सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 553, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 553

धूमाग्न्योः कार्यकारणभावेन गम्यगमकभावः किन्तु नित्यसाहचर्येणैव नियम-
नाम्ना सम्बन्धेनेत्यसकृदुक्तम् ।
धूमः स्वरूपतो नाम जायतां जातवेदसः ।
नाम्निस्तमाक्षिपेत्येनं स एष ह्यग्निमाक्षिपेत् ॥
प्रयोजकत्वमग्नेश्च पञ्चम्या यदि कथ्यते ।
यत्र तत्रामिरित्येवं तन्निर्देशः प्रसज्यते ॥
यस्य प्रयोजकत्वं हि चिख्यापयिषितं भवेत् ।
यच्छब्देन च पूर्वत्र स हि निर्देशमर्हति ॥
भवेदेवं च हेतुत्वं धूमं प्रति विभावसोः ।
न च तद्युज्यते वक्तुमनैकान्तिकदोषतः ॥
प्रयोजकत्वमिच्छन्ति तस्मान्नोत्पत्त्यपेक्षया ।
अपि तु ज्ञप्त्यभिप्रायं हेतोरेवोचितं तत्, तस्माद्धेतुधर्मप्रयुक्तः साध्यधर्मो
य उत्थाप्यते स साध्यधर्मदृष्टान्तस्तद्वचनमुदाहरणमिति सिद्धम् ॥
तद्विपर्ययाद्वा विपरीतम् ॥ ( १।१।३७ )
दृष्टान्त उदाहरणमिति वर्तते, तदिति साध्यधर्मपरामर्शः, तच्च यद्यपि
पूर्वसूत्रे लिङ्गसामान्यं तथाप्यत्र साध्यसाधर्म्यं द्रष्टव्यम्, तद्विपर्ययात्साध्याभावा-
द्विपरीतः अतद्धर्मभावी साधनरहितो यो दृष्टान्तः स वैधर्म्यदृष्टान्तः पूर्ववद्वचसः
कर्मतामापद्यमानो वैधर्म्योदाहरणं भवति, विपरीतमित्युदाहरणापेक्षया नपुंसक-
लिङ्गनिर्देशः ।
“किमर्थं पुनः साध्याभावात्साधनाभावो वैधर्म्यदृष्टान्तः स वर्ण्यते न पुनः
साधर्म्यदृष्टान्तस्थित्या साधनाभावादेव साध्याभाव इति” ।
उक्तमत्र—
व्याप्यव्यापकभावो यः साध्यसाधनधर्मयोः ।
स एव वैपरीत्येन मन्तव्यस्तदभावयोः ॥ इति ।
किं कारणम् ? साधनधर्मे हि धूमे साध्यधर्मेणाग्निना व्याप्तेनाग्निः तत्र
निवेशमलभमानोऽनन्यत्रावकाशत्वाद् धूम एव निवेशितः, एवं साध्यधर्मा-
भावेऽग्नौ साधनधर्माभावेनाधूमेन व्याप्ते सति धूमस्तत्र लब्धावकाशोऽनन्यग-
तित्वादभावेव निविशत इति, यदि तु साधर्म्यदृष्टान्तवत्तथैव व्याप्यव्यापकभावः
ख्याप्यते साधनाभावे साध्यं नास्तीति तदा धूमाभावेनानग्निना व्याप्तेनाग्निस्तत्रा-
लब्धनिवेशो धूममवलम्बतेति स्यात्, न चैतन्निर्वहत्यधूमेऽपि वह्निदर्शनादित्येवं
सपक्षैकदेशवृत्तैर्हेतुत्वमपि प्रसिद्धं हीयते व्याप्तिवैधुर्यादिति, अपि च धूमाभा-
वेनाग्न्यभावे व्याप्ते कथ्यमाने सत्यधूमो नियमितो भवत्यनग्निं मा हासीदित्य-
ग्निस्त्वनियमितः स्वातन्त्र्यादधूममपि स्पृशेदिति व्यभिचारात्प्रतिबन्धो विप्लवे-