प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
प्रत्यक्षपरिच्छेदः १८५
स्पष्टाभं निर्विकल्पञ्च भावनाबलनिर्मितम् ॥ २८४ ॥
तस्माद् भूतमभूतं वा यद् यदेवाति¹ भाव्यते¹ ।
भावनापरिनिष्पत्तौ तत् स्फुटाकल्पधीफलम् ॥ २८५ ॥
तत्र प्रमाणं संवादि यत् प्राङ् निर्णीतवस्तुवत् ।
तद् भावनाजं प्रत्यक्षमिष्टम्, शेषा उपप्लवाः ॥ २८६ ॥
शब्दार्थग्राहि यद् यत्र तज्ज्ञानं तत्र कल्पना ।
स्वरूपं च न शब्दार्थस्तत्राध्यक्षमतोऽखिलम् ॥ २८७ ॥
इति तेन सह विरोधः ? इत्याह—अशुभा विनीलकविपूयकास्थिसंकलादिका
पृथ्वीकृत्स्नादि भूमयत्वादि अभूतमसत्यमपि भावनाबलेन निर्मितं
स्पष्टाभं निर्विकल्पकं चास्माभिर्वर्ण्यत इति नास्ति सिद्धान्तविरोधः ॥२८४॥
यतो भावनाया भाव्यस्पष्टतायामाधिपत्यम्; तस्माद् भूतमार्यसत्यादि अभू-
तमशुभादि यद् यदेवात्यन्तं भाव्यते, तद् भाव्यमानं भावनायाः सादर-
निरन्तरदीर्घकालप्रवर्त्तितायाः परिनिष्पत्तौ स्फुटा कल्पधीः सा फलं यस्य
तत्तथा ॥ २८५ ॥
तत्र भावनाबलभाविषु स्पष्टानिर्विकल्पेषु यत् संवादि उपदर्शितार्थप्रापकं
तद् भावनाजं प्रत्यक्षं प्रमाणमिष्टम् । किमिवेत्याह—प्राक् प्रथमपरिच्छेदे
निर्णीतं वस्तु सत्यचतुष्टयं तस्मिन्निव । यथा आर्यसत्यविषयं भावनाबलजं
संवादित्वात् प्रत्यक्षं प्रमाणम्, एवमन्यदपीदृशम् । शेषा अयथार्था उपप्लवा
भ्रमाः, यथा—अशुभाः पृथ्वीकृत्स्नादिप्रत्ययाः ॥ २८६ ॥
“कल्पनापि स्वसंवित्ताविष्टा नार्थे विकल्पनात्” ( प्र० समु० १. ७ )
इति व्याख्यातुमाह—शब्दार्थग्राहि अन्यव्यवच्छेदस्य ग्राहकं यज्ज्ञानं यत्र विषये
तज्ज्ञानं तत्र कल्पनोच्यते । ज्ञानानां स्वरूपञ्च स्वलक्षणात्मकम्, न शब्दस्यार्थो
विषयः; अतो वाच्यत्वात् तत्र स्वरूपेऽखिलं ज्ञानमविकल्पत्वादध्यक्षम् ॥२८७॥
उक्तं चतुर्विधं प्रत्यक्षम् ॥
१-१. यदेवाभिभाव्यते—रा० ।
१८६ प्रमाणवार्त्तिके
प्रत्यक्षाभासविचारः
त्रिविधं कल्पनाज्ञानमाश्रयोपप्लवोद्भवम् ।
अविकल्पकमेकं च प्रत्यक्षाभं चतुर्विधम्¹ ॥ २८८ ॥
अनक्षजत्वसिद्ध्यर्थमुक्ते द्वे भ्रान्तिदर्शनात् ।
सिद्धानुमादिवचनं साधनायैव पूर्वयोः ॥ २८९ ॥
संकेतसंशयान्यार्थसमारोपविकल्पने ।
प्रत्यक्षाभासमिदानीं वक्तव्यम्। त्रिविधं कल्पनाज्ञानं प्रत्यक्षाभम्-मरीचि-
कायां जलाध्यवसायि भ्रान्तिज्ञानम्, संवृतौ विसंवादिव्यवसायसांवृतज्ञानम्,
पूर्वदृष्टैकत्वकल्पनाप्रवृत्तं लिङ्गानुमेयादिज्ञानम् । अविकल्पकञ्च एकं प्रत्य-
क्षाभम् । कीदृशम् ? आश्रयस्येन्द्रियस्योपप्लवस्तिमिराद्युपघातस्तस्माद् भवो
यस्य तत्तथा । एवञ्च चतुर्विधञ्च प्रत्यक्षाभासम् ॥ २८८ ॥
नन्वविकल्पकं प्रत्यक्षम्, ततस्त्रयमपीदं सविकल्पकत्वादेकः प्रत्यक्षाभासः,
तत् किम्-भ्रान्तिज्ञानं मृगतृष्णिकायां जलावसायि, संवृतिसतो द्रव्यादेर्ज्ञानम्,
अनुमानं लिङ्गज्ञानम्, आनुमानिकं लिङ्गिज्ञानम्, स्मार्तं स्मृतिः, आभिलापिकं
चेति विकल्पप्रभेद आचार्यदिङ्नागेनोक्तः ? इत्याह-द्वे सांवृतारोपितयोः
कल्पनाज्ञानेऽनक्षजत्वस्यानिन्द्रियत्वस्य सिद्ध्यर्थं भेदेनोक्ते । परेषां तयोर-
क्षजत्वभ्रान्तिदर्शनाद्-घटोऽयं द्वौ कम्पत इत्यादि, जलमिदमिति च व्यवसाया-
त्मकमिन्द्रियप्रत्यक्षमेव प्रतिपद्यत इति परो मन्यते, तन्निरासार्थं द्वयोरुपादानम् ।
अनिन्द्रियत्वेन स्मृतिबलभावित्वेन सिद्धं च तदनुमादि च तस्य वचनं
पूर्वयोः सांवृतारोपितकल्पनयोरेवानक्षजत्वसाधनाय । तथा हि-यत् पूर्वानुभूत-
समयस्मृतिभावि न तत् प्रत्यक्षम्, यथा अनुमानादि; अनुभूतसमयस्मृतिसापेक्षा
चावयविजलादिकल्पना इति विरुद्धोपलब्धिरुक्ता ॥ २८९ ॥
ननु सांवृतारोपितकल्पनायाः कथं प्रत्यक्षताशङ्का ? इत्याह-बहूनां रूपा-
१. “भ्रान्तिसंवृतिसत् ज्ञानमनुमानानुमानिकम् ।
स्मार्त्ताभिलापिकं चेति प्रत्यक्षाभं सतिमिरम्” ॥ (प्र० समु० १. ८)
इति कारिकां व्याख्यातुमारभते आचार्यः ।
प्रत्यक्षपरिच्छेदः १८७
न प्रत्यक्षानुवृत्तित्वात् कदाचिद् भ्रान्तिकारणम् ॥ २९० ॥
यथैवेयं परोक्षार्थकल्पना स्मरणात्मिका ।
समयापेक्षिणी नार्थं प्रत्यक्षमध्यवस्यति ॥ २९१ ॥
तथानुभूतस्मरणमन्तरेण घटादिषु ।
न प्रत्ययोऽनुयँस्तच्च प्रत्यक्षात् परिहीयते ॥ २९२ ॥
अपवादश्चतुर्थोऽत्र तेनोक्तमुपघातजम् ।
केवलं तत्र तिमिरमुपघातोपलक्षणम् ॥ २९३ ॥
दीनामेकार्थकारित्वख्यापनार्थं घट इत्यादिशब्दनिवेशः स संशयो हेतुर्यस्याः सा
संकेतसंश्रया कल्पना दृश्यमानामरीचिनिचयादेरन्यस्य जलादेरारोपितस्य
कल्पना, अन्यार्थकल्पना; ते एते कल्पने प्रत्यक्षानन्तरभावित्वेन प्रत्यक्षा-
नुवृत्तित्वादात्मन्यपि कदाचिद्विमर्शकानां प्रत्यक्षता भ्रान्तिकारणं
भवतः ॥ २९० ॥
अतो यथैवेयमनुमानानुमानिकादिपरोक्षार्थकल्पना पूर्वं गृहीतसमया-
पेक्षिणी सती स्मरणादिरूपा प्रत्यक्षं प्रत्यक्षविषयमर्थं नाऽध्यवस्यति,
किन्तु कल्पितमेव गृह्णाति ॥ २९१ ॥
तथा संकेतकाले व्यवहारलाघवार्थं कल्पितस्य द्रव्यादेरनुमानभूतस्य
पश्चात् स्मरणमन्तरेण घटादिषु 'घटोऽयम्' इत्याद्येकवस्त्ववसायी प्रत्ययो न
भवति । तच्च संकेतितमारोपितं चार्थमनुयन् घटोऽयं जलमिति च प्रत्ययः
प्रत्यक्षात् प्रत्यक्षत्वात् परिहीयते; तस्य वस्तुविषयत्वात् संकेतापेक्षस्य च
विपर्ययात् ॥ २९२ ॥
'सतैमिरम्' इति चतुर्थो हेत्वाभासः कल्पनारहितवेनातिप्रसक्तायाः
प्रत्यक्षताया अपवादः । अभ्रान्तत्वस्य लक्षणैकदेशत्वोपलक्षणत्वं च, न तु
कल्पनापोढत्वनिराकृतस्योदाहरणमिदम् । केवलं सतैमिरमित्यत्र तिमिरं
सबाह्योपघातस्य ज्ञानविकृतिहेतोरुपलक्षणम् । तेनान्येन्द्रियविकारजमिन्द्रियजं
च निर्विकल्पं प्रत्यक्षाभासं सिध्यति ॥ २९३ ॥
१८८ प्रमाणवार्त्तिके
मानसं तदपीत्येके तेषां ग्रन्थो विरुध्यते ।
नीलद्विचन्द्रादिधियां हेतुरक्षाण्यपीत्ययम् ॥ २९४ ॥
पारम्पर्येण हेतुश्चेदिन्द्रियज्ञानगोचरे ।
विचार्यमाणे प्रस्तावो मानसस्येह कीदृशः ! । २९५ ॥
किं वैन्द्रियं यदक्षाणां भावाभावानुरोधि चेत् ।
तत् तुल्यं विक्रियावच्चेत् सैवेयं किं निषिध्यते ! ॥ २९६ ॥
सर्पादिभ्रान्तिवच्चास्याः स्यादक्षविकृतावपि ।
तद् द्विचन्द्रादिज्ञानमपि मानसं मनोभ्रम इत्येके१ आचार्याः ।
तेषामेवंवादिनां नीलद्विचन्द्रादिधियामक्षाण्यपि हेतुरित्येतदर्थवाचको ग्रन्थो
विरुध्यते । ग्रन्थः पुनरयम्—“यावच्चक्षुरादीनामप्यालम्बनत्वप्रसङ्गः । तेऽपि हि
परमार्थतोऽन्यथा विद्यमाना नीलाद्याभासस्य द्विचन्द्राद्याभासस्य च ज्ञानस्य
कारणीभवन्ति” ( ) इति ॥ २९४ ॥
स्यादेतत् । मानसस्य प्रत्यक्षस्येन्द्रियं पारम्पर्येण हेतुः, तेन विरोधा-
भावश्चेत् ? वादविधिप्रकरणे इन्द्रियज्ञानस्य प्रत्यक्षस्य गोचरे विचार्यमाणे
मानसस्य विकल्पस्य इहावसरे कीदृशः प्रस्तावः, येन परम्परया तद्धेतु-
रिन्द्रियमुच्यते ! ॥ २९५ ॥
तिमिरज्ञानं भ्रममनिच्छतोऽपि किं कीदृशमैन्द्रियज्ञानमिष्यते, यद-
क्षाणां भावाभावयोरनुरोधि स्वभावाभावाभ्यामनुवर्तकं२ तदैन्द्रियमिति चेत् ?
तत् इन्द्रियभावाभावानुरोधित्वं तैमिरिकज्ञानस्यापि तुल्यम् । न हीन्द्रियव्यापार-
मन्तरेण तैमिरिकज्ञानमुत्पद्यते । इन्द्रियविकारेण विक्रियावत् ज्ञानमैन्द्रियं चेत् ?
द्विचन्द्रादिज्ञानानां तिमिरादीन्द्रियविकारेण विक्रिया, सैवेयमभूतार्थोपदर्शना-
त्मिका भ्रान्तत्वनिमित्तमुक्ताऽस्माभिः किं निषिध्यते ॥ २९६ ॥
यदि च द्विचन्द्रादिधीर्मानसी भ्रान्तिः, तदा सर्पोचितदेशे मन्दमन्दालोके
रज्ज्वादौ संस्थानसाम्यग्रहात् उत्पन्नायाः सर्पादिभ्रान्तेरिव मरीचिषु जल-
भ्रान्तेरिव यथा प्रत्यक्षं विचारात्, अस्या द्विचन्द्रभ्रान्तेरक्षविकृतावपि सा
१. कणादादय इत्यर्थः । २. स्वभावाभ्यामनु०—रा० ।
प्रत्यक्षपरिच्छेदः १८९
निवृत्तिर्न निवर्त्तेत निवृत्तेऽप्यक्षविप्लवे ॥ २९७ ॥
कदाचिदन्यसन्ताने तथैवार्प्येत वाचकैः ।
दृष्टस्मृतिमपेक्षेत न भासेत परिस्फुटम् ॥ २९८ ॥
सुप्तस्य जाग्रतो वापि यैव धीः स्फुटभासिनी ।
सा निर्विकल्पोभयथाप्यन्यथैव विकल्पिका ॥ २९९ ॥
तस्मात् तस्याविकल्पेऽपि प्रामाण्यं प्रतिषिध्यते ।
विसंवादात् तदर्थं च प्रत्यक्षाभं द्विधोदितम् ॥ ३०० ॥
निवृत्तिः स्यात्; अक्षविप्लवो हि न तस्या हेतुः, ततश्च सत्यपि तस्मिन्
विमर्शात्निवर्त्तते सर्पबुद्धिरिव । तथा हि—अक्षविप्लवेऽपि तिमिरादौ निवृत्तेऽपि
तत्त्वमविचारयतो न निवर्त्तते तद्द्विचन्द्रबुद्धिः; अक्षविप्लवस्य तत्कारणत्वाभावात्,
अकारणनिवृत्तौ च निवृत्त्ययोगात् ॥ २९७ ॥
किञ्च—यथानुभवं समदेशकालस्यान्यस्य चित्तसन्ताने यथा 'अहिरहिः'
इत्युपदर्शनेन सर्पभ्रान्तिरर्प्यते, तथा द्विचन्द्रादिभ्रान्तिरपि तस्या वाचकैः
शब्दैरर्प्येत; सामग्रीतुल्यत्वात्, तिमिरस्य चाहेतुकत्वात् । अपि च—यथा
मरीचिषु तरङ्गजलसमासु पूर्वदृष्टजलस्मरणसापेक्षा जलभ्रान्तिः, तत्र द्विचन्द्रा-
दिभ्रान्तिरपि मानसीत्वात् दृष्टचन्द्रद्वयस्मृतिमपेक्षेत । न चेयं स्मरणसापेक्षा;
चक्षुर्विस्फारणमात्रेण स्फुरणात् । तथा मानसीत्वात् परिस्फुटं सुव्यक्तग्राह्याकारा
