सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 539, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 539

उपलब्ध्यव्यवस्थातः खल्वयं भवति संशयः, सच्चोदकमुपलभ्यते यथा ह्रदादिषु
कचिदसच्च भास्करकरनिकरप्रतिफलतरलितासु मरुस्थलीषु, तदेवमुपलब्धेर-
व्यवस्थितत्वात् कचिदुपलभ्यमाने भवति संशयः—‘किमिदं सदुपलभ्यते किम-
सदिति, अनुपलब्ध्यव्यवस्थातश्च भवति संशयः—‘किंचिदसदेव नोपलभ्यते
नभःकुसुमादि किंचित्सदपि नोपलभ्यते मृदन्तरितशङ्खमूलकादितदन्य-
त्रानुपलभ्यमाने संशेते पुमान्किमिदमसदेव नोपलभ्यते उत सदिति’ अव्यवस्था-
शब्देनात्र पूर्वं पर्यायेण वृत्तसदसदाश्रितविशेषादर्शनं सूचितम्, इदानीं पु-
नरर्थक्रियासमर्थतादिविशेषदर्शनशून्यचेतसामुपलब्ध्यनुपलब्ध्यदर्शनमात्रोपपत्ते-
स्संशयो वर्ण्यते, न चैवं सति सर्वत्रानाश्वास इति शङ्कनीयम्, यथानुभवं संश-
याभ्युपगमात्, सर्वत्र च तदुत्पादकविशेषाग्रहणतत्स्मरणादिकारणसन्निध्या-
संभवादिति, अत्रापि पदत्रयेणैकेन वा पदेन लक्षणोपपादनं पूर्ववद् द्रष्टव्यम्।
“ननु चोपलब्ध्यनुपलब्धी सदसतोः समान एव धर्म इति पूर्वेण गतार्थत्वम्”
नेतन् पूर्वनिर्दिष्टयोर्ध्वत्वादेर्धर्मस्य ज्ञेयस्थत्वादुपलब्ध्यनुपलब्ध्योश्च ज्ञातृस्थ-
त्वात्, अत एव च मानसमिमं संशयमाचक्षते न बाह्यधर्मिसंबद्धसाधारणोर्ध्व-
तादिधर्माधिगमाधीनसंशयवद्वाह्येन्द्रियजम् । “ननु चोपलब्धित्वमनुपलब्धित्वं
वाऽत्र संशयकारणं तद्धि न ज्ञातरि वर्तते किन्तु बुद्धाविति कथमयं विशेषः ?”
सत्यमेवं किन्तु समानधर्मोप्युपलब्धितादिको यदाश्रितो तद्धि बोद्धरि वर्तते
अतो विशेषात्पृथगेव कथ्यते यथा ह्यसाधारणतासमाश्रयः, एवं प्रकारमेव च
विशेषमाश्रित्य किञ्चित्पञ्चविधत्वं विपश्चूयते, परमार्थतस्तु सर्वत्रानुगतसंबन्धो
दुष्परिहरः विशेषस्मरणजन्यत्वात्संशयस्य विशेषाणां च येन सह पूर्वं दर्शनम-
भूत्तस्मिन्ननुपलभ्यमाने स्मरणासंभवात् , अतस्तस्यानेकविशेषानुगामित्वात्स-
मानत्वात्समानत्वमपरिहार्यम् , अत एवाक्षिप्तसामान्यवाचिसमानशब्दं सामा-
न्यