न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 537, कुल 654 में से
संदर्भ में पढ़ेंसंख्याप्रकरणम् । १२३
कर्म ह्युत्तरसंयोगनिमित्तं यदुपैयते ।
तदेव पूर्वसंयोगध्वंसकारि भविष्यति ॥
न च यज्जनने शक्तमशक्तं तद्विनाशनै ।
हेतुर्दहनसंयोगः पाकजोत्पादनाशयोः ॥
यथा च विभागेऽधिकरणनियमो यदाधारो विभागस्तदाधारमेव संयोगं
निरुणद्धि तथा कर्मण्यपि नियमः कर्मापि स्वाश्रयस्य यदन्यदिक्सम्बन्धनिबन्धनं
तत्तद्विरुद्धदिग्वृत्तेः संयोगस्योपमर्दकमिति नातिप्रसङ्गः, एवं कर्माविष्टस्योत्तर-
संयोगदर्शनमदूषणं दिगन्तसंयोगस्य तेनोपमर्दनात् , अपि च यदेव कर्म वंश-
दलविभागकारि कथ्यते तदेव दलाकाशविभागकारि भविष्यति को दोषः ।
“ननु व्योमविभागकारिकर्म न द्रव्यारम्भकसंयोगप्रत्यनीकभूतविभागार-
म्भकमम्भोरुहपल्लवकर्मवदि”त्युक्तम् , सत्यमुक्तम् , अयुक्तं तु शतपत्रपत्रकर्मणो
ऽपि द्रव्यारम्भकसंयोगप्रतिकूलविभागारम्भकत्वात्तच्च कुङ्मलकमलाद्विकचक
कलस्यान्यत्वनिश्चयान्निश्रितम् ।
“ननु तदेवेदमरविन्दमिति सन्देहविपर्ययरहिततामरसप्रत्यभिज्ञादर्शनात्कथं
सङ्कोचविकासदशामात्रभेदात्तदन्यत्वमि”ति, कृतमनया दुराशया शरीरेऽपि
सुस्पष्टोपलभ्यमानैशैशवयौवनवार्धकादिदशाभेदभिन्नस्वरूपे प्रत्यभिज्ञानदर्श-
नात् , न च शरीरकुशेशयोर्विशेषलेशमपि पश्याम इति कुतस्तदेकत्वम् , भवतु
वा पुण्डरीकस्याविनाशो निदर्शनमात्रमिदं तु वर्णितं न तु प्रतिबन्धः ( द्धः ? )
कश्चन हेतुरभ्यधायि, येन वंशदलकर्मणः कोकनदपल्लवकर्मसाम्यं कल्प्येत,
क्रियात्वं त्वप्रयोजकमेव कर्मणां विचित्रकार्यहेतुत्वात् , यदि वा नान्यो वंशद-
लविभागो नान्यश्च तत्कार्यो दलाकाशविभागः, किन्तु
एक एव विभागोऽयं भेदोऽस्याश्रयभेदतः ।
एकत्र देशेऽवस्थानाद्योम्नो वंशदलस्य च ॥
समानदेशे वृत्तित्त्वं मूर्तानां हि विरुद्धयते ।
व्योम्नः सर्वगतत्वात्तु विद्यते तत्र सन्निधिः ॥
एकदेशाश्रयत्वे तु यदेकस्माद्विभागकृत् ।
तदेवान्यत इत्यस्ति न विभागो विभागजः ॥
प्रासङ्गिको विभागगुणान्तरत्वनिरासः ।
अपरे पुनर्विभागजविभागपराकरणापारूढरभसाः सङ्गिरन्ते-तिष्ठतु तावद्
दूरत एव विभागजो विभागः, कर्मजोऽपि न विभागो नाम कश्चिदस्ति, संयोग
विरोधििन तस्मिन्नभ्युपगम्यमाने मुद्गरादिवत्पूर्वसिद्धताऽवश्यंभाविनी वत-
श्च पूर्वसिद्धो विभागः संयोगमुन्मूलयतीति घटमुद्गरयोरिव संयोगविभा-