न भासेत, जलादिभ्रान्तिरिव ॥ २९८ ॥
तस्मात् सुप्तस्य जाग्रतोऽपि वा यैव धीः स्फुटावभासिनी व्यक्त-
ग्राह्याकारा, सा निर्विकल्पाऽभ्युपगन्तव्या । अन्यथैव ह्यस्फुटावभासिनी धीरु-
भयथा सुप्तस्य जाग्रतोऽपि वा कल्पिका युक्ता ॥ २९९ ॥
यत एवम्, तस्मात् 'कल्पनापोढम्' इत्युक्ते तिमिरज्ञानस्याविकल्पे निर्वि-
कल्पत्वेऽपि सति प्रामाण्यं प्रत्यक्षात्मकं प्राप्तं 'सतैमिरम्' इत्यपवादेन विसंवादात्
प्रतिषिध्यते; संवादलक्षणत्वात् प्रामाण्यस्य । तदर्थमुपप्लुतज्ञाननिवृत्त्यर्थं चाचार्य-
दिङ्नागेन प्रत्यक्षाभं संक्षेपतो द्विधोक्तम्—सविकल्पमविकल्पञ्च ॥ ३०० ॥
उक्तं प्रत्यक्षाभम् ॥
१९० प्रमाणवार्त्तिके
प्रमाणफलविचारः
क्रियासाधनमित्येव सर्वं सर्वस्य कर्मणः।
साधनं न हि तत् तस्य साधनं या क्रिया यतः ॥ ३०१ ॥
तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः।
भाव्यं तेनात्मना येन प्रतिकर्म विभज्यते ॥ ३०२ ॥
अनात्मभूतो भेदोऽस्य विद्यमानोऽपि हेतुषु।
भिन्ने कर्मण्यभिन्नस्य न भेदेन नियामकः ॥ ३०३ ॥
तस्माद् यतोऽस्यात्मभेदादस्याधिगतिरित्ययम् ।
प्रमाणफलव्यवस्थां कर्तुमाह—क्रियायाः साधनं हेतुरित्येव न हि सर्वं
कारणं सर्वस्य कर्मणः क्रियायाः साधनं करणम्, किं तर्हि ? तद्वस्तु
तस्य कर्मणः साधनं करणम् । या क्रिया यतः पदार्थादव्यवधानेन
भवति स तस्याः कारणमुच्यते, ततश्चेन्द्रियादेः प्रमितिं प्रत्यव्यवहितसाधकत्वा-
भावान्न प्रमाणम् ॥ ३०१ ॥
किं तर्हि प्रमाणमस्ति ? इत्याह— तत्र रूपादौ कर्मणि ज्ञानस्यानुभव-
मात्रेणानुभवात्मनो सदृशात्मनस्तुल्यरूपस्य तेनात्मना स्वरूपेण प्रतिविषयं
व्यतिरेकिणा भाव्यम्, येन प्रतिकर्म प्रतिविषयज्ञानं विभज्यते—नीलस्येदम्,
पीतस्येदमिति । अन्यथानुभवमात्रतया सर्वत्र विषये सदृशं ज्ञानं प्रतिविषयं कथं
भेदेन व्यवस्थापयितुं शक्येत ! ॥ ३०२ ॥
स्यादेतद् । इन्द्रियादेर्हेतोः सव्यापारतादिलक्षणो विशेषो ज्ञानानां भेदेन
नियामकमित्याह — हेतुष्विन्द्रियादिषु भेदो विशेषः सव्यापारतादिलक्षणो विद्यमा-
नोऽप्यस्य ज्ञानस्यानुभवमात्रात्मतयाऽभिन्नस्य भिन्ने कर्मणि नीलादौ
ग्राह्ये भेदेन नियामको न युक्तः । कस्माद् ? इत्याह—अनात्मभूतः ।
ज्ञानास्वरूपत्वाद्विन्द्रियस्य विशेषः प्रतिकर्म न भेत्तुमर्हति ॥ ३०३ ॥
तस्मादस्य ज्ञानस्यात्मभेदात् यतोऽस्यार्थस्येयमधिगतिरिति क्रियाया
प्रत्यक्षपरिच्छेदः १९१
क्रियायाः कर्मनियमः सिद्धा सा तत्प्रसाधना ॥ ३०४ ॥
अर्थेन घटयत्येनां न हि मुक्त्वाऽर्थरूपताम् ।
अन्यः स्वभेदाज्ज्ञानस्य भेदकोऽपि कथञ्चन ॥ ३०५ ॥
तस्मात् प्रमेयाधिगतेः साधनं मेयरूपता ।
साधनेऽन्यत्र तत्कार्यसम्बन्धो न प्रसिध्यति ॥ ३०६ ॥
अधिगतेः कर्मणि वेद्ये नियमः । सा क्रिया तत्प्रसाधना तत्करणाऽभ्युप-
गन्तव्या ॥ ३०४ ॥
स्यादेतद् । इन्द्रियादिरेव स्वभेदाद् भेदको ज्ञानस्य प्रतिविषयमधिगतेर्निया-
मकः, ततश्चानुभवात्मकत्वाद्विषय एवासिद्धः ? इत्याह—एनामधिगतिमर्थरूप-
तामर्थसरूपतां मुक्त्वा न ह्यन्यः कश्चिन्द्रियादिः स्वभेदात् कथञ्चन केनापि
प्रकारेण ज्ञानस्य भेदकोऽप्यर्थेन ज्ञेयेन घटयति योजयति—नीलस्येयमधिगतिः,
पीतस्य चेयमित्यादि । तथा हि—यद्यपि प्रत्यर्थं प्रतीन्द्रियञ्च ज्ञानानामस्ति भेदः,
तथापि विषयसारूप्याभावे स एव विशेषोऽशक्यनिर्देशः । अथ विशेषोऽप्य-
धिगतेरेव व्यवस्थाप्यत इति चेत् ? ननु तस्या एव व्यवस्थापकमिष्यते । न
चान्यस्थिते व्यवस्थापके व्यवस्थाप्यसिद्धिः ।
ननु न सर्वत्र परशुव्यापारदृष्टिपूर्विकाच्छिदासिद्धिः, छिदादर्शनादपि परशु-
व्यापारव्यवस्थितेः; एवमिहाप्यधिगतिपूर्विकायां प्रमाणस्थितौ न दोषः ? अस-
मानमेतत्; तथा हि—परशुच्छिदयोः कार्यकारणभावविशेषः क्रियाकरणभावः,
अधिगतेर्ज्ञानात्मभूतविशेषयोस्तु व्यवस्थाप्यव्यवस्थापकभाव एषितव्यः; उभयो-
रपि ज्ञानस्वरूपात्मकत्वात् । तत्र कारणमज्ञातमपि स्वकार्यं निर्वर्तयतीति कार्य-
दर्शनाच्च तद्व्यवस्था युक्तैव । व्यवस्थापकस्तु नानुपलक्षितो व्यवस्थाप्य व्यवस्थायां
क्षमते । न ह्यप्रतीतं कल्प्यमानमाश्वस्त्यं व्यवस्थापयति ॥ ३०५ ॥
तस्मात् प्रमेयाधिगतेः फलभूतायाः व्यवस्थाप्यायाः साधनं प्रमाणं
मेयरूपता । अथ न सारूप्यम्, तस्य प्रतिविषयं भिन्नस्य सूपलक्षणत्वात् ।
सारूप्यात् पुनरन्यत्र साधने तस्याः क्रियायाः कर्मसम्बन्धः—नीलस्येयमधिगतिः,
