न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
संख्याप्रकरणम् । १२३
कर्म ह्युत्तरसंयोगनिमित्तं यदुपैयते ।
तदेव पूर्वसंयोगध्वंसकारि भविष्यति ॥
न च यज्जनने शक्तमशक्तं तद्विनाशनै ।
हेतुर्दहनसंयोगः पाकजोत्पादनाशयोः ॥
यथा च विभागेऽधिकरणनियमो यदाधारो विभागस्तदाधारमेव संयोगं
निरुणद्धि तथा कर्मण्यपि नियमः कर्मापि स्वाश्रयस्य यदन्यदिक्सम्बन्धनिबन्धनं
तत्तद्विरुद्धदिग्वृत्तेः संयोगस्योपमर्दकमिति नातिप्रसङ्गः, एवं कर्माविष्टस्योत्तर-
संयोगदर्शनमदूषणं दिगन्तसंयोगस्य तेनोपमर्दनात् , अपि च यदेव कर्म वंश-
दलविभागकारि कथ्यते तदेव दलाकाशविभागकारि भविष्यति को दोषः ।
“ननु व्योमविभागकारिकर्म न द्रव्यारम्भकसंयोगप्रत्यनीकभूतविभागार-
म्भकमम्भोरुहपल्लवकर्मवदि”त्युक्तम् , सत्यमुक्तम् , अयुक्तं तु शतपत्रपत्रकर्मणो
ऽपि द्रव्यारम्भकसंयोगप्रतिकूलविभागारम्भकत्वात्तच्च कुङ्मलकमलाद्विकचक
कलस्यान्यत्वनिश्चयान्निश्रितम् ।
“ननु तदेवेदमरविन्दमिति सन्देहविपर्ययरहिततामरसप्रत्यभिज्ञादर्शनात्कथं
सङ्कोचविकासदशामात्रभेदात्तदन्यत्वमि”ति, कृतमनया दुराशया शरीरेऽपि
सुस्पष्टोपलभ्यमानैशैशवयौवनवार्धकादिदशाभेदभिन्नस्वरूपे प्रत्यभिज्ञानदर्श-
नात् , न च शरीरकुशेशयोर्विशेषलेशमपि पश्याम इति कुतस्तदेकत्वम् , भवतु
वा पुण्डरीकस्याविनाशो निदर्शनमात्रमिदं तु वर्णितं न तु प्रतिबन्धः ( द्धः ? )
कश्चन हेतुरभ्यधायि, येन वंशदलकर्मणः कोकनदपल्लवकर्मसाम्यं कल्प्येत,
क्रियात्वं त्वप्रयोजकमेव कर्मणां विचित्रकार्यहेतुत्वात् , यदि वा नान्यो वंशद-
लविभागो नान्यश्च तत्कार्यो दलाकाशविभागः, किन्तु
एक एव विभागोऽयं भेदोऽस्याश्रयभेदतः ।
एकत्र देशेऽवस्थानाद्योम्नो वंशदलस्य च ॥
समानदेशे वृत्तित्त्वं मूर्तानां हि विरुद्धयते ।
व्योम्नः सर्वगतत्वात्तु विद्यते तत्र सन्निधिः ॥
एकदेशाश्रयत्वे तु यदेकस्माद्विभागकृत् ।
तदेवान्यत इत्यस्ति न विभागो विभागजः ॥
प्रासङ्गिको विभागगुणान्तरत्वनिरासः ।
अपरे पुनर्विभागजविभागपराकरणापारूढरभसाः सङ्गिरन्ते-तिष्ठतु तावद्
दूरत एव विभागजो विभागः, कर्मजोऽपि न विभागो नाम कश्चिदस्ति, संयोग
विरोधििन तस्मिन्नभ्युपगम्यमाने मुद्गरादिवत्पूर्वसिद्धताऽवश्यंभाविनी वत-
श्च पूर्वसिद्धो विभागः संयोगमुन्मूलयतीति घटमुद्गरयोरिव संयोगविभा-
गयोरेकत्र युगदुपलब्धिर्भवेन्न चैवमस्ति, तस्मात्संयोगाभावविषय एव विभ-
क्तप्रत्यय इति न विभागालम्बनतां प्रतिपद्यते, सत्यपि विभागे तस्मिन्क्षणे
संयोगस्य विनाशान्न भवति विभक्तप्रतिभासः, क्षणान्तरे च संयोगविनाशे
सति भवतीत्यन्वयव्यतिरेकाभ्यां संयोगाभावविषय एवावसीयते न प्रत्यक्ष-
गम्यता विभागस्य, संयोगभङ्गलिङ्गेन च तत्परिकल्पनक्रियैव तं हिनस्तीति
पुरस्तात्प्रतिपादितम् ।
“कथं तर्हि विभागजत्वं शब्दस्य भाष्यकार उदाहृतवान् ?” उच्यते त्रिविधं-
कारणं कार्योत्पत्तिं विधत्ते—समवायिकारणम् असमवायिकारणं निमित्तकारणं
चेति, तत्र समवायिकारणं तदुच्यते यत्राश्रितं कार्यमुपलभ्यते यथा पटस्य तन्त-
वः, असमवायिकारणन्तु द्विविधं कार्यैकार्थसमवायलक्षणप्रत्यासत्त्या प्रत्यासन्नं
कारणैकार्थसमवायलक्षणया वा, तत्र कार्यैकार्थसमवायेन प्रत्यासन्नं यथा पटस्य
तन्तुसंयोगः, कारणैकार्थसमवायेन तु प्रत्यासन्नं यथा पटरूपस्य तन्तुरूपमि-
ति, अवधृतसामर्थ्यं च तदसमवायिकारणमाश्रयणीयमतो बुद्धिजन्मनि सत्य-
प्येकार्थसमवाये नान्येषामात्मगुणानामिच्छादीनामसमवायिकारणत्वमपि त्व-
वधृतसामर्थ्यस्यात्ममनःसंयोगस्यैवेति, समवाय्यसमवायिव्यतिरिक्तं तु कार्यो-
त्पत्तौ निर्ज्ञातसामर्थ्यं यत्कारणं तन्निमित्तकारणमुच्यते,—इत्येवं स्थिते शब्दस्य
नित्यत्वे निरस्ते कार्यत्वे च साधिते तदुत्पत्तौ आकाशं समवायिकारणं निमि-
त्तकारणानि तु भूयांसि सन्त्येवासमवायिकारणं तु चिन्त्यम्, तच्चाकाशाश्रितम-
वश्यमन्यथा प्रत्यासत्त्यभावात् तद्गुणान्तराणां च विभुत्वादीनामनवधृतश-
क्तित्वाद्वंशदलपाटनसमनन्तरं च शब्दोत्पाददर्शनादेवं मन्यामहे—
क्रिया यदैव संयोगं हन्ति वंशदलाश्रितम् ।
तदैव गगने कञ्चित्करोत्यतिशयं ध्रुवम् ॥
आकाशातिशयो यश्च क्रियाजः शब्दकारणम् ।
असौ विभागनामेति शब्दे तज्जन्यतोच्यते ॥
तदेतमेतद्यथागममाचार्यमतमभिहितमस्माभिः । एतच्च मतिमद्भिर्विचारणी-
यम्—किमाकाशातिशयमात्रमसमवायिकारणमुत यथा भेरीदण्डसंयोगकार्ये शब्दे
भेरीगगनसंयोगस्यासमवायिकारणत्वमेवं वंशदलविभागकार्ये तस्मिन्दलगगन
विभागस्येति, दलाकाशविभागोऽपि किं दलविभागज उत कर्मण एवेति,
सर्वथा कश्चिदसाधारणो धर्मः संशयहेतुरुदाहर्तव्य इतीयता नः प्रयोजनम् ।
विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिः, अस्यात्मेत्येके नास्यात्मेत्यपरे, सेयं विप्र-
तिपत्तिरुपलभ्यमाना विशेषस्मरणद्वारेण संशयमावहति, न चेह कश्चिदनुगतो
व्यावृत्तो वा धर्मः संशयकारणमपि तु विप्रतिपत्तिरेवेति, अत्रापि त्रिरूपपरि-
ग्रहेण लक्षणवर्णनमेकेनैव वा पदेनेति पूर्ववदाचार्यद्वयमतमनुसरणीयम् ।
उपलब्ध्यव्यवस्थातः खल्वयं भवति संशयः, सच्चोदकमुपलभ्यते यथा ह्रदादिषु
कचिदसच्च भास्करकरनिकरप्रतिफलतरलितासु मरुस्थलीषु, तदेवमुपलब्धेर-
व्यवस्थितत्वात् कचिदुपलभ्यमाने भवति संशयः—‘किमिदं सदुपलभ्यते किम-
सदिति, अनुपलब्ध्यव्यवस्थातश्च भवति संशयः—‘किंचिदसदेव नोपलभ्यते
नभःकुसुमादि किंचित्सदपि नोपलभ्यते मृदन्तरितशङ्खमूलकादितदन्य-
त्रानुपलभ्यमाने संशेते पुमान्किमिदमसदेव नोपलभ्यते उत सदिति’ अव्यवस्था-
शब्देनात्र पूर्वं पर्यायेण वृत्तसदसदाश्रितविशेषादर्शनं सूचितम्, इदानीं पु-
नरर्थक्रियासमर्थतादिविशेषदर्शनशून्यचेतसामुपलब्ध्यनुपलब्ध्यदर्शनमात्रोपपत्ते-
स्संशयो वर्ण्यते, न चैवं सति सर्वत्रानाश्वास इति शङ्कनीयम्, यथानुभवं संश-
याभ्युपगमात्, सर्वत्र च तदुत्पादकविशेषाग्रहणतत्स्मरणादिकारणसन्निध्या-
संभवादिति, अत्रापि पदत्रयेणैकेन वा पदेन लक्षणोपपादनं पूर्ववद् द्रष्टव्यम्।
“ननु चोपलब्ध्यनुपलब्धी सदसतोः समान एव धर्म इति पूर्वेण गतार्थत्वम्”
नेतन् पूर्वनिर्दिष्टयोर्ध्वत्वादेर्धर्मस्य ज्ञेयस्थत्वादुपलब्ध्यनुपलब्ध्योश्च ज्ञातृस्थ-
त्वात्, अत एव च मानसमिमं संशयमाचक्षते न बाह्यधर्मिसंबद्धसाधारणोर्ध्व-
तादिधर्माधिगमाधीनसंशयवद्वाह्येन्द्रियजम् । “ननु चोपलब्धित्वमनुपलब्धित्वं
वाऽत्र संशयकारणं तद्धि न ज्ञातरि वर्तते किन्तु बुद्धाविति कथमयं विशेषः ?”
