न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 549, कुल 654 में से
संदर्भ में पढ़ेंकलक्ष्णमत्रोदाहरणसाधर्म्यं वैधर्म्यसम्भवे तु सति साधर्म्यमप्यस्त्येवेति, न साव-
धारणं वा विशेषविधिरूपेणैवेदमुदाहरणसाधर्म्यग्रहणं केवलान्वयिलक्षणं वर्ण-
नीयमिति । “ननु यदि द्विविधो हेतुरिष्यते तर्हि सामान्यलक्षणमादौ वक्तव्यं
ततो विशेषलक्षणमिति”। उच्यते—साध्यसाधनग्रहणमेव प्रतिबन्धसूचकं सामा-
न्यलक्षणं भविष्यति, उदाहरणसाधर्म्यग्रहणं त्वन्वयव्यतिरेकिणो लक्षणमुत्तरसूत्रं
च केवलव्यतिरेकिणः, केवलान्वयी हेतुर्नास्त्येवेत्येवं पञ्चमीमुपेक्ष्यार्थात्मकहेतु-
लक्षणमाचख्युः । अपि वा भवतु तत्रापि संशयव्यवच्छेदफलः पञ्चमीपाठः,क-
श्चिदेवमभिदधीत—साध्यसाधनमिति पर्यायपठनमात्रमेतन्न हेतुलक्षणम् ,
अपि च यत्रैव दृष्टान्तधर्मिणि हेतुधर्मप्रयुक्ततया साध्यधर्मोऽवधारितस्तत्रैव
पुनरसावुपलभ्यमानस्तमुपस्थापयतु धर्म्यन्तरे तु तदुपलम्भाद्भवतु संशयः—‘किं
तत्साध्याविनाभूतमिह हेतोस्सत्त्वमुतान्यथे’ति, अस्येदमुत्तरमुच्यते उदाहरण-
साधर्म्यादिति । अयमर्थः—देशकालव्यक्तिविशेषाणां व्यभिचारान्न तेषु प्रति-
बन्धावधारणमपि तु सामान्यधर्मयोरेव,
व्यक्तिभेदाश्रयत्वे हि नैव व्याप्तिग्रहो भवेत् ।
दृष्टान्तेऽप्यभ्यनुज्ञैवं भवता दीयते कथम् ॥
तदभ्यनुज्ञानात्तु सामान्येन व्याप्तिग्रहणमङ्गीकृतमेव भवति । तस्मिंश्च
सत्युदाहरणसाधर्म्यात्साध्यसाधनमेव भवति न संशयः संशयस्य विशेषप्र-
हणकारणकत्वादिह चोदाहरणसाधर्म्यपदोपात्तं लिङ्गसामान्यमेव विशेषो
गृह्यते इति कुतः संशयः, साध्यसाधनपदमपि न पर्यायमात्रमपि तु पञ्चलक्ष-
णकप्रतिबन्धसूचनेन हेतोः हेतुत्वसमर्थनार्थमेतत् , कस्माद्धेतुर्हेतुर्भवति साध्य-
साधनत्वाद्गमकत्वादित्यर्थः, साध्यसाधनता चास्य पञ्चलक्षणकात्प्रतिबन्धाद्वि-
ना न निर्वहतीत्यसौ साध्यसाधनपदेन लक्ष्यते, सोऽपि च प्रयोज्यप्रयोजकभा-
वगर्भस्साधनताङ्गतामेतीति तथाविध एव सूच्यते, अत एव चाप्रयोजक एवै-
कः परमार्थतो हेत्वाभास इति वक्ष्यते, तदिदमीदृशं साध्यसाधनत्वं हेतोः कुतो
भवतीत्युदाहरणसाधर्म्यादिति संशयं व्यवच्छिन्दन्त्या पञ्चम्या कथ्यते, अतश्च
यदुच्यते परैः ‘साधर्म्यं यदि हेतुः स्यान्न वाक्यांशो न पञ्चमी’ति तदिदमनु-
पपन्नम् , पञ्चम्याः अर्थात्मकत्वे हेतावनुपयोगात्तत्रापि वा तस्याः समर्थित-
त्वात् , वाक्यांशे लक्षणान्तरकरणात् तच्चेदमिदानीमुच्यते उदाहरणसाधर्म्या-
त्साध्यसाधनं हेतुः, यद्यपि च ज्ञानस्याप्युदाहरणसाधर्म्यात्कर्मभूतत्वात्करणात्मक-
त्वाद्वा द्वयस्याभिनिर्वृत्तिस्तथापि वाक्यावयवप्रकरणसामर्थ्याद् वचनमवसीयते ।
“यदि वाक्यावयवप्रकरणमिदं किमर्थं तर्ह्यर्थव्युत्पादनम्” उक्तमत्र तदौपयिक-
त्वादिति, “साध्यसाधनग्रहणं वचनलक्षणे किमर्थम् ? हेत्वाभासवचननिरसन-
मर्थात्मकहेतुलक्षणादेव हि सिद्धम्” न हेत्वाभासवचनव्यवच्छेदकं पक्षधर्मव-