पीतस्य चेत्यादि न सिध्यति; इन्द्रियाधिगतिविशेषस्य सम्भवेऽप्यनुभवमात्रा-
१९२ प्रमाणवार्त्तिके
सा च तस्यात्मभूतैव तेन नार्थान्तरं फलम् ।
दधानं तच्च तामात्मन्यर्थाधिगमनात्मना ॥ ३०७ ॥
सव्यापारमिवाभाति व्यापारेण स्वकर्मणि ।
तद्वशात् तद्वयवस्थानादकारकमपि स्वयम् ॥ ३०८ ॥
यथा फलस्य हेतूनां सदृशात्मतयोद्भवात् ।
हेतुरूपग्रहो लोकेऽक्रियावत्त्वेऽपि कथ्यते ॥ ३०९ ॥
आलोचनाक्षसम्बन्धविशेषणधियामतः ।
नेष्टं प्रामाण्यमेतेषां व्यवधानात् क्रियां प्रति ॥ ३१० ॥
त्मकज्ञानस्याविशेषकत्वायोगात् । ज्ञानगतस्यापरिविशेषस्य लक्षणभेदेनानुप-
लक्षणात् ॥ ३०६ ॥
सा चाधिगतिरनुभवस्वभावा तस्य¹ ज्ञानस्यात्मभूतैव । तेन प्रमाणा-
न्नार्थान्तरं फलम् । प्रमेयमेव फलमित्यर्थः ।
ग्राह्यग्राहकभावोऽपि भाक्त एवेति दर्शयितुमाह—तच्च ज्ञानमात्मनि ताम-
र्थसरूपतां दधानं बिभ्रद् अर्थस्याधिगमनात्मनाऽधिगमलक्षणेन व्यापारेण
सव्यापारमिव स्वकर्मणि ग्राह्ये आभाति । व्यापारमपि वस्तुतोऽकारकमपि
स्वयं तद्वशान्मेयसारूप्यवशात् तस्याधिगमस्य व्यवस्थानात् ॥ ३०७–३०८ ॥
यथा लोकेऽपि हेतूनां सदृशात्मतया सदृशरूपतयोद्भवात् । फल-
स्याक्रियावत्त्वेऽपि हेतुरूपग्रहणव्यापाराभावेऽपि हेतुरूपग्रहः कथ्यते—
पितू रूपं गृहीतं सुतेनेत्यादि । अतोऽर्थरूपतां मुक्त्वाऽधिगतिसाधनमन्यद्-
युक्तम् ॥ ३०९ ॥
अत आलोचनस्यार्थालोचनमात्रस्य जात्यादिविशिष्टनिश्चयफलं प्रति, अक्ष-
सम्बन्धस्य इन्द्रियार्थसन्निकर्षस्यालोचनफलं प्रति विशेषणस्य, वेद्यविशेष्यबुद्धि-
फलं प्रति प्रामाण्यं साधनत्वं नेष्टम् ; एतेषामालोचनार्थसम्बन्धविशेषणज्ञानानां
क्रियायामधिगतिविषयसारूप्येण व्यवधानात् ॥ ३१० ॥
१. रा० पुस्तके नास्ति ।
प्रत्यक्षपरिच्छेदः १९३
सर्वेषामुपयोगेऽपि कारकाणां क्रियां प्रति ।
यदन्त्यं भेदकं तस्यास्तत् साधकतमं मतम् ॥ ३११ ॥
सर्वसामान्यहेतुत्वादक्षाणामस्ति नेदृशम् ।
तद्भेदेऽपि ह्यतद्रूपस्यास्येदमिति तत् कुतः ! ॥ ३१२ ॥
एतेन शेषं व्याख्यातं विशेषणधियां पुनः ।
अताद्रूप्ये न भेदोऽपि तद्वदन्यधियोऽपि वा ॥ ३१३ ॥
नेष्टो विषयभेदोऽपि क्रियासाधनयोर्द्वयोः ।
व्यवस्थानेऽपि साधकतमत्वं स्यादिति चेत् ? आह—सर्वेषां कारकाणां
साक्षात् पारम्पर्येण क्रियां प्रत्युपयोगेऽपि तेषु मध्ये यत् कारकमन्त्यं कार-
कान्तरेणाव्यवहितव्यापारं सत् क्रियाभेदकं तत् तस्याः साधकतमं मतम्,
नान्यत् ॥ ३११ ॥
तथा हि—अक्षाणां तावदीदृशं साधकतमत्वं नास्ति; सर्वसामान्य-
हेतुत्वात् सर्वज्ञानसाधारणहेतुत्वात्, अवान्तराधिगतिभेदकत्वानुपपत्तेः । तेषा-
मिन्द्रियाणां प्रसादाविलत्वादिभेदेऽपि ज्ञानस्यातद्रूपस्य विषयसारूप्यरहितस्य
इदमस्य ग्राहकमिति ग्राहकत्वं यदिष्यते तत् कुतः ॥ ३१२ ॥
एतेनाक्षाणामसाधनत्वदर्शनेन शेषमालोचनार्थसम्बन्धादि व्याख्यातम् ।
तदप्यर्थसारूप्यरहितमसाधनम्, सारूप्ये च स्वीकर्तव्ये तदेवाव्यवहितत्वात् साध-
नमस्तु । विशेषणधियां पुनरयमधिको दोषः । अताद्रूप्ये विशेषणसारूप्याभावे
विशेष्यधियः सकाशाद् भेदोऽपि न स्यात्; द्वयोरप्याकाररहितत्वेन भेदस्थित्य-
नुपपत्तेः । ततश्चैका प्रमाणम्, अन्या च फलमिति कुतः ! अथ सारूप्यं विशेषण-
धियो भेदकमिष्यते, एवं च सति तदेव प्रमाणं फलं च स्यात्; अर्थसरू-
पत्त्वादधिगतिरूपत्वाच्च । तद्वद् विशेषणबुद्धेरिव अन्यबुद्धेर्विषयसारूप्यम्,
फलात्मकं वेष्यताम् ॥ ३१३ ॥
किञ्च—क्रियासाधनयोर्विषयभेदोऽपि नेष्टः सर्वस्य । न ह्यन्यत्र
परशुव्यापारः, छिदा चान्यत्र । इह तु विशेषणे प्रमाणव्यापारः, क्रिया च विशेष्ये
इति भिन्नविषयता कथमिष्टा !
प्र० वा० : १३
१९४ प्रमाणवार्त्तिके
एकार्थत्वे द्वयं व्यर्थं न च स्यात् क्रमभाविता ॥ ३१४ ॥
साध्यसाधनताभावः सकृद्भावे;
धियोऽंशयोः ।
तद्व्यवस्थाश्रयत्वेन साध्यसाधनसंस्थितिः ॥ ३१५ ॥
सर्वात्मनापि सम्बद्धं कैश्चिदेवावगम्यते ।
धर्मैः स नियमो न स्यात् सम्बन्धस्याविशेषतः ॥ ३१६ ॥
तद्भेदेऽपि भेदोऽयं यस्मात् तस्य प्रमाणता ।
अथैतद्दोषतया द्वयोः क्रियासाधनयोः क्रमभाविनोरेकार्थत्वे एकविषयत्वे
च स्वीक्रियमाणे द्वयं भिन्नं प्रमाणं फलं च व्यर्थम्, विशेषणज्ञानं प्रमाणं फलं
चास्तु; विषयस्वरूपत्वादधिगमस्वभावाच्च । ततः परं तु विशेष्यज्ञानमधिगताधि-
गन्तृत्वादनुपयुक्तम् । न चैकविषययोर्ज्ञानयोः क्रमभावितास्ति; विषयस्य
तज्जननशक्तस्य क्रमेण स्वकार्यजननविरोधात् ॥ ३१४ ॥
सकृदुत्पत्तावेव विशेषणविशेष्यधियोः प्रमाणफलता भविष्यतीति चेत् ?