सत्यमेवं किन्तु समानधर्मोप्युपलब्धितादिको यदाश्रितो तद्धि बोद्धरि वर्तते
अतो विशेषात्पृथगेव कथ्यते यथा ह्यसाधारणतासमाश्रयः, एवं प्रकारमेव च
विशेषमाश्रित्य किञ्चित्पञ्चविधत्वं विपश्चूयते, परमार्थतस्तु सर्वत्रानुगतसंबन्धो
दुष्परिहरः विशेषस्मरणजन्यत्वात्संशयस्य विशेषाणां च येन सह पूर्वं दर्शनम-
भूत्तस्मिन्ननुपलभ्यमाने स्मरणासंभवात् , अतस्तस्यानेकविशेषानुगामित्वात्स-
मानत्वात्समानत्वमपरिहार्यम् , अत एवाक्षिप्तसामान्यवाचिसमानशब्दं सामा-
न्यलक्षणे व्याचख्युराचार्या इत्यलमतिविस्तरेण ।
इति पञ्चविधः प्रपञ्चतो मुनिना दर्शित एष संशयः ।
फलद्व्यवहारहेतुतामनुमानाङ्गतया बिभर्ति यः ॥
अनुमानिरपेक्ष एव वा किल दृष्टे विषयेऽर्थसंशयः ।
वहति व्यवहारवर्त्तिनीमिति पूर्वं च विचारितं बुधैः ॥
इति (३) संशयपदार्थः ।
यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥
( गौ० अ० १ आ० १ सू० २४ )
‘यमि’त्यत्र देशकालपुरुषद्शाभेदभिन्नप्रयोजनविशेषव्याप्तये वीप्सा द्रष्ट-
ष्ट्या। अर्थोऽर्थ्यमान उच्यते न वस्तुरूप एव अभावस्यापि प्रयोजनत्वसम्भवात्,
अधिकारोऽर्थस्य व्यवसायः, यं यमर्थमाप्तव्यं हातव्यं वाधिकृत्य व्यवसाय-
प्रवर्तते तत्प्राप्तये परिहाराय वा चेष्टते पुरुषस्तत्प्रयोजनमिति, तच्च गौणमु-
ख्यभेदेन द्विविधम्—मुख्यं सुखप्राप्तिर्दुःखपरिहारश्च, तत्साधनं गौणम्, सुख-
साधनमपि चन्दनघनसारमहिलादि प्राप्तव्यत्वान्मुख्यत्वेन यदा विवक्षितं भवति
तदा तदवाप्युपाये गौणता द्रष्टव्या।
तच्च प्रयोजनं देशकालपुरुषदशाभेदाद्व्यवस्थितम्, तद्यथा ग्रीष्मे मरुस्थले
निशातमलातनिकरमिव किरति किरणमिषेण पूषणि तृषातुरस्य तुषारकणोत्क-
रदन्तुरमम्बु परमं सुखसाधनं तदेव शिशिरे सकलजगत्कम्पकारिणि दारुणस-
मीरणशिथिलीकृतनीरेषु कश्मीरेषु श्लेष्मोपचयजनितजठरशिखिनः खेदाय
जायते, तस्मादनियत एवायं सुखदुःखसाधनभावो भावानाम्, यद्यपि च यदै-
कदा सुखसाधनमिति विदितमुपयुक्तमतिक्रान्तं वस्तु तथापि तज्जातीयत्वलिङ्गा-
वधृतसुखसाधनभावे भावान्तरेऽपि प्रवर्तन्त एव तदर्थिनः।
“ननु प्रयोजनस्य प्रवर्तकत्वमयुक्तं सदसद्विकल्पानुपपत्तेः—सत्त्वे कर्णनासा-
दिवन्न तदर्था प्रवृत्तिरसत्त्वे तु खपुष्पादिवन्नतराम्”। नैष दोषः, ईप्साजिहासावि-
षयीकृतस्य प्रवर्तकत्वात्, न हि तत्खपुष्पादिवदसाध्यं नापि शिरःपादायादिव-
त्सिद्धमेव अपि तु साध्यत्वेन बुद्ध्युपारूढं तत्प्रवर्तकमिति युक्तम्, तदेव च
वाक्यार्थ इति पूर्वमुक्तम्।
इत्थं प्रवर्तकत्वे प्रयोजनस्योपपादिते मुनिना।
भग्ना भवन्ति सर्वे प्रेरकपक्षाः पराभिहिताः॥
प्रयोजनमतोऽखिलैर्विधिवचोभिरादिश्यते
प्रयोजननिबन्धनास्तनुभृतामशेषाः क्रियाः।
क्रिमेरपि यथा तथा किमपि जीवितं बिभ्रतः
प्रयोजनबहिष्कृतं न खलु चेष्टितं दृश्यते॥
वैतण्डिकः प्रयतते निजपक्षसिद्धये
तां चैष वेद परपक्षनिषेधलभ्याम्।
तस्मादियं स्वमतसाधनवर्जिताऽपि
युक्ता प्रयोजनवती भवितुं वितण्डा॥
इति(४) प्रयोजनपदार्थः॥
लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः॥
गौतमसूत्रम् अ० १ आ० १ सू० २५।
लौकिकपरीक्षकौ वादिप्रतिवादिनौ दृष्टान्तप्रस्तावलक्षणाद्वेदितव्यौ न
तु मूर्खपण्डितौ प्रकृतासङ्गतेस्तयोश्च सङ्गस्यभावात्, तयोर्यस्मिन्नर्थे भावस्व-
भावेऽभावात्मके वा बुद्धिसाम्यं—प्रयोज्यप्रयोजकभावव्यवस्थितसाध्यसाधन-
धर्माधिकरणत्वे साध्यव्यावृत्तिपूर्वकसाधनधर्मव्यावृत्ततायां वा तुल्यरूपा बुद्धिः
स दृष्टान्तः, तस्य तथाविधधर्माधारत्वं तद्रहितत्वं वा लक्ष्यमाणान्मन्तव्यं,
यथा चानुमानलक्षणे 'तत्पूर्वकमि'ति प्रतिबन्धग्रहणोपायमात्रं प्रतिपादितं तत्स्व-
रूपं त्ववयवलक्षणे निर्णीतं 'उदाहरणसाधर्म्यात्साध्यसाधनं हेतुस्तथा वैधर्म्या-
दिति, एवमिह वादिप्रतिवादिप्रसिद्धिमात्रं दृष्टान्तस्य दर्शितं, रूपं तु तस्य द्विवि-
धमपि तत्रैव वक्ष्यते—'साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् , तद्विपर्यया-
द्वा विपरीतमिति' अनित्यः शब्दः कृतकत्वाद् यत्कृतकं तदनित्यं दृष्टं यथा घट
इति साधर्म्यदृष्टान्तः, यत्पुनरनित्यं न भवति तत्कृतकमपि न भवत्येव यथा-
ऽऽकाश इति वैधर्म्यदृष्टान्तः, यथोक्तलक्षणवैकल्यात्तु दृष्टान्ताभासता इति ।
आभासभेदविभवात्कथयिष्यते तु तेषामुदाहरणलक्षणवाक्प्रसङ्गे ।
आभासता वचनदोषकृताऽपि काचिदस्तीति साऽवयवलक्षणएव वाच्या ॥
द्विविधोऽपि च दृष्टान्तः सुदृष्टिभिर्यत्नतोऽधिगन्तव्यः ।
स हि निश्चलः फलनिधेरनुमानमहातरोः स्कन्धः ॥
इति (५)दृष्टान्तपदार्थः ॥
तन्त्राधिकरण।भ्युपगमसंस्थितिः सिद्धान्तः ॥
(गौ० अ० १ आ० १ सू० २६)
तन्यतेऽनेन पदार्थस्थितिरिति तन्त्रं प्रमाणमुच्यते, अधिकरणमाश्रयः,
तन्त्रमधिकरणं यस्य स तन्त्राधिकरणः प्रमाणमुल इत्यर्थः, अभ्युप-
गमः स्वीकारः तस्य संस्थितिरित्थम्भावव्यवस्था धर्मनियमः, इदमिति
सामान्यनिर्देश इत्थमिति विशेषः, एवं च तन्त्राधिकरणाभ्युपगमसंस्थितिः
प्रमाणमूलाभ्युपगमव्यवस्था सिद्धान्त इत्युक्ते प्रमाणमूलाभ्युपगमविषयीकृतः
सामान्यविशेषवानर्थः सिद्धान्त इति सामान्यलक्षणमुक्तं भवति । अन्ये तु
व्याचक्षते—तन्त्रमितरेतरसंबद्धस्यार्थसमूहस्योपदेशः शास्त्रम् , अधिक्रियते
इत्यधिकरणं पक्ष उच्यते, अभ्युपगमो यथोक्त एव, संस्थितिशब्दः प्रत्येकम्-
