न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 552, कुल 654 में से
संदर्भ में पढ़ें१३८ न्यायमञ्जर्याम्
दिति, ईदृशस्य चान्वयमूलस्य तस्यां दशायां केवलव्यतिरेकितामुपगत-
स्य हेतुत्वानुपगमान्न पूर्वोक्तदोषावसरः, न हीदृशा हेतुना सर्वः सर्वं साध-
यितुमुत्सहते, न चासाधारणस्य हेतुत्वमित्थंस्थिते प्रसज्यते, पञ्चलक्षणत्व-
मपि पूर्वाश्रयापेक्षमस्य भविष्यति, यच्च संदिग्धव्यतिरेकित्वमाशङ्कितं तदप्य-
न्वयव्यतिरेकमूले केवलव्यतिरेकिणि निरवकाशं कार्यस्याश्रितस्योपलम्भादा-
श्रितत्वव्यावृत्त्या व्योमादौ च कार्यत्वव्यावृत्तिदर्शनादिदानीं घटादौ शरीरे वा
सविशेषाणकार्यत्वव्यावृत्तिर्दृश्यमाना विशिष्टाश्रयव्यावृत्तिगतैवावगम्यते इति
न संदिग्धो व्यतिरेकः, एतच्चात्मसिद्धिप्रसङ्गे निर्णीतमिति निरपवादः केवल-
व्यतिरेकी हेतुरस्त्येव लक्ष्यते इति तल्लक्षणार्थमुत्तरसूत्रमन्वयव्यतिरेकिहेतुल-
क्षणार्थं च सूत्रं, केवलान्वयी हेतुर्नास्त्येव, सामान्यलक्षणं त्वनुमानलक्षणात्सा-
ध्यसाधनपदाद्वाऽवगन्तव्यम्, भाष्याक्षराणि तु कथमप्युपेक्षिष्यामहे । अथवा
यथाकथंचिद्वा व्याख्यास्यामः, केवलव्यतिरेकिणं त्वीदृशमात्मादिप्रसाधने
परममस्त्रमुपेक्षितुं न शक्नुम इत्ययथाभाष्यमपि व्याख्यानं श्रेयः ॥
साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् ( १।१।३६ )
यथा 'तत्पूर्वकमनुमानमि'त्यत्र प्रतिबन्धग्रहणोपायमात्रं प्रतिपादितमिह तु
प्रतिबन्धस्वरूपमुदाहरणसाधर्म्यवैधर्म्ययुक्तमेवं लौकिकपरीक्षकाणां यस्मिन्नर्थे
बुद्धिसाम्यं स दृष्टान्तः इत्यत्र वादिप्रतिवादिप्रतिपन्नत्वं द्विविधस्यापि दृष्टान्तस्य
सामान्यलक्षणमुक्तमिह तु प्रयोज्यप्रयोजकभावव्यवस्थितसाध्यसाधनधर्माधिक-
रणत्वमेकस्य द्वितीयस्य च तद्रहितत्वं लक्षणमुपपाद्यते । तत्र 'साध्यसाधर्म्यात्त-
द्धर्मभावी'ति साधर्म्यदृष्टान्तस्य लक्षणम्, वचनाधिकरणेऽप्यर्थात्मकदृष्टान्तचि-
न्तनं तदौपायिकत्वाद्धेतुवत्कर्त्तव्यम्, साध्यं धर्मविशिष्टो धर्मी तेन साधर्म्यं
साधनधर्मो लिङ्गसामान्यं यत्तदुदाहरणसाधर्म्यं पूर्वमुक्तं तदेव द्विष्ठत्वादुभाभ्यां
व्यपदिश्यते इतीह साध्यसाधर्म्यशब्देनोक्तम्, तस्मात्साध्यसाधर्म्याद्यस्तद्धर्म-
भावी तस्य साध्यस्य धर्मो नित्यत्वादैर्यस्मिन्भवति स तद्धर्मभावी, पञ्चम्या प्र-
योजकत्वमुच्यते, हेतुधर्मप्रयुक्तः साध्यधर्मो यत्रास्ति स साध्यधर्मदृष्टान्त इत्यर्थः,
स एव च वचसा कर्मतां प्रतिपद्यमान उदाहरणं भवतीत्यर्थवचनवाचिनोर्दृष्टा-
न्तोदाहरणशब्दयोः सामानाधिकरणयमविरुद्धम्, दृष्टान्त एकान्वयव्यापकेन
वचनेनोद्यमान उदाहरणमित्युक्ते तदभिधायकं वचनमुदाहरणमुक्तं भवत्येव-
'यत्कृतकं तदनित्यं दृष्टं यथा घट' इति ।
“नन्वेवं यत्र हेतुकृता साध्यधर्मसत्ता यथा जलधरोन्नमनवृष्ट्यादौ तादृश एव
दृष्टान्त उपदिष्टो भवेन्न यत्र साध्यधर्मकृता हेतुसत्ता यथा धूमानुमान इति”।
अदर्शनज्ञो देवानांप्रियः, नात्रोत्पत्त्यपेक्षया प्रयोज्यप्रयोजकभावो विवक्षितः
किन्तु ज्ञाप्त्यभिप्रायेण, ज्ञप्तौ च धूमः एवाग्नेः प्रयोजकतां प्रतिपद्यते, न हि