आह—सकृद् भावे साध्यसाधनतायाः अभावः; कार्यकारणभावविशेषत्वेन
तस्या इष्टत्वात् ।
नन्वेवमाकाराधिगमयोरेकज्ञानात्मत्वेऽपि प्रमाणफलतानुपपन्ना ? इत्याह—
धियोऽंशयोराकाराधिगमलक्षणयोः साध्यसाधनसंस्थितिः क्रियाकरणव्यवस्था;
तद्व्यवस्थाश्रयत्वेनाकारवशेनाधिगतिविशेषव्यवस्थानात् । नास्त्यत्र कार्यकार-
णात्मकः क्रियाकरणभावः, किन्तु व्यवस्थाप्यव्यवस्थापकभावः । स च तादात्म्ये-
ऽप्यविरुद्धः ॥ ३१५ ॥
अर्थसन्निकर्षोऽपि न प्रमाणम् ? इत्याह—बाह्यं सर्वात्मना सर्वैराकारैरि-
न्द्रियादिभिः सम्बद्धमपि कैश्चिदेव धर्मैर्नीलत्वादिभिर्गम्यते, न त्वणुपुञ्जत्वा-
दिभिः । स एष ग्रहणस्य नियमो न स्यात् । सम्बन्धस्यापि गतिस्थिति-
हेतोरविशेषतः ॥ ३१६ ॥
यस्मादिन्द्रियसन्निकर्षादेः प्रामाण्यमयुक्तम्, तत् तस्माद्भेदेऽपि सन्निकर्षा-
' ? Yes: "चेत् ? असदेतत् ;" (space before semicolon too).
Line 14:
"कल्पितस्याभ्युपगमात् । अनाकारव्यावृत्तिः प्रमाणम्, अनधिगतव्यावृत्तिश्च"
Comma after प्रमाणम्: "प्रमाणम्,".
Line 15:
"फलमिति नानयोरैक्यम् ।"
All clear.
Line 16:
"कथं तर्ह्युक्तम्— “सा च तस्यात्मभूतैव तेन नार्थान्तरं फलम्” ( प्र०"
Opening quote: '“' or ' " '? It is a double quote: “सा च... फलम्”.
Then opening parenthesis: '( प्र०'.
Line 17:
"वा० २. ३०७ ) इति ? आह—परमार्थतो ज्ञानात्मकं वस्त्वभिन्नमितीष्यते,"
Wait, "वा० २. ३०७ ) इति ? आह—"
Space before ')'? Yes, "३०७ )".
Space before '?'? Yes, "इति ?".
Dash after आह: "आह—".
Comma after इष्यते: "इष्यते,".
Line 18:
"न तु कल्पितधर्मद्वारेणापि ॥ ३१८ ॥"
All clear.
Line 19:
"किं पुनस्तत्त्वत एव साधनाद् भिन्नाधिगतिश्छिदादिवन्नेष्यते ? इत्याह—"
Space
१९६ प्रमाणवार्त्तिके
विज्ञप्तिमात्रताविचारः
अर्थसंवेदनम्
कार्थसंविद् ?
यदेवेदं प्रत्यक्षं प्रतिवेदनम् ।
तदर्थवेदनं केन ताद्रूप्याद् व्यभिचारि तत् ॥ ३२० ॥
अथ सोऽनुभवः कस्य ?
तदेवेदं विचार्यते ।
सरूपयन्ति तत् केन स्थूलाभासं च तेऽणवः ॥ ३२१ ॥
गमाकारयोस्तु व्यवस्थाप्यव्यवस्थापकभावः क्रियाकरणभावः, यथा— यः कम्पते
सोऽश्व इति ॥ ३१९ ॥ उक्ता प्रमाणफलव्यवस्था ॥
इदानीं योगाचारो वेद्यवेदकभावमपश्यन् सौत्रान्तिकं पृच्छति—
काऽर्थस्य संवित् ज्ञानमुच्यते ?
अत आह— यदेवेदं प्रत्यक्षमनुभवसिद्धं प्रतिवेदनं नीलाद्याकारेण प्रति-
नियतं वेदनम्, प्रतिसन्ताननियतं वा, सैवार्थसंविदुच्यते ।
ननु तत् प्रतिनियतं वेदनमनुभूयमानमर्थस्य वेदनं केन हेतुनोच्यते,
स्वप्रकाशात्मकत्वात् स्ववेदनमेव तद्युक्तम्, नार्थवेदनम् ; तस्य सर्वदा परोक्षत्वात् ।
ताद्रूप्यादर्थसरूपत्वात् ज्ञानमर्थवेदनमिति चेत् ? तदर्थसारूप्यव्यभिचारि;
द्विचन्द्रकेशोण्डुकज्ञानाद्याकारस्यार्थमन्तरेणापि भावात् ॥ ३२० ॥
अथानुभाव्याभावे सोऽनुभवः प्रत्यात्मवेद्योऽस्य ज्ञानस्य न कर्मणि
व्यवस्थापनीयः, न हि कर्मरहिता क्रिया क्वचिदस्ति ?
अत्राह—यदुच्यते व्यवहर्तृभिः ‘इदमनेनानुभूयते’ इति, तदेवेदमस्माभि-
र्विचार्यते ।
ज्ञानं स्वप्रकाशमुपलभ्यते प्रकाशश्चोच्यत इत्ययुक्तम् । यच्चार्थसारूप्य-
मनुभवनिबन्धनमुक्तं तदप्यसम्भवीति दर्शयन्नाह—ते परस्परं भिन्ना अणवः
तज्ज्ञानं स्थूलाभासं स्थूलाकारं केन रूपेण सरूपयन्ति ! यदणुस्वरूपम-
स्थूलमस्ति न तत् ज्ञानारूढम्, यच्च ज्ञानारूढं स्थौल्यं नाणुषु तदस्ति ॥३२१॥
प्रत्यक्षपरिच्छेदः १९७
तन्नार्थरूपता तस्य सत्यार्थाव्यभिचारिणी ।
तत्संवेदनभावस्य न समर्था प्रसाधने ॥ ३२२ ॥
तत्सारूप्यतदुत्पत्ती यदि संवेद्यलक्षणम् ।
संवेद्यं स्यात् समानार्थं विज्ञानं समनन्तरम् ॥ ३२३ ॥
'इदं दृष्टं श्रुतं वेद्म' इति यत्रावसायधीः ।
न तस्यानुभवः ?