भिसंबध्यते, तन्त्रसंस्थितिरधिकरणसंस्थितिरभ्युपगमसंस्थितिरित्यनेन तन्त्र-
निर्देशसाम्यात्सर्वतन्त्रसिद्धान्तयोः सूचनमितराभ्यां पदाभ्यामुत्तरयोरधिकर-
णाभ्युपगमसिद्धान्तयोः—इति, एतत्त्वपव्याख्यानम् , न ह्येवं सिद्धान्तचतुष्टया-
नुगतं किञ्चित्सामान्यलक्षणमुक्तं भवति—न चेदं विभागार्थं विशेषलक्षणार्थं वा
सूत्रम्, तत्प्रतिपादनस्योत्तरसूत्रैः करिष्यमाणत्वादुक्तस्य च पुनर्बचने योज-
नाभावादतः पूर्वक्रमेणैव सिद्धान्तस्य सामान्यलक्षणवर्णनं श्रेयः
तस्य स्वकण्ठेन विभागमाह—
स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्था-
न्तरभावात् ॥ ( गौतमसूत्रम् अ० १ आ० १ सू० २७ ) वति ।
चतुष्प्रकारो हि सिद्धान्तः सर्वतन्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तोऽधि
सिद्धान्तः अभ्युपगमसिद्धान्तः । तत्र—
सर्वतन्त्राविरुद्धः स्वन्त्रेऽधिकृतोऽर्थः ( सर्वतन्त्रसिद्धान्तः १) ॥
( गौतमसूत्रम् अ० १ आ० १ सू० २८ )
अत्र तन्त्रशब्देन शास्त्रमुच्यते, स्वशास्त्रे य उपदिष्टोऽर्थः सर्वशास्त्रावि-
रुद्धश्च स सर्वतन्त्रसिद्धान्तः, यथा चाक्षुषं प्रमाणमिति, “नन्वत्रापि विवद-
ब्रह्मवादिनां हि सर्वे वेयमविद्या अविद्या च कथं प्रमाणमिति” न व्यवहाराव
स्थायां तैरपि तत्प्रामाण्याभ्युपगमात् , संख्यालक्षणविषयविप्रतिपत्तिस्तु
तिशास्त्रं भवतु, चाक्षुषं प्रमाणमितीयति सर्ववादिनामविवादः ।
समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥
( गौतमसूत्रम् अ० १ आ० सू० २९ )
तन्त्रेऽधिकृतोऽर्थ इति वर्तते, यथा ऽस्माकमीश्वरेच्छाप्रेरितपरमाणुनिर्मिता
नि पृथिव्यादीनि समानतन्त्रे कणव्रतमते तथैव सिद्धानि परतन्त्रे च सांख्यादि
शास्त्रे तथा नाभ्युपगम्यन्त इति , यथा वा गुणत्रयात्मिकायाः प्रकृतेर्महदहङ्का-
रादिक्रमेण भूतसर्ग इति सांख्यानां स्वतन्त्रसिद्धोऽर्थः समानतन्त्रेऽपि पातञ्जले
योगशास्त्रे सिद्ध एव परतन्त्रे तु वैशेषिकादिमते न सिद्ध इति । “नन्वस्य कथं
प्रमाणमूलता?” स्थाने प्रश्नः सत्यमेतत् आस्माकीने हि प्रवितन्त्रसिद्धान्ते प्रमा-
णमूलत्वं यथार्थमेव सांख्यसिद्धान्तस्तु प्रमाणमूलत्वाभावेऽपि परतन्त्रत्वख्या-
पनायोदाहृतः तदभिप्रायेण मूलता वक्तव्येति ।
यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः ॥
( गौतमसूत्रम् अ० १ आ० १ सू० ३० )
प्रक्रियते इति प्रकरणं पक्ष उच्यते, यस्यार्थस्य सिद्धौ सत्यां प्रकरणान्-
सिद्धिर्भवति सोऽधिकरणसिद्धान्तस्तदधिकरणानामर्थान्तराणां सिद्धेः ।
“कः पुनर्यत्सिद्धाविति सर्वनाम्ना प्रत्यवमृश्यते पक्षो हेतुर्वा ? किं चात
पक्षः कथं पक्षान्तरसिद्धये कल्पते, हेतुना हि पक्षसिद्धिः क्रियते पक्षेण,
हेतोस्त्वधिकरणसिद्धान्तत्वे कथं सिद्धान्ताश्रया न्यायप्रवृत्तिरिति तदुद्देश-
प्रयोजनं वर्णितम्, न्यायो हि हेतुरेव स एव चाधिकरणसिद्धान्तो न च हेतु-
र्हेत्वाश्रय” इति ।
उच्यते-उभयथा ऽप्यदोषः हेतुरपि क्वचित्पक्षीभवति, पक्षो हि हेतुर्भव-
न्न तत्र तावदाञ्ज्येन हेत्वधीना पक्षसिद्धिरिति हेतुरेव सर्वनाम्नाऽवमृश्यते
तत्सिद्धावन्यप्रकरणसिद्धेः स एवाधिकरणसिद्धान्तः ।
“कथं तर्हि तदाश्रया न्यायप्रवृत्तिः ?” उच्यते-हेतुरपि तदन्यतराभिन्न इव
साध्यमानत्वात्पक्षीभवन्न्यायान्तराश्रयतां प्रतिपत्स्यते ऽपि वा पक्ष एव सर्वनाम्ना-
ऽवमृश्यमाणो भवत्वधिकरणसिद्धान्तः, स च स्पष्ट एव न्यायस्याश्रयः, स च
सिद्धयै पक्षान्तराण्याक्षिपन्नेव सिद्धयतीत्यधिकरणसिद्धान्ततां भजते, तस्यो-
दाहरणम्-‘इन्द्रियव्यतिरिक्तो ज्ञाता
तस्मादेवं व्याख्यायते-अपरीक्षिताभ्युपगम एव स्वमतिकौशलेन क्रियमाणे-
ऽभ्युपगमसिद्धान्तः अस्तु द्रव्यं शब्द इति, प्रमाणमूलाभ्युपगमविषयीकरणं तु
सामान्यलक्षणे प्रौढवाद्यभिप्रायेण योज्यम्, द्रव्यत्वमपि प्रमाणमूलं शब्दस्य भवतु
तथाऽपि तस्यानित्यत्वमिति किल निरवयवं द्रव्यमनित्यं नास्त्येव शब्दस्य तु
तादृशस्याप्यनित्यत्वमहं साधयामीति, कथं तर्हि पञ्चमी? किं पञ्चम्या वस्तु
तावदीदृशं यथा व्याख्यातमस्माभिः, पञ्चम्यपि चेत्थं योज्यते-किमर्थं पुनर-
यमपरीक्षित एव शब्दद्रव्यत्वाभ्युपगमः क्रियत इति पृच्छत उत्तरं पञ्चम्या-
भिधीयते यस्मादपरीक्षिताभ्युपगमात्तद्विशेषानित्यत्वपरीक्षणमवकल्पते तस्मा-
दपरीक्षिताभ्युपगमोऽभ्युपगमसिद्धान्त इति, न तु तद्विशेषपरीक्षणमेव सामाना-
धिकरण्यनिर्देशादभ्युपगमसिद्धान्त इति मन्तव्यं परीक्षणस्य सिद्धान्ताश्रि-
तत्वात्, तस्माद्विशेषपरीक्षणार्थोऽपरीक्षिताभ्युपगमः प्रौढवादिना क्रियमाणो
ऽभ्युपगमसिद्धान्त इति सूत्रार्थः, इत्थमेव च तत्र तत्र प्रावादुकानां व्यवहारः।
इमाश्च सिद्धान्तभिदाश्चतस्रो न्यायप्रवृत्तेः प्रथमं निमित्तम्।
प्रवर्तते नैव परीक्षकाणामनाश्रया न्यायकथा कदाचित्॥
इति ( ५ ) सिद्धान्तपदार्थः।
इह
अवयवप्रकरणम् । १३१
किन्त्वेनमनुमानेन बोधयामीति मन्यते ।
सोऽपि तद्वचनान्नैव तमर्थमवबुध्यते ॥
किन्तु व्याप्तिमतो लिङ्गात्स्वयं तत्तु न पश्यति ।
तत्प्रतीत्यभ्युपायतवात्परार्थमिदमुच्यते ॥
अतश्च श्रातुः स्वार्थानुमानमेवेदं वक्ता तु तथा परं प्रतिपादयन्यरार्थम-
नुमानं प्रयुङ्क्त' इत्युच्यते ।
न चानुवादमात्रं तद्वक्तुरित्युपपद्यते ।
