न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 543, कुल 654 में से
संदर्भ में पढ़ेंहेतोस्त्वधिकरणसिद्धान्तत्वे कथं सिद्धान्ताश्रया न्यायप्रवृत्तिरिति तदुद्देश-
प्रयोजनं वर्णितम्, न्यायो हि हेतुरेव स एव चाधिकरणसिद्धान्तो न च हेतु-
र्हेत्वाश्रय” इति ।
उच्यते-उभयथा ऽप्यदोषः हेतुरपि क्वचित्पक्षीभवति, पक्षो हि हेतुर्भव-
न्न तत्र तावदाञ्ज्येन हेत्वधीना पक्षसिद्धिरिति हेतुरेव सर्वनाम्नाऽवमृश्यते
तत्सिद्धावन्यप्रकरणसिद्धेः स एवाधिकरणसिद्धान्तः ।
“कथं तर्हि तदाश्रया न्यायप्रवृत्तिः ?” उच्यते-हेतुरपि तदन्यतराभिन्न इव
साध्यमानत्वात्पक्षीभवन्न्यायान्तराश्रयतां प्रतिपत्स्यते ऽपि वा पक्ष एव सर्वनाम्ना-
ऽवमृश्यमाणो भवत्वधिकरणसिद्धान्तः, स च स्पष्ट एव न्यायस्याश्रयः, स च
सिद्धयै पक्षान्तराण्याक्षिपन्नेव सिद्धयतीत्यधिकरणसिद्धान्ततां भजते, तस्यो-
दाहरणम्-‘इन्द्रियव्यतिरिक्तो ज्ञाता