सैव प्रत्यासत्तिर्विचार्यते ॥ ३२४ ॥
दृश्यदर्शनयोर्येन तस्य तद् दर्शनं मतम् ।
तयोः सम्बन्धमाश्रित्य द्रष्टुरेष विनिश्चयः ॥ ३२५ ॥
तस्मात् तुल्यज्ञानस्य नार्थरूपताऽस्ति । सत्यां वार्थरूपतायां व्यभि-
चारिणी सा द्विचन्द्रज्ञानादिषु । ततश्च तत्संवेदनभावस्यार्थसंवेदनत्वस्य
प्रसाधनेषु साऽर्थरूपता न समर्था । न केवलमर्थसारूप्यादर्थसंवेदनत्वम्, येन
व्यभिचारः स्यात्, किं तर्हि ? सारूप्यतदुत्पत्तिभ्याम् । ते च द्विचन्द्रज्ञानादीनां
न स्तः; चन्द्रद्वयस्याभावात् तदुत्पत्तेरयोगात् ॥ ३२२ ॥
एतदेवाह—तेन ग्राह्येण सारूप्यम्, तस्मादुत्पत्तिः' स्वसंवेद्यस्य
लक्षणं यदि सम्मतम्, तदापि समनन्तरं ज्ञानमुत्तरज्ञानेन समानार्थं
समानग्राह्यं संवेद्यं स्यात्; तत्सरूपतदुत्पत्त्योः सम्भवात् ॥ ३२३ ॥
स्यादेतत् । सारूप्यतदुत्पत्तिमत्त्वेऽपि 'इदं दृष्टं श्रुतं वेद्म' इति यत्रा-
वसायधीरुपद्यते तस्य सोऽनुभवः, नान्यस्य । न च समनन्तरप्रत्यये दृष्ट-
श्रुताद्यवसायो भवति तन्न ग्राह्योऽसौ ?
अत्राह—दृश्यदर्शनयोः सैव प्रत्यासत्तिर्विचार्यतेऽस्माभिः ॥ ३२४ ॥
येन प्रत्यासत्तिसम्भवेन तस्य बाह्यस्य तज्ज्ञानं दर्शनं मतम्, तयोर्दृ-
श्यदर्शनयोः सम्बन्धं प्रत्यासत्तिमाश्रित्य द्रष्टुः पुरुषस्य 'इदं दृष्टं श्रुतं
वेद्म' इत्यर्थनिश्चयः । तत्सारूप्यतदुत्पत्तिलक्षणा च प्रत्यासत्तिः समनन्तरप्रत्यये-
ऽपि समानेति तन्निबन्धनो दृष्टश्रुताद्यवसायोऽपि तत्र स्यादित्यर्थः ॥ ३२५ ॥
१९८ प्रमाणवार्त्तिके
आत्मा स तस्यानुभवः स च नान्यस्य कस्यचित् ।
प्रत्यक्षप्रतिवेद्यत्वमपि तस्य तदात्मता ॥ ३२६ ॥
नान्योऽनुभाव्यस्तेनास्ति तस्य नानुभवोऽपरः ।
तस्यापि तुल्यचोद्यत्वात् स्वयं सैव प्रकाशते ॥ ३२७ ॥
नीलादिरूपस्तस्यासौ स्वभावोऽनुभवश्च सः ।
नीलाद्यनुभवात् ख्यातः स्वरूपानुभवोऽपि सन् ॥ ३२८ ॥
प्रकाशमानस्तादात्म्यात् स्वरूपस्य प्रकाशकः ।
यथा प्रकाशोऽभिमतस्तथा धीरात्मवेदिनी ॥ ३२९ ॥
तस्याश्चार्थान्तरे वेद्ये दुर्घटौ वेद्यवेदकौ ।
अवेद्यवेदकाकारा; यथा भ्रान्तिर्निरीक्ष्यते ॥ ३३० ॥
तस्माद् वेद्यरहितस्तस्य ज्ञानस्य स नीलादिरूप आत्मा अनुभवः । स
चानुभवो नान्यस्य कस्यचिद् बाह्यस्य । तस्य ज्ञानस्य प्रत्यक्षप्रतिवेद्यत्व-
मपि यदुच्यते, सा तदात्मताऽपरोक्षानुभवात्मता ॥ ३२६ ॥
यथा च स्वरूपादन्यो बुद्ध्या अनुभाव्यो नास्ति, तथा तस्य ज्ञानस्य
चापरोऽनुभवो नास्ति; तस्य ज्ञानग्रहणस्यापि तुल्यार्थचोद्यत्वात् । स
ह्यन्यत्वनिबन्धनो ग्राह्यग्राहकभावः । तच्चानुपपन्नमित्युक्तम् । तत् तस्मात् तज्ज्ञानम-
परोक्षतयोत्पन्नं स्वयं प्रकाशते; नान्येन प्रकाश्यते ॥ ३२७ ॥
कथं तर्हि नीलाद्यनुभवप्रसिद्धिः ? इत्याह—तस्य ज्ञानस्य नीलादि-
रूपोऽसौ स्वभावोऽनुभवः, प्रकाशात्मकश्च सः । तेन स्वरूपानुभवोऽपि
सन्नीलाद्यनुभवात् तथा सम्प्रसिद्धिः ॥ ३२८ ॥
यथा प्रकाशस्तादात्म्यात् प्रकाशात्मकत्वात् परनिरपेक्षः प्रकाशमानः
स्वरूपस्य प्रकाशकोऽभिमतः, तथा धीः परनिरपेक्षा प्रकाशात्मनोत्पन्ना
प्रकाशमाना आत्मवेदिनीति उपचारादुच्यते ॥ ३२९ ॥
चकारो हेतौ । यस्मात् तस्या धियोऽर्थान्तरे वेद्ये वेद्यवेदकाकारौ
दुर्घटौ; तस्माद् वस्तुतोऽवेद्यवेदकाकारा सा बुद्धिर्नीलप्रकाशात्मनोत्पन्ना तथा
प्रकाशते । न तु तत्र कश्चिद् ग्राह्यस्य ग्राहकस्य चाकारः समस्ति ।
प्रत्यक्षपरिच्छेदः १९९
विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा ।
तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत् ॥ ३३१ ॥
यदा तदा न सच्चोद्यग्राह्यग्राहकलक्षणा ।
तदान्यसंविदोऽभावात् स्वसंवित् फलमिष्यते ॥ ३३२ ॥
यदि बाह्योऽनुभूयेत को दोषो नैव कश्चन ।
इदमेव किमुक्तं स्यात् स बाह्योऽर्थोऽनुभूयते ॥ ३३३ ॥
यदि बुद्धिस्तदाकारा सास्त्याकारविशेषिणी ।
सा बाह्यादन्यतो वेति विचारमिदमर्हति ॥ ३३४ ॥
कथं तर्हि ग्राह्यग्राहकप्रतिभासव्यवसायौ ? इत्याह—आन्तरैरप्रहीणद्वय-
वासनाविप्लवैर्यथा विभक्तलक्षणौ ग्राह्यग्राहकाकारावेव विप्लवौ यस्याः
सा तादृशी निरीक्ष्यते विभाव्यते आन्तर्दर्शनानुरोधेन, तथा ग्राह्यग्राहकभेदेन
कृतव्यवस्था स नीलादिबहिर्देशं ग्राह्यम्, आन्तरञ्च संवेदनं ग्राहकमिति विप्लव
एषः; केशादिज्ञानभेदवत् । न हि केशोण्डुकज्ञानविशेषस्य ग्राहकवद् ग्राह्यः
केशावयवोऽस्ति, किं तर्हि ? केशाभासः प्रकाश एव केवलः ॥३३०-३३१॥
विप्लववशाच्च ग्राह्यग्राहकभेदेन बुद्धिर्यदा व्यवस्थाप्यते, तदा न सच्चोद्य-
ग्राह्यग्राहकलक्षणा सा । न हि वस्तुतो ग्राह्यग्राहकभावः सम्भवति । न च
विप्लववशाद् वस्तुव्यवस्था; केशद्विचन्द्रादेरपि तत्त्वप्रसङ्गात् । यदा च न ग्राह्य-