यतो व्याप्रीयते सम्यक्परस्य प्रतिपत्तये ॥
तेनानधिगतार्थोपदेशकत्वान्नानुवादमात्रं स्वागमापेक्षया त्वनुवादत्वे नेदानी-
मात्रवचनमनुवादरूपं किञ्चिद्भवेत्सर्वस्य स्वोपलब्धिपूर्वकत्वादिति, तस्मात्परा-
र्थानुमानवाक्योपपत्तेस्तदेकदेशा अवयवा युक्ता इति लक्ष्यन्ते—
प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः॥ (अ० १ आ० १ सू० ३२)
एतच्च सूत्रमेकमेव सामान्यलक्षणमवयवानामभिधत्ते, विभागं च प्रमा-
णानामिव प्रत्यक्षानुमानोपमानशब्दास्साधनीयार्थप्रतिपत्तिपर्यन्तवचनकलापैक-
देशत्वमवयवानां सामान्यलक्षणमाचष्टे । यद्यपि चैकवक्तृवचननिर्गतानां निस-
र्गभङ्गुराणामदीर्घायुषामपरिहार्यक्रमजन्मनां द्रुमाणामिव पारमार्थिकस्समूहो
न समस्त्येव, तथाऽपि सिषाधयिषितार्थप्रतिपादनरूपैककार्योपयोगमूलीकृता-
त्मनां तेषां काल्पनिकः कलापः पूर्वमेव वाक्यकल्पनावसरे समर्थित इति तद्भा-
गा अपि सम्भवन्त्येव । न च पदानामेवानुमानवाक्यावयवत्वम् , अपि तु खण्ड-
वाक्यानामेकेन पदेन प्रतिज्ञोदाहरणादीनामभिधातुमशक्यत्वात् , हेतुवचनं
त्वेकमपि पदं क्वचिद्भवति कृतकत्वादिति, तदपि वा सविशेषणं प्रयुज्यमानं
पदसमुदायेनैव प्रतिपाद्यते वस्तुत्वे सति कृतकत्वादिति, उदाहरणवचनमपि
पटवदित्येवमालस्यादेव प्रयुज्यते तद्धि व्याप्तिदर्शनायैव वक्तव्यं यत्कृतकं त-
दनित्यं दृष्टं यथा घट इति, तस्मादवयवानामवयवत्वमेव लक्षणं न पदत्वम् ,
विभागो ऽपि प्रतिज्ञादिपदसन्निधाववयवश्रुतेरेवावगम्यते प्रतिज्ञादयः पञ्चावयवा
न न्यूनातिरिक्ता इति । “न
? Wait, could it be broken type for मandञ्ज? Look at मinमस...: There is म, then under it is a curve, and next to it is जwithस? Wait, look closely: म, then रु, then ज, ज, स, म. Actually it's मसमरूजसम-orमसमञ्जसम-? In many 19th-century fonts, ञ्जis sometimes set strangely or it'sमसमञ्जसम्whereञ्जis damaged. Let's transcribeमसमञ्जसम-orमसमञ्जसम्with hyphen? The line ends with a hyphen:-`.
Let's check line-by-line systematically.
Line 1:
१३२ न्यायमञ्जर्याम्
Line 2:
प्रमातुः प्रमाणानि प्रवर्तमानानि प्रमेयमर्पयितुं पारयन्तीति सम्भावना शक्त्य-
Line 3:
प्राप्तिः साऽपि तथैव न वाक्यावयवं स्पृशेत्, (तत्त्वावधारणफलात्मकं प्रयोज-
Line 4:
नमपि न वाक्यैकदेशः ?) संशयव्युदासस्तु प्रतिपक्षोपालम्भः, स च वचनस्व
Line 5:
अवयवप्रकरणम् । १३३
न च स्वप्रतिपत्तावुपलब्धं सर्वमेव परस्मै आख्येयम्, आख्याने वा धर्मिमा-
त्राख्यायताम्, स्वप्रतिपत्तौ हि पूर्वं पर्वतादेः शुद्धस्य धर्मिणो ग्रहणं न तु
सिषाधयिषितहुतवहादिधर्मविशेषरुषितवपुषः, एवमभ्युपगमेऽनुमानवैफल्य-
प्रसङ्गादतः कथं प्रथममेव साध्यधर्माध्यासितस्वरूपधर्मिनिर्देशकरणम्,
अपि च विवादादेव प्रतिज्ञार्थो लभ्यते इति किं स्वकण्ठोक्तेन तेन प्र-
योजनम्।" उच्यते-स्वप्रतिपत्तिमनुसरता परस्य प्रतिपत्तिरुत्पादनीयेति स्व-
प्रतिपत्तौ प्रथममुपलब्धो धर्मी तावदाख्येय एवानुद्देश्यमाने हि धर्मिणि नि-
रधिकरणो हेतुः क्व साध्यं साधयेत्, धर्म्यनवच्छिन्ने च धर्ममात्रेऽनुमानम-
नर्थकमविवादसिद्धत्वात्, अस्ति हि यत्र क्वचिदनित्यत्वमित्याश्रयासिद्धश्च
धर्मिनिर्देशाद्विना हेतुर्भवेदित्यवश्यनिर्देश्यो धर्मः, यद्यपि च धर्मिमात्रदर्शनमे-
व प्रथममभूत्तथाऽपि किं साधयितुं हेतुः प्रयुक्तो भवेदित्युपप्लवशमनाय साध्य-
धर्मनिर्देशोऽपि कर्तव्यः, शब्दः कृतकत्वादिति हि प्रयुज्यमानं तदिदमन्धप-
दमिव साधनं भवेत् । “अथ व्याप्तिप्रदर्शननिपुणेन यत्कृतकं तदनित्यं दृष्टमिति
दृष्टान्तवचसा, तस्मादनित्य इति निगमनवचनेन वा विरंस्यति स उपप्लव इति”
तत्रापि श्रोतृबुभुत्सोपरमपरिश्रमफले साधनवाक्ये साधनाधिगमकाङ्क्षासमुत्पा-
दनाय साध्यं निर्देश्यं, न हि शब्द इत्येतावत्युक्ते तत्र साधनमाकाङ्क्षतिक-
श्चिदिति साधनवचनावसरतत्प्रयोगसाफल्योत्पादनायैव नूनमनित्यः शब्द इति
प्रतिज्ञावचनं प्रयोक्तव्यम्, यच्च विवादादेव प्रतिज्ञार्थस्य लब्धत्वमभिधीयते,
तदभ्युपगमनमेव शब्दान्तरेण प्रतिज्ञायाः, यतो विरुद्धो वादो विवाद एक आह
नित्यः शब्द इतरस्त्वनित्य इत्याह सोऽयं पक्षप्रतिपक्षपरिग्रहः विवादः प्रति-
ज्ञैव, स तु पक्षप्रतिपक्षपरिग्रहस्तदहरेव भवतु दिनान्तरे वेति किमनेन विशेषेण,
तस्मादपरिहार्यं प्रतिज्ञावचनमिति सिद्धम्, प्रतिज्ञैव च पक्ष इत्युच्यते । तदेवं-
विधे पक्षलक्षणे प्रदर्शिते बलात्पक्षाभासाः प्रतिक्षिप्ता भवन्ति, तद्यथाऽनुष्णो-
ऽग्निरिति प्रत्यक्षविरुद्धः पक्षः, न रूपग्राहि चक्षुरित्यनुमानविरुद्धः, शब्दविरु-
द्धस्तु बहुशाखः-ब्राह्मणेन सुरा पेयेत्यागमविरुद्धः, जनित्री मे वन्ध्या, पिता मे
ब्रह्मचारीति धर्मधर्मिपदयोरेव विप्रतिषेधात्स्ववचनविरुद्धः, न चन्द्रः शशीति
लोकप्रसिद्धिविरुद्धः, उपमानविरुद्धस्तु न गवयशब्दवाच्योऽयं गोसदृश इति, अ-
प्रसिद्धविशेषणो नभःकुसुमकृतावतंसश्चैत्र इति, अप्रसिद्धविशेष्यः सुगन्धि गग-
नकमलमिति, अप्रसिद्धोभयः खपुष्पकृतशेखरो वन्ध्यासुत इति, यत्रापि विशेषण-
विशेष्ययोः प्रमाणान्तरतः स्वरूपं निश्चितमेव तन्निर्देशोऽपि पक्षाभास एव शीतं
तुहिनमुष्णोऽग्निरिति साध्यत्वाभावेनानुमानप्रयोगावसरविरहाद्वितीयमेव च
सा सिद्धसाध्यतोच्यते इति, ये चैते प्रत्यक्षविरुद्धतादयः पक्षदोषाः, ये च वक्ष्य-
माणाः साधनविकलत्वादयो दृष्टान्तदोषास्ते वस्तुस्थित्या सर्वे हेतुदोषा एव प्र-
पक्षमात्रं तु पक्षदृष्टान्तदोषवर्णनम् , दृष्टान्तदुष्टतया च हेतोरेव लक्षणमन्वय-
व्यतिरेकयोरन्यतरद्धीयते इति सर्वे च ते हेतु दोषा एव ।
अत एव च शास्त्रे ऽस्मिन्मुनिना तत्त्वदर्शिना ।
पक्षाभासादयो नोक्ता हेत्वाभासास्तु दर्शिताः ॥
कश्चिद्धेत्वनपेक्षोऽपि पक्षमात्रप्रतिष्ठितः ।
बाधोऽनुमानरूपस्य स्ववाक्यादिकृतो यथा ॥
एवंलक्षणको हेतुरिति तत्स्वरूपावधारणे सति तदभिधायकं वचनं सुख-
मेव लक्ष्यते इत्यर्थात्मकहेतुलक्षणं तावदुच्यते—
उदाहरणसाधर्म्यात्साध्यसाधनं हेतुरिति ॥ ( १।१।३४ )
“नन्वर्थात्मको हेतुरनुमानं तच्च लक्षितमेव पूर्वं तत्पूर्वकं त्रिविधमनुमान-
मिति” । सत्यं तस्य तत्पूर्वकमिति सर्वनामपरामृष्टप्रत्यक्षमूलोपवर्णनेन प्रतिब-
न्धपरिच्छेदोपायमात्रनिरूपणं कृतमिह तु प्रतिबन्धस्वरूपमपि प्रतिपाद्यते , त-
त्रार्थात्मके हेतौ लक्ष्ये पञ्चमीमपास्योदाहरणसाधर्म्यं साध्यसाधनं हेतुरिति सूत्रं
पठन्ति , व्याचक्षते च-साधर्म्यं हेतुरित्युच्यमाने गन्धवत्त्वादेरसाधारणेद्धेतोः
साध्यधर्मिव्यक्तिभेदवृत्तित्वेन साधर्म्यरूपसंभवाद्विरुद्धस्य पक्षविपक्षवृत्तेस्तत्सा-
धर्म्यस्वभावत्वाद्धेतुत्वं प्रसज्यत इति तन्निवृत्त्यर्थमुदाहरणग्रहणम् , उदाह्रियते-
ऽस्मिन्साध्यसाधनयोः प्रयोज्यप्रयोजकभाव इत्युदाहरणं दृष्टान्तः तेन साध-
र्म्यं, कस्येति ? प्रकृतत्वात्प्रत्यासत्तेश्च साध्यस्य धर्मिणा इत्यवगम्यते, उदाहरण-
साधर्म्यं साध्यदृष्टान्तधर्मिसाधारणो धर्मो हेतुरिति नासाधारणादौ तथात्वप्रस-
क्तिरिति , एवमपि प्रमेयत्वादेरन्रैकान्तिकहेतोस्तथा भागसिद्धस्यानित्यत्वसि-
द्धये चतुर्विधपरमाणुपक्षीकरणे गन्धवत्त्वादेः प्रकरणसमकालात्ययापदिष्टयो-
श्चोदाहरणसाधर्म्यसम्भवाद्धेतुत्वं भवेदिति तद्व्यवच्छेदाय साध्यसाधनग्रहण-
म् , साध्यदृष्टान्तधर्मिणोश्च समानो धर्मः साध्योऽप्यनित्यत्वादिः भवत्येवेति
तस्यापि हेतुता मा प्रसाङ्क्षीदिति साध्यसाधनग्रहणम् , लिङ्गसामान्यलाभार्थं
साध्यसाधनं यदुदाहरणसाधर्म्यं स हेतुरिति , साध्यसाधनपदेन च प्रतिबन्धो
लक्ष्यते स च सव्यभिचारादिषु नास्तीति न ते हेतवः , प्रतिबन्धश्च पञ्चलक्षण-
क इत्येकैकलक्षणाभावकृतहेत्वाभासपञ्चकनिर्देशादेव सूचितवानाचार्यः ।
“नन्वेवं तर्हि साध्यसाधनग्रहणमेव हेतुलक्षणमस्तु तद्धि सकलहेत्वाभासव्युदा-
ससमर्थमिति किमुदाहरणसाधर्म्यग्रहणेन ?” समानजातीयव्यवच्छेदार्थत्वात् ,
अहेतवो हि विजातीयास्तद्व्यवच्छेदः साध्यसाधनग्रहणात्समानजातीयस्य के-
वलव्यतिरेकिणो व्यवच्छेदायोदाहरणसाधर्म्यग्रहणमिति । “तत्कि केवलान्वयी
हेतुरिति लक्ष्यत्वे न विवक्षितः ?” न तथाविधस्य हेतोरभावात् अन्वयव्यतिरे-
कलक्ष्णमत्रोदाहरणसाधर्म्यं वैधर्म्यसम्भवे तु सति साधर्म्यमप्यस्त्येवेति, न साव-
धारणं वा विशेषविधिरूपेणैवेदमुदाहरणसाधर्म्यग्रहणं केवलान्वयिलक्षणं वर्ण-
नीयमिति । “ननु यदि द्विविधो हेतुरिष्यते तर्हि सामान्यलक्षणमादौ वक्तव्यं
ततो विशेषलक्षणमिति”। उच्यते—साध्यसाधनग्रहणमेव प्रतिबन्धसूचकं सामा-
न्यलक्षणं भविष्यति, उदाहरणसाधर्म्यग्रहणं त्वन्वयव्यतिरेकिणो लक्षणमुत्तरसूत्रं
च केवलव्यतिरेकिणः, केवलान्वयी हेतुर्नास्त्येवेत्येवं पञ्चमीमुपेक्ष्यार्थात्मकहेतु-
लक्षणमाचख्युः । अपि वा भवतु तत्रापि संशयव्यवच्छेदफलः पञ्चमीपाठः,क-
श्चिदेवमभिदधीत—साध्यसाधनमिति पर्यायपठनमात्रमेतन्न हेतुलक्षणम् ,
अपि च यत्रैव दृष्टान्तधर्मिणि हेतुधर्मप्रयुक्ततया साध्यधर्मोऽवधारितस्तत्रैव
पुनरसावुपलभ्यमानस्तमुपस्थापयतु धर्म्यन्तरे तु तदुपलम्भाद्भवतु संशयः—‘किं
तत्साध्याविनाभूतमिह हेतोस्सत्त्वमुतान्यथे’ति, अस्येदमुत्तरमुच्यते उदाहरण-
साधर्म्यादिति । अयमर्थः—देशकालव्यक्तिविशेषाणां व्यभिचारान्न तेषु प्रति-
बन्धावधारणमपि तु सामान्यधर्मयोरेव,
व्यक्तिभेदाश्रयत्वे हि नैव व्याप्तिग्रहो भवेत् ।
दृष्टान्तेऽप्यभ्यनुज्ञैवं भवता दीयते कथम् ॥
तदभ्यनुज्ञानात्तु सामान्येन व्याप्तिग्रहणमङ्गीकृतमेव भवति । तस्मिंश्च
सत्युदाहरणसाधर्म्यात्साध्यसाधनमेव भवति न संशयः संशयस्य विशेषप्र-
हणकारणकत्वादिह चोदाहरणसाधर्म्यपदोपात्तं लिङ्गसामान्यमेव विशेषो
गृह्यते इति कुतः संशयः, साध्यसाधनपदमपि न पर्यायमात्रमपि तु पञ्चलक्ष-
णकप्रतिबन्धसूचनेन हेतोः हेतुत्वसमर्थनार्थमेतत् , कस्माद्धेतुर्हेतुर्भवति साध्य-
साधनत्वाद्गमकत्वादित्यर्थः, साध्यसाधनता चास्य पञ्चलक्षणकात्प्रतिबन्धाद्वि-
ना न निर्वहतीत्यसौ साध्यसाधनपदेन लक्ष्यते, सोऽपि च प्रयोज्यप्रयोजकभा-
वगर्भस्साधनताङ्गतामेतीति तथाविध एव सूच्यते, अत एव चाप्रयोजक एवै-
कः परमार्थतो हेत्वाभास इति वक्ष्यते, तदिदमीदृशं साध्यसाधनत्वं हेतोः कुतो
भवतीत्युदाहरणसाधर्म्यादिति संशयं व्यवच्छिन्दन्त्या पञ्चम्या कथ्यते, अतश्च
यदुच्यते परैः ‘साधर्म्यं यदि हेतुः स्यान्न वाक्यांशो न पञ्चमी’ति तदिदमनु-
पपन्नम् , पञ्चम्याः अर्थात्मकत्वे हेतावनुपयोगात्तत्रापि वा तस्याः समर्थित-
त्वात् , वाक्यांशे लक्षणान्तरकरणात् तच्चेदमिदानीमुच्यते उदाहरणसाधर्म्या-
