इच्छामात्रानुरोधित्वार्दथशक्तिर्न सिध्यति ॥ ३७३ ॥
स्मृतिविचारः
स्मृतिश्चेदृग्विधं ज्ञानं तस्याश्चानुभवाद् भवः ।
स चार्थकाररहितः सेदानीं तद्वती कथम् ! ॥ ३७४ ॥
तद् वेद्यते; वेद्यवेदकभावस्य निषिद्धत्वात् । अतः स्ववेदनमेव तत् ॥ ३७१ ॥
स्यादेतद् । अतीता व्यक्तिरसत्त्वान्न विकल्पविषयः, जातिस्तु सत्त्वात्
स्याद् ? इत्याह—अतीतविकल्पस्य नीलाद्याभासभेदित्वात् वर्णसंस्थानाद्या-
कारविशेषवत्त्वात् न जातिरतद्वती वर्णाद्याकाररहितार्थविषयः ।
किञ्च—जातिर्विषयीभवन्ती अनित्या वा भवेत्, नित्या वा । सा
चानित्या जातिर्न स्यात्; नित्यलक्षणत्वात् तस्याः । नित्या वा बुद्धेर्जनिका
कथं स्यात्; नित्यस्य क्रमयौगपद्याभ्यां विरहात् ॥ ३७२ ॥
नामनिमित्ते विप्रयुक्तः संस्कारो विषयश्चेद् ? इत्याह—नामादिकं
विषयत्वेन निषिद्धं प्राक् “नामादिवचने वक्तृश्रोतृवाच्यानुबन्धिनि” (प्र० वा०
२. ११) इत्यादिना । किञ्च—अर्थवतां सविषयाणां चक्षुर्विज्ञानादीनामयं
क्रमोऽर्थसामर्थ्येन विनोत्पाद इति नास्ति । मनोविज्ञानानां त्वर्थसन्निधानान-
पेक्षाणामिच्छामात्रानुरोधित्वात् जनिकार्थशक्तिर्न सिध्यति । न चाहेतुरर्थो
ग्राह्यः, अतिप्रसङ्गात् ॥ ३७३ ॥
भवत्वतीतार्थालम्बनं विज्ञानं विषयाकारम्, अनुभवस्तु मा भूद् ? इत्याह—
ईदृग्विधमतीतविकल्पनात्मकं ज्ञानं च स्मृतिः । तस्याश्चानुभवाद् भव
उत्पादः । न हि अनुभवमन्तरेण स्मृतिः । स चानुभवो भवन्मतेऽर्थाकार-
रहितः । इदानीमस्मिन्नभ्युपगमे सा स्मृतिस्तद्वत्यर्थाकारवती कथमस्तु । यद्यनु-
भवारूढो नार्थकारः कथमसौ विदितः, अविदितस्य का स्मृतिः ! ॥ ३७४ ॥
१. वा नित्या—रा० ।