ग्राहकता विज्ञप्तिमात्रतायाम्, तदान्यस्य ग्राह्यस्य संविदो ज्ञानस्याभावात्
स्वसंवित् फलमिष्यते ॥ ३३२ ॥
ननु यदि बाह्योऽर्थो ज्ञानेनानुभूयते, तदा को दोषः, येन स्वसंवित्
फलमिष्यते ? आह—यद्यनुभूयते, तदा नैव कश्चन दोषः । अनुभव एव तु
बाह्यस्य नास्तीत्युच्यते । तथा इदमेव किमुक्तं स्यात्—'बाह्योऽर्थो ज्ञानेना-
नुभूयते' इति ! ॥ ३३३ ॥
यदि बुद्धिस्तदाकारा वा बाह्यरूपेत्युच्यते, सत्यमस्ति सा बुद्धि-
राकारविशेषिणी नीलानीलाद्याकारविशेषयुक्ता; किन्तु सा बुद्धिर्बाह्यादर्थाज्जायेत,
दर्शनोपाधिरहितस्याग्रहात् तद्ग्रहे ग्रहात् ।
दर्शनं नीलनिर्भासम्;
नार्थो बाह्योऽस्ति केवलम् ॥ ३३५ ॥
कस्यचित् किञ्चिदेवान्तर्वासनायाः प्रबोधकम् ।
ततो धियां विनियमो न बाह्यार्थव्यपेक्षया ॥ ३३६ ॥
अन्यतो वासनाप्रतिनियमाद् वा इति विचारमिदमर्हति । न तावद् बुद्धिव्यति-
रेकिणार्थः कश्चिद्द्वेततयोपलभ्यते; बुद्धिस्वरूपमात्रवेदनात् । कादाचित्कतया तु
कारणं तस्याः किञ्चिद् व्यवस्थापनीयम् । तच्च बाह्यम्, वासना वा स्यात्;
उभयथाप्युपपत्तेः ॥ ३३४ ॥
तत्र दर्शनेन ज्ञानेनोपाधिना विशेषणेन रहितस्य नीलादेरग्रहात् तस्य
ग्रहे च नीलस्य ग्रहात् सहैव नीलधियोर्वेदनात् दर्शनं नीलादिनिर्भासं नीला-
कारं व्यवस्थितम् । यत् तावत् नीलादिकं बाह्यमित्युच्यते, तद् ज्ञानेन सहोपलम्भ-
नियमात् तदभिन्नस्वभावम्, द्विचन्द्रादिवत् ।
कस्तर्हि नास्ति ? इत्याह—बाह्यो नीलादिरर्थः केवलं नास्ति,
तत्साधकत्वेनाभिमतस्याध्यक्षस्यासामर्थ्यात् ॥ ३३५ ॥
एवं तर्हि ज्ञानस्य गजाद्याकारस्यालोकादिनिमित्तान्तरसद्भावेऽपि देशकालादि-
प्रतिनियमदर्शनाद् अर्थो व्यवस्यति ? इत्याह—कस्यचिज्ज्ञानस्य गजाद्याकारस्य
किञ्चिदेव ज्ञानमन्तर्वासनायाः समनन्तरप्रत्ययान्तरवर्तिन्या नियतज्ञानजनन-
योग्यतालक्षणायाः प्रबोधकं कार्योत्पादनाभिमुख्यकारकम् । ततः प्रबोधकवशात्
धियां नियताकारतया विनियमः, न बाह्यार्थव्यपेक्षया । को हि विशेषो
बाह्यो वा नियामकः प्रतिभासस्य, प्रबुद्धवासनाविशेषः समनन्तरप्रत्ययो वा ! तत्र
वासनायाः सामर्थ्यं स्वप्नादावुपलब्धम्, न तु बाह्यस्य; (तस्य) नित्यपरोक्षत्वात् ।
न तथापि परोक्षस्य बाह्यस्य साधकस्याभावेऽपि नाभावस्थितिरिति चेत् ? प्रति-
भासमानं ज्ञानं बाह्यं तु न प्रतिभासत एवेति तावतैवाभिमतसिद्धेः साधकप्रमाण-
रहितपिशाचायमानबहिरर्थनिषेधे नास्माकमादरः । यदि तु तन्निषेधनिर्वन्धो गरीयान्,
सांशत्वानंशत्वकल्पनया परमाणुप्रतिषेधे आचार्यीयः पर्येषितव्यः ॥ ३३६ ॥
प्रत्यक्षपरिच्छेदः २०९
तस्माद् द्विरूपमस्त्येकं यदेवमनुभूयते ।
स्मर्यते चोभयाकारस्यास्य संवेदनं फलम्¹ ॥ ३३७ ॥
यदा निष्पन्नतद्भाव इष्टोऽनिष्टोऽपि वा परः ।
विज्ञप्तिहेतुर्विषयस्तस्याश्चानुभवस्तथा ॥ ३३८ ॥
यदा सविषयं ज्ञानं ज्ञानांशेऽर्थव्यवस्थितेः ।
तदा य आत्मानुभवः स एवार्थविनिश्चयः ॥ ३३९ ॥
यस्माद् बाह्योऽर्थो नानुभूयते, तस्मादेकं विज्ञानमविद्योपप्लुतत्वात् द्विरूपं
बोधरूपं नीलादिरूपञ्चास्ति । यत् यस्माज्ज्ञानमेवं द्वयाकारतयाऽनुभूयते स्ववेदनेन
यथानुभवं कालान्तरे स्मर्यते च । तथा चान्यस्य संवेदनाभावात् उभया-
द्याकारस्य नीलाद्यनुभवरूपस्य संवेदनं फलम् । तदेवम्—प्रमेयो ग्राह्याकारः,
प्रमाणं ग्राहकाकारः, फलं स्वसंविदिति दर्शितं भवति ॥ ३३७ ॥
यदा बहिरर्थवादेऽपि परो बाह्योऽर्थ इष्टोऽनिष्टोऽपि वा निष्पन्नतद्-
भावो भावनावशाद् व्यवस्थितेष्टानिष्टभावः सरूपाय विज्ञप्तेर्हेतुः सन् विषयो
भवति, तदा तस्या विज्ञप्तेस्तथा इष्टानिष्टाकारेणानुभवो विषयस्य चानुभव
उच्यते । तेन विषयसारूप्यं प्रमाणमर्थसंवित् फलमुक्तम् ॥ ३३८ ॥
अथ वा विज्ञानवादेऽप्यविरुद्धमित्याह—यदा ज्ञानस्यांशे आकारे
विप्लववशाद् अर्थस्य व्यवस्थितेर्ज्ञानं सविषयमिष्टम्, तदा य आत्मनो
ज्ञानाकारस्यानुभवः स एवार्थस्य निश्चयः संवेदनमिष्यते । ततश्च विज्ञान-
वादेऽप्यर्थाकारः प्रमाणमर्थसंवित्फलमविरुद्धम् ॥ ३३९ ॥
१. “सव्यापारप्रतीतत्वात् प्रमाणं फलमेव सत् ।
प्रमाणत्वोपचारस्तु निर्व्यापारे न विद्यते ॥
स्वसंवित्तिः फलं वात्र तद्रूपो ह्यर्थनिश्चयः ।
विषयाभासतैवास्य प्रमाणं तेन मीयते ॥
यदाभासं प्रमेयं तत् प्रमाणफलते पुनः ।
ग्राह्यग्राहकसंवित्ती त्रयं नातः पृथक्कृतम् ॥” (प्र० समु० ९-११)
इति प्रमाणसमुच्चयानुरोधाच्चतुरावर्तितोऽत्राचार्येण फलविकल्पः । सिद्धा-
न्तस्थापनं तु ३३९कारिकायां विज्ञानवादमालम्ब्यैव कृतमिति ध्येयम् ॥
भवति' -> 'तो': vertical line, left curve going down, and on top, kana + e = 'ो'!
NOW LOOK AT LINE 23:
After 'श', there is a 'त' with 'ो' = 'तो'!
And after 'तो', there is 'ने' = 'न' with 'े'!
And after 'ने', there is 'ष्टा' (ṣṭā)!
So it is:
"अदृष्टवशतो नेष्टानिष्टाकारयोः प्रतीतेरुपदर्शनात्"
OR "अदृष्टवशतोनेष्टानिष्टाकारयोः" (no space, or small space).
Let's look at the space:
There is a tiny space between अदृष्टवशतो and नेष्टानिष्टाकारयोः, or they are printed as one word/sandhi:
Wait, is there sandhi between अदृष्टवशतो and नेष्ट...?
No, अदृष्टवशतो ends in 'o' (from vaśataḥ -> vaśato before voiced consonant 'n'!).
YES! In Sanskrit sandhi:
अदृष्टवशतः + न = अदृष्टवशतो न!
Visarga after 'a' becomes 'o' before a voiced consonant like 'na'!
अदृष्टवशतः + न = अदृष्टवशतो न!
And then: does 'न' do sandhi with 'इष्ट'?
न + इष्टानिष्टाकारयोः = नेष्टानिष्ट
प्रत्यक्षपरिच्छेदः २०३
इष्टानिष्टावभासिन्यः कल्पना नाक्षधीर्यदि ।
अनिष्टादावसन्धानं दृष्टं तत्रापि चेतसाम् ॥ ३४५ ॥
तस्मात् प्रमेये बाह्येऽपि युक्तं स्वानुभवः फलम् ।
यतः स्वभावोऽस्य यथा तथैवार्थविनिश्चयः ॥ ३४६ ॥
तदर्थाभासतैवास्य प्रमाणं न तु सन्नपि ।
ग्राहकात्माऽपरार्थत्वाद् बाह्येष्वर्थेष्वपेक्षते ॥ ३४७ ॥
यस्माद् यथा निविष्टोऽसावर्थात्मा प्रत्यये तथा ।
निश्चीयते निविष्टोऽसावेवमित्यात्मसंविदः ॥ ३४८ ॥
इत्यर्थसंवित् सैवेष्टा यतोऽर्थात्मा न दृश्यते ।
यथावस्थितवस्तुग्राहिण्यक्षधीस्तदनन्तरमिष्टानिष्टावभासिन्यः कल्पना¹
अयथार्थाः, तेनानेकात्मकत्वदोषप्रसङ्ग इति यदीष्यते ? तत्रैन्द्रियत्वेऽप्यनिष्टादौ
आदिशब्दात् कामलादौ, चेतसामिन्द्रियज्ञानानामसन्धानमर्थाकाराननुविधानं
दृष्टम् । तस्मादिन्द्रियबुद्धिरयथार्थाकारा न भवतीति नास्ति ॥ ३४५ ॥
तस्मान्न केवलं स्वरूपे, बाह्येऽपि प्रमेये स्वानुभवः फलं युक्तम्;
यतः कारणात् स्वभावोऽस्य ज्ञानस्य यथा प्रतिभाति तथैव स्वार्थस्य²
विनिश्चयः सिध्यति ॥ ३४६ ॥
तत् तस्माद् बाह्येष्वर्थेषु ग्राह्येष्वस्य ज्ञानस्यार्थाभासताऽर्थकारतैव
प्रमाणमपेक्षते, न त्वन्वयिग्राहकात्मा ग्राहकाकारः; अपरार्थत्वात् आत्म-
विषयत्वात् तस्य ॥ ३४७ ॥
यस्मात् कारणाद्यथा इष्टत्वेनानिष्टत्वेन वार्थस्यात्माकारः प्रत्यये निविष्टः,
तथाऽर्थो निश्चीयते; तस्मादर्थकारः प्रमाणम् । असावर्थाकार एवमिष्ट-
निष्टत्वेन बुद्धौ निविष्ट इत्यात्मसंविदः स्वसंवेदनान्निश्चीयते ॥ ३४८ ॥
इति तस्मात् सैवात्मसंविदर्थसंविदिष्टा; यतः स्वरूपाद् बहिर्भूतोऽ-
र्थात्मा न दृश्यते, बुद्ध्याकार एव तु वेद्यते । अतस्तद्वेदनदर्शनमेवार्थवेदनम् ।
१. कल्पनाऽयथार्था—रा० । २. नार्थस्य—रा० ।
२०४ प्रमाणवार्त्तिके
तस्माद् बुद्धिनिवेश्यार्थः साधनं तस्य सा क्रिया ॥ ३४९ ॥
यथा निविशते सोऽर्थो यतः सा प्रथते तथा ।
अर्थस्थितेस्तदात्मत्वात् स्वविदप्यर्थविन्मता ॥ ३५० ॥
तस्माद् विषयभेदोऽपि न;
स्वसंवेदनं फलम् ।
उक्तं स्वभावचिन्तायां तादात्म्यादर्थसंविदः ॥ ३५१ ॥
तथावभासमानस्य तादृशोऽन्यादृशोऽपि वा ।
ज्ञानस्य हेतुरर्थोऽपीत्यर्थस्येष्टा प्रमेयता ॥ ३५२ ॥
यस्माच्चार्थसारूप्यवशेनार्थाधिगतिव्यवस्था, तस्माद् बुद्धिनिवेश्यार्थोऽर्थप्रति-
बिम्बं साधनं प्रमाणम्। तस्य प्रमाणस्य साधिगतिः क्रिया फलमिष्यते॥३४९॥
यतः कारणात् यथार्थो ज्ञानात्मनि निविशते तथा सा स्वसंवित्तिः
प्रथते ख्याति; तस्मादर्थस्य स्थितेरधिगतेस्तदात्मत्वात् परमार्थतः स्ववि-
दपि सती अर्थविद् मता । स्वसंवेदनमेवार्थवेदनमुपचारादुच्यत इति तादात्म्य-
मनयोः ॥ ३५० ॥
यस्मादर्थाकार एव प्रमाणम्, प्रतीतिसाधनत्वात् फलञ्च प्रतीयमानम्, तस्मात्
प्रमाणफलयोर्विषयभेदोऽपि नास्ति । यथा परमते आलोचनविशेषणज्ञानादीना-
मेकार्थापेक्षिण्यावेव हि सारूप्यप्रतिपत्ती प्रमाणफलत्वं प्रतिलभेते ।
यद्यर्थसंवेदनं फलम्, तदा स्ववित्फलं कथमुक्तम् ? इत्याह--अर्थसंवेदनस्य
वस्तुतः स्वभावचिन्तायां स्वसंवेदनं फलमुक्तम्; अर्थसंविदस्तादात्म्यात्
स्वसंवेदनात्मत्वात् । न स्वाकारप्रतीतेरन्यास्त्यर्थप्रतीतिः, स्वरूपेण तस्याः
प्रतीतेः ॥ ३५१ ॥
ननु यदि यथार्थं नानुभवः, तदा स्ववासनाप्रबोधकमनुवर्तमानस्य ज्ञानस्यार्थो
बाह्योऽस्तीत्येतदेव कुतः ? इत्याह- तथा इष्टानिष्टाकारेणावभासमानस्य
ज्ञानस्यार्थोऽपि तादृशोऽन्यादृशो वा हेतुरित्यर्थस्य प्रमेयतेष्टा सौत्रा-
न्तिकमते; सारूप्यस्य परमार्थतः "सरूपयन्ति तत् केन स्थूलाभासं च
तेऽणवः" ( प्र० वा० २. ३२१ ) इति प्रतिषेधात् ॥ ३५२ ॥