त्साध्यसाधनं हेतुः, यद्यपि च ज्ञानस्याप्युदाहरणसाधर्म्यात्कर्मभूतत्वात्करणात्मक-
त्वाद्वा द्वयस्याभिनिर्वृत्तिस्तथापि वाक्यावयवप्रकरणसामर्थ्याद् वचनमवसीयते ।
“यदि वाक्यावयवप्रकरणमिदं किमर्थं तर्ह्यर्थव्युत्पादनम्” उक्तमत्र तदौपयिक-
त्वादिति, “साध्यसाधनग्रहणं वचनलक्षणे किमर्थम् ? हेत्वाभासवचननिरसन-
मर्थात्मकहेतुलक्षणादेव हि सिद्धम्” न हेत्वाभासवचनव्यवच्छेदकं पक्षधर्मव-
१२६ न्यायमञ्जर्याम्
चनं कृतकत्वादित्येवमादि प्रयोक्तव्यमपि तु हेतुविभक्त्यन्तं कृतकशब्दादित्येवमा-
दि प्रयोक्तव्यमिति कृतकत्वेनेति कृतकोऽयमस्मादिति वाऽभिधातव्यमेवं हि
तत्साध्यसाधनं भवतीति ॥
तथा वैधर्म्यात् ॥ ( १।२।३५ )
उदाहरणग्रहणमनुवर्तते साध्यसाधनमिति च , एतच्च तथाशब्दोपादानसा-
मर्थ्याद्गम्यते उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः , अत्राप्यर्थात्मकहेतुपूर्वक-
त्वाद्द्वचनस्यार्थात्मक एव हेतुः प्रथमं लक्ष्यते इति तल्लक्षणाय पूर्ववत्पञ्चमीपा-
ठशून्यमेव सूत्रं वर्णयन्ति , वैधर्म्यं हेतुरित्युच्यमाने पक्षवैधर्म्यस्यापि विपक्ष-
वृत्तेरशेषाश्वव्यक्तिपक्षीकरणे तुरगा इमे विषाणादित्येवमादेर्हेतुत्वं स्यादित्यु-
दाहरणग्रहणम् , तथाऽप्यसाधारणादेरुदाहरणवैधर्म्यस्य हेतुता प्रसज्यते इति
पूर्ववत्साध्यसाधन
ति स्थितम् , अर्थात्मकहेतुलक्षणपक्षेऽपि पञ्चमीपाठः पूर्ववत्संशयपराकरण-
फलेन वर्णनीयः, वचनात्मकहेतुलक्षणे ऽपि तथैव सूत्रं योग्यम् , यथोक्तवै-
धर्म्यात्प्रवृत्तं वचनं साध्यसाधनं हेतविभक्त्यन्तं प्रयोक्तव्यमित्यर्थः ।
केवलव्यतिरेक्याक्षेपः ।
`तदेतदाक्षिपन्ति "लक्ष्ये सति लक्षणं वक्तव्यं भवति केवलव्यतिरेकी तु
नाम न समस्त्येव हेतुरिति कस्येदं लक्षणमुच्यते ? प्रतिबन्धेन हि हेतोर्गमक-
त्वमुक्तं प्रतिबन्धश्च पञ्चलक्षणो व्याख्यातः, एकैकलक्षणविरहनिबन्धनाश्च
पञ्च हेत्वाभासा भविष्यन्ति, तत्पक्षधर्मत्वविरहिण इवासिद्धस्य हेतोरन्वयशून्य-
स्याऽपि (न) हेतुता युक्ता केवलव्यतिरेकमात्रशरणेन हेतुना साध्यसिद्धौ तथावि-
धहेतुसुभिक्षसंभवाद्यस्मै रोचते स तत्सर्वं साधयेत् , असाधारणस्य वा कमि-
ति (न?) हेतुत्वं, व्यतिरेकवतोऽपि संशयः-'साध्याभावकृता तस्माद्व्यावृत्तिरुत
वाऽन्यथा', अन्वये हि कचिद्गृहीतेऽन्यत्र हेतुव्यावृत्तिरवगम्यमाना साध्यव्या-
वृत्तिकृतैवेत्यवधार्यते नेतरथा, इत्थमेव संदिग्धव्यतिरेकता व्यावर्तते नान्यथेति,
संदिग्धव्यतिरेके च साध्यसाधनता कथम् ।
लक्ष्याभावादतश्चेदं कथ्यते तस्य लक्षणम् ।।
तस्मान्न साधनग्रहणेन हेतुद्वयसामान्यलक्षणमभिधायोदाहरणसाधर्म्यग्रह-
णेनान्वयव्यतिरेकिणो लक्षणमुदाहरणवैधर्म्यग्रहणेन च केवलव्यतिरेकिणो
वर्णनीयमपि तु सूत्रद्वयेनैतस्यैवाऽन्वयव्यतिरेकवतो हेतोर्लक्षणं व्याख्येयम् ।
अन्वयव्यतिरेकयोर्गमकाङ्गत्वादेकेनान्वयनिरूपणमपरेण च सूत्रेणाव्यतिरेक-
व्युत्पादनम् , अत एव च भाष्यकारः 'किमेतावद्धेतुलक्षणं नेत्युच्यते तथा वैध-
र्म्या'दित्येकवाक्यतयैव व्याख्यातवान् , उदाहरणमपि च सूत्रद्वये तुल्यमेवान्वय-
व्यतिरेकिहेतोरुक्तवा'नुत्पत्तिधर्मकत्वादि"ति ।
केवलव्यतिरेकिस्थापनम् ।
अत्र वदन्ति-यदि वयं यं कंचन शुष्कमेव केवलव्यतिरेकिणं हेतुमपग-
च्छेम तत एवमनुयुज्येमहि किन्त्वन्वयव्यतिरेकवानेव हेतुः क्वचित्साध्यवि-
शेषे विशेषणविशेषवशात्केवलव्यतिरेकितामवलम्बत इति ब्रूमः, तद्यथेच्छा-
दिगतं कार्यत्वमात्मसिद्धौ, तत्र हि कार्यत्वमाश्रितत्वमात्रेण व्याप्तमुपलब्धमन्व-
यव्यतिरेकयुक्तमेव घटादेः कार्यस्याश्रितस्य दृष्टत्वात् , यत्र ह्याश्रितत्वं नास्ति
तत्र कार्यत्वमपि नास्त्येव व्योमादौ, सोऽयमन्वयव्यतिरेकवानेव हेतुर्यदा परिदृ-
श्यमानशरीराद्याश्रयव्यतिरिक्ताश्रयाश्रितत्वे साध्ये देहादिषु बाधकोपपत्तौ सत्यां
(विलक्षण?) कार्यत्वादिति सविशेषणः प्रयुज्यते तदा केवलव्यतिरेकी
सम्पद्यते, देहादिव्यतिरिक्तस्याश्रयस्यात्मनो नित्यपरोक्षत्वेनान्वयानुपलम्भा-
१८
१३८ न्यायमञ्जर्याम्
दिति, ईदृशस्य चान्वयमूलस्य तस्यां दशायां केवलव्यतिरेकितामुपगत-
स्य हेतुत्वानुपगमान्न पूर्वोक्तदोषावसरः, न हीदृशा हेतुना सर्वः सर्वं साध-
यितुमुत्सहते, न चासाधारणस्य हेतुत्वमित्थंस्थिते प्रसज्यते, पञ्चलक्षणत्व-
मपि पूर्वाश्रयापेक्षमस्य भविष्यति, यच्च संदिग्धव्यतिरेकित्वमाशङ्कितं तदप्य-
न्वयव्यतिरेकमूले केवलव्यतिरेकिणि निरवकाशं कार्यस्याश्रितस्योपलम्भादा-
श्रितत्वव्यावृत्त्या व्योमादौ च कार्यत्वव्यावृत्तिदर्शनादिदानीं घटादौ शरीरे वा
सविशेषाणकार्यत्वव्यावृत्तिर्दृश्यमाना विशिष्टाश्रयव्यावृत्तिगतैवावगम्यते इति
न संदिग्धो व्यतिरेकः, एतच्चात्मसिद्धिप्रसङ्गे निर्णीतमिति निरपवादः केवल-
व्यतिरेकी हेतुरस्त्येव लक्ष्यते इति तल्लक्षणार्थमुत्तरसूत्रमन्वयव्यतिरेकिहेतुल-
क्षणार्थं च सूत्रं, केवलान्वयी हेतुर्नास्त्येव, सामान्यलक्षणं त्वनुमानलक्षणात्सा-
ध्यसाधनपदाद्वाऽवगन्तव्यम्, भाष्याक्षराणि तु कथमप्युपेक्षिष्यामहे । अथवा
यथाकथंचिद्वा व्याख्यास्यामः, केवलव्यतिरेकिणं त्वीदृशमात्मादिप्रसाधने
परममस्त्रमुपेक्षितुं न शक्नुम इत्ययथाभाष्यमपि व्याख्यानं श्रेयः ॥
साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् ( १।१।३६ )
यथा 'तत्पूर्वकमनुमानमि'त्यत्र प्रतिबन्धग्रहणोपायमात्रं प्रतिपादितमिह तु
प्रतिबन्धस्वरूपमुदाहरणसाधर्म्यवैधर्म्ययुक्तमेवं लौकिकपरीक्षकाणां यस्मिन्नर्थे
बुद्धिसाम्यं स दृष्टान्तः इत्यत्र वादिप्रतिवादिप्रतिपन्नत्वं द्विविधस्यापि दृष्टान्तस्य
सामान्यलक्षणमुक्तमिह तु प्रयोज्यप्रयोजकभावव्यवस्थितसाध्यसाधनधर्माधिक-
रणत्वमेकस्य द्वितीयस्य च तद्रहितत्वं लक्षणमुपपाद्यते । तत्र 'साध्यसाधर्म्यात्त-
द्धर्मभावी'ति साधर्म्यदृष्टान्तस्य लक्षणम्, वचनाधिकरणेऽप्यर्थात्मकदृष्टान्तचि-
न्तनं तदौपायिकत्वाद्धेतुवत्कर्त्तव्यम्, साध्यं धर्मविशिष्टो धर्मी तेन साधर्म्यं
साधनधर्मो लिङ्गसामान्यं यत्तदुदाहरणसाधर्म्यं पूर्वमुक्तं तदेव द्विष्ठत्वादुभाभ्यां
व्यपदिश्यते इतीह साध्यसाधर्म्यशब्देनोक्तम्, तस्मात्साध्यसाधर्म्याद्यस्तद्धर्म-
भावी तस्य साध्यस्य धर्मो नित्यत्वादैर्यस्मिन्भवति स तद्धर्मभावी, पञ्चम्या प्र-
योजकत्वमुच्यते, हेतुधर्मप्रयुक्तः साध्यधर्मो यत्रास्ति स साध्यधर्मदृष्टान्त इत्यर्थः,
स एव च वचसा कर्मतां प्रतिपद्यमान उदाहरणं भवतीत्यर्थवचनवाचिनोर्दृष्टा-
न्तोदाहरणशब्दयोः सामानाधिकरणयमविरुद्धम्, दृष्टान्त एकान्वयव्यापकेन
वचनेनोद्यमान उदाहरणमित्युक्ते तदभिधायकं वचनमुदाहरणमुक्तं भवत्येव-
'यत्कृतकं तदनित्यं दृष्टं यथा घट' इति ।
“नन्वेवं यत्र हेतुकृता साध्यधर्मसत्ता यथा जलधरोन्नमनवृष्ट्यादौ तादृश एव
दृष्टान्त उपदिष्टो भवेन्न यत्र साध्यधर्मकृता हेतुसत्ता यथा धूमानुमान इति”।
अदर्शनज्ञो देवानांप्रियः, नात्रोत्पत्त्यपेक्षया प्रयोज्यप्रयोजकभावो विवक्षितः
किन्तु ज्ञाप्त्यभिप्रायेण, ज्ञप्तौ च धूमः एवाग्नेः प्रयोजकतां प्रतिपद्यते, न हि
धूमाग्न्योः कार्यकारणभावेन गम्यगमकभावः किन्तु नित्यसाहचर्येणैव नियम-
नाम्ना सम्बन्धेनेत्यसकृदुक्तम् ।
धूमः स्वरूपतो नाम जायतां जातवेदसः ।
नाम्निस्तमाक्षिपेत्येनं स एष ह्यग्निमाक्षिपेत् ॥
प्रयोजकत्वमग्नेश्च पञ्चम्या यदि कथ्यते ।
यत्र तत्रामिरित्येवं तन्निर्देशः प्रसज्यते ॥
यस्य प्रयोजकत्वं हि चिख्यापयिषितं भवेत् ।
यच्छब्देन च पूर्वत्र स हि निर्देशमर्हति ॥
भवेदेवं च हेतुत्वं धूमं प्रति विभावसोः ।
न च तद्युज्यते वक्तुमनैकान्तिकदोषतः ॥
प्रयोजकत्वमिच्छन्ति तस्मान्नोत्पत्त्यपेक्षया ।
अपि तु ज्ञप्त्यभिप्रायं हेतोरेवोचितं तत्, तस्माद्धेतुधर्मप्रयुक्तः साध्यधर्मो
य उत्थाप्यते स साध्यधर्मदृष्टान्तस्तद्वचनमुदाहरणमिति सिद्धम् ॥
तद्विपर्ययाद्वा विपरीतम् ॥ ( १।१।३७ )
दृष्टान्त उदाहरणमिति वर्तते, तदिति साध्यधर्मपरामर्शः, तच्च यद्यपि
पूर्वसूत्रे लिङ्गसामान्यं तथाप्यत्र साध्यसाधर्म्यं द्रष्टव्यम्, तद्विपर्ययात्साध्याभावा-
द्विपरीतः अतद्धर्मभावी साधनरहितो यो दृष्टान्तः स वैधर्म्यदृष्टान्तः पूर्ववद्वचसः
कर्मतामापद्यमानो वैधर्म्योदाहरणं भवति, विपरीतमित्युदाहरणापेक्षया नपुंसक-
लिङ्गनिर्देशः ।
“किमर्थं पुनः साध्याभावात्साधनाभावो वैधर्म्यदृष्टान्तः स वर्ण्यते न पुनः
साधर्म्यदृष्टान्तस्थित्या साधनाभावादेव साध्याभाव इति” ।
उक्तमत्र—
व्याप्यव्यापकभावो यः साध्यसाधनधर्मयोः ।
स एव वैपरीत्येन मन्तव्यस्तदभावयोः ॥ इति ।
किं कारणम् ? साधनधर्मे हि धूमे साध्यधर्मेणाग्निना व्याप्तेनाग्निः तत्र
निवेशमलभमानोऽनन्यत्रावकाशत्वाद् धूम एव निवेशितः, एवं साध्यधर्मा-
भावेऽग्नौ साधनधर्माभावेनाधूमेन व्याप्ते सति धूमस्तत्र लब्धावकाशोऽनन्यग-
तित्वादभावेव निविशत इति, यदि तु साधर्म्यदृष्टान्तवत्तथैव व्याप्यव्यापकभावः
ख्याप्यते साधनाभावे साध्यं नास्तीति तदा धूमाभावेनानग्निना व्याप्तेनाग्निस्तत्रा-
लब्धनिवेशो धूममवलम्बतेति स्यात्, न चैतन्निर्वहत्यधूमेऽपि वह्निदर्शनादित्येवं
सपक्षैकदेशवृत्तैर्हेतुत्वमपि प्रसिद्धं हीयते व्याप्तिवैधुर्यादिति, अपि च धूमाभा-
वेनाग्न्यभावे व्याप्ते कथ्यमाने सत्यधूमो नियमितो भवत्यनग्निं मा हासीदित्य-
ग्निस्त्वनियमितः स्वातन्त्र्यादधूममपि स्पृशेदिति व्यभिचारात्प्रतिबन्धो विप्लवे-
१४० न्यायमञ्जर्याम्
त, तदुक्तं—'यदा तु साध्याभावेन हेत्वभावो विशिष्यते साधनं व्यापितं भवेत् ,
साध्यं पुनः स्वतन्त्रत्वाद्धेत्वभावेऽपि सम्भवेत्' इति (?) । तस्माद्यत्रापि समव्या-
प्तिकौ साध्यसाधनधर्माविति सपक्षैकदेशवृत्तित्वेनाहेतुत्वमाशङ्क्यते तत्रापि सा-
धनधर्मस्य विपक्षाद्व्यावृत्तिमभिधित्सता साध्याभावे साधनाभावो दर्शयितव्यः ,
यत्रानित्यत्वं नास्ति तत्राकृतकत्वमपि नास्ति यथाऽऽकाश इति, यो ह्यविद्यमा-
नविपक्षो हेतुः सोऽपि सुतरां ततो व्यावृत्तो भवति तदभावात्तत्रावृत्तेरिति ,
अतश्च सर्वपदार्थानित्यत्वं नास्ति, तत्र कार्यत्ववाद्येवमपि वैधर्म्यदृष्टान्तप्रदर्श-
यन्न वार्यते-यत्र नित्यत्वं नास्ति तत्र कार्यत्वमपि नास्ति यथा शशविषाणादा-
विति, ते एते साधर्म्यवैधर्म्योदाहरणे अन्वयव्यतिरेकवति हेतावुभे अपि सम्भ-
वन्ती विकल्पेन प्रयोक्तव्ये, एकेनैव व्याप्तेः प्रदर्शनात्किमन्येन कृत्यम् ।
केचित्तु व्याप्तिसौष्ठवप्रदर्शनाय द्वयोरपि प्रयोगमिच्छन्ति, भवतु मा वा भून्नेदं
महद्विमर्दस्थानम् । “ननु हेतूदाहरणाधिकमिति निग्रहस्थानमिदमादिष्टम्” समा-
नजातीयाभिप्रायं तद्भविष्यति, साधर्म्यदृष्टान्तानेकत्वे वा तन्निग्रहस्थानमि-
त्यास्तामेतत्, इत्थं साधर्म्यवैधर्म्यदृष्टान्तरूपे व्युत्पादिते बलाल्लक्षणरहिता
दृष्टान्ताभासा भवन्ति, तत्र साध्यविकलः साधनविकल उभयविकल इति वस्तु-
दोषकृतास्त्रयः साधर्म्यदृष्टान्ताभासाः, अनन्वयो विपरीतान्वय इति द्वौ वचन-
दोषकृतौ, यथा नित्यः शब्द अमूर्तत्वादित्यत्र बुद्धिवदिति साध्यविकलो दृष्टा-
न्तः, परमाणुवदिति साधनविकलः, घटवदित्युभयविकलः, व्योम्नि नित्यत्वा-
न्मूर्तत्वं विद्यते इत्यनन्वयः, यदमूर्तं तन्नित्यमिति वक्तव्ये यन्नित्यं तदमूर्तमिति
विपरीतान्वय इति। वैधर्म्यदृष्टान्ताभासा अपि षड्ढैव-साध्याव्यावृत्तः साधना-
व्यावृत्तः उभयाव्यावृत्त इति वस्तुदोषास्त्रयः, अव्यतिरेको विपरीतव्यतिरेक इति
वचनदोषौ द्वौ, यथा तत्रैव हेतौ यत्र नित्यत्वं नास्ति तत्र मूर्तत्वमपि नास्ति
यथा परमाणुष्विति साध्याव्यावृत्तः, बुद्धाविति साधनाब्यावृत्तः, यथाऽऽकाश
इत्युभयाव्यावृत्तः, नित्यत्वामूर्तत्वे घटे न विद्यते इत्यव्यतिरेकः, यत्र नि-
त्यत्वमपि नास्ति तत्रामूर्तत्वमपि नास्ति इति वक्तव्ये यत्रामूर्तत्वं नास्ति तत्र
नित्यत्वमपि नास्तीति विपरीतव्यतिरेक इति । एते च वस्तुवृत्तेन हेतुदोषा एव
तदनुविधायित्वादत एव हेत्वाभासवत्सूत्रकृता नोपदिष्टाः अस्माभिस्तु शिष्य-
हिताय प्रदर्शिता एव ॥
उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा सा-
ध्यस्योपनयः ( १।१।३९ )
उदाहरणमात्मलाभमपेक्षत इत्युदाहरणापेक्षः पक्षाधर्मोपसंहार उपनयः, द्वि-
विधिश्चासौ तथेति न तथेति वा उदाहरणद्वैविध्यात्, तत्र साधर्म्योदाहरणापे-
ग्रस्तश्चेत्युपनयो यत्कृतकं तदनित्यं दृष्टं यथाऽऽकाशः, न च न तथा कृतकः शब्द
इति, अत्रापि निषेधद्वययोगाद्विधिरेव गम्यते ।
“ननु साध्यस्येत्यवाचकः सूत्रावयवः पक्षाधर्मोपसंहारो ह्युपनयो न साध्यो-
पसंहारः, साध्यो हि धर्मो धर्मी वा स्यान्न तयोरन्यतरस्याप्ययमुपसंहार इति” ।
उच्यते-साध्यो धर्म्येव न धर्म इह विवक्षितः, तत्रायं हेतोरुपसंहा-
रस्तथा च कृतकः शब्द इति, सेयं साध्यस्येति सप्तम्यर्थे षष्ठी मन्तव्या साध्ये
धर्मिणि हेतोरुपसंहार उपनय इति ।
“नन्वाधारविवक्षायामिह प्राप्नोति सप्तमी ।
सम्बन्धमात्रे वाच्ये वा कथमाधारतोच्यते ॥”
नैतत्सम्बन्धसामान्येऽप्युक्ते भवति धर्मिणा ।
योगो विशेषचिन्तायां तस्य त्वाधारता भवेत् ॥
विशेषेऽन्तर्निगूढे च प्रायः षष्ठी नियु
१४२ न्यायमञ्जर्याम्
उपनयाक्षेपसमाधिः ।
अत्रोच्यते—इदं तावद्भवान्पृष्टो व्याचष्टां किं स्वप्रतिपत्तिमनुसरन्तः
परप्रतिपादनाय वाक्यरचनां कुर्मः उत परहृदयानुरर्तनेनेति ? तत्र परा-
भिप्रायस्य वैचित्र्यात्परोक्षत्वाच्च दुरवगमत्वेन न विद्मः किं विदध्महे
किं मुखमुत्तिपामः किमरण्निना परं पीडयामः उत हस्तसंज्ञया व्यवह-
रामः आहो हेतुमात्रमेव केवलं प्रयुञ्ज्महे किं वा त्र्यवयवं वाक्यम-
भिदध्मः उत पञ्चावयवादपि वाक्यादधिकमाख्यानकमस्मै वर्णयाम इत्ये-
वमनवस्थितत्वात्पराभिप्रायस्य स्वप्रतिपत्तिमेवानुसरता परः प्रत्याय्यः, तत्र
स्वप्रतिपत्तौ पर्वतादिधर्मी प्रथमं दृष्ट इति स प्रतिज्ञया कथ्यते, ततो धूमादि-
लिङ्गमपलब्धमिति हेतुवचनेन तदावेद्यते, ततो यत्र धूमस्तत्राग्निर्यथा महान-
स इति व्याप्तिस्मरणमभवदिति दृष्टान्तवचसा तदभिधीयते, ततस्तथा चायं
धूम इति परामर्शज्ञानमुदपादीति तदुपपयवचनेन प्रतिपाद्यते, ततस्तस्मादत्रा-
ग्निरित्यनुमेयज्ञानमुपजायते इति निगमनेन तदुच्यते, ततः परं प्रति पर्यव-
सानात्किमन्यदुपदिश्यतामिति, न च दधिभक्षणसहशमतोऽन्यतममपि भवितु-
मर्हत्यनुमेयप्रतिपत्तावुपायदेयत्वात्, येषामपि मते परामर्शज्ञानं नास्ति तैरप्युपनय-
वचनमवश्यमेवापरिहार्यमनुमेयप्रतिपत्तये, दृष्टान्ते दर्शितशक्तिरेव हेतुः प्रभवति
नान्यथेत्यतो यद्यपि पक्षधर्मवचनेन हेतुसंबन्धमात्रमुपपादिशं तथाप्यत्र नाहृ-
ष्टान्तदर्शितशक्तिधर्मः स तस्मिन्धर्मिणि तथाविधो हेतुः स्यान्न वेत्यसिद्धा-
शङ्काशमनमुपनयवचनमन्तरेण न भवत्येवेत्यवश्यं प्रयोक्तव्यं तदिति । स्वप्र-
तीत्यनुसरणेन च वाक्यरचनायाः स्थितत्वात्क्रमोऽपि यथोक्त उपयुज्यते, अत
एव च यत्कृतकं तदनित्यं दृष्टमित्यभिधानमनुपपन्नमनवगते धर्मिणि तद्वर्तिनि
च हेतौ प्रथममेव व्याप्तिस्मरणासंभवेन तद्वचनायोगात्, तदिदमवयवविपर्या-
सवचनमप्राप्तकालनिग्रहस्थानमुपदेच्यामः, अपि च 'यत्कृतकं तदनित्यं दृष्टं
कृतकश्च शब्द इत्येतावदेव प्रयोक्तव्यमि'ति वदता भवता कृतकश्च शब्द इत्ये-
तावदेव प्रयोक्तव्यमिति इतीदमुपनयवचनमनुज्ञातं कृतकत्वादिति पक्षधर्मवच-
नं तु निहुनुतम् , "कृतकश्च शब्द इत्येतदेव हेतुवचनमिति चेत्” न प्रयोजकस्य
पञ्चम्यादिनिर्देशार्हत्वादिति यत्किंचिदेतत् , यदप्युच्यते “विदुषां वाच्यो हेतुरेव
केवल” इति, तदप्यचारु, विद्वद्भिर्विद्वत्त्वादेव हेतोरपि प्रज्ञानात, अपूर्वा इमे
विद्वांसो ये प्रतिज्ञावयवचतुष्टयस्यार्थं जानन्ति हेतुवचनस्य न विदन्तीति,
तस्मात्पराशयस्य सर्वथा दुर्बोधत्वात्पूर्वोक्तेनैव क्रमेण स्वानुभवसाक्षिक्येण वा-
क्यरचनां कृत्वा परः प्रत्याय्य इति ॥
हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥ ( १।१।३९ )
हेतुधर्मिणि निर्ज्ञातशक्तिः साध्ये धर्मियपदिश्यतेऽनेनेति हेत्वपदेश उप-