सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 216, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 216

१९० प्रमाणवार्त्तिके
प्रमाणफलविचारः
क्रियासाधनमित्येव सर्वं सर्वस्य कर्मणः।
साधनं न हि तत् तस्य साधनं या क्रिया यतः ॥ ३०१ ॥
तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः।
भाव्यं तेनात्मना येन प्रतिकर्म विभज्यते ॥ ३०२ ॥
अनात्मभूतो भेदोऽस्य विद्यमानोऽपि हेतुषु।
भिन्ने कर्मण्यभिन्नस्य न भेदेन नियामकः ॥ ३०३ ॥
तस्माद् यतोऽस्यात्मभेदादस्याधिगतिरित्ययम् ।
प्रमाणफलव्यवस्थां कर्तुमाह—क्रियायाः साधनं हेतुरित्येव न हि सर्वं
कारणं सर्वस्य कर्मणः क्रियायाः साधनं करणम्, किं तर्हि ? तद्वस्तु
तस्य कर्मणः साधनं करणम् । या क्रिया यतः पदार्थादव्यवधानेन
भवति स तस्याः कारणमुच्यते, ततश्चेन्द्रियादेः प्रमितिं प्रत्यव्यवहितसाधकत्वा-
भावान्न प्रमाणम् ॥ ३०१ ॥
किं तर्हि प्रमाणमस्ति ? इत्याह— तत्र रूपादौ कर्मणि ज्ञानस्यानुभव-
मात्रेणानुभवात्मनो सदृशात्मनस्तुल्यरूपस्य तेनात्मना स्वरूपेण प्रतिविषयं
व्यतिरेकिणा भाव्यम्, येन प्रतिकर्म प्रतिविषयज्ञानं विभज्यते—नीलस्येदम्,
पीतस्येदमिति । अन्यथानुभवमात्रतया सर्वत्र विषये सदृशं ज्ञानं प्रतिविषयं कथं
भेदेन व्यवस्थापयितुं शक्येत ! ॥ ३०२ ॥
स्यादेतद् । इन्द्रियादेर्हेतोः सव्यापारतादिलक्षणो विशेषो ज्ञानानां भेदेन
नियामकमित्याह — हेतुष्विन्द्रियादिषु भेदो विशेषः सव्यापारतादिलक्षणो विद्यमा-
नोऽप्यस्य ज्ञानस्यानुभवमात्रात्मतयाऽभिन्नस्य भिन्ने कर्मणि नीलादौ
ग्राह्ये भेदेन नियामको न युक्तः । कस्माद् ? इत्याह—अनात्मभूतः ।
ज्ञानास्वरूपत्वाद्विन्द्रियस्य विशेषः प्रतिकर्म न भेत्तुमर्हति ॥ ३०३ ॥
तस्मादस्य ज्ञानस्यात्मभेदात् यतोऽस्यार्थस्येयमधिगतिरिति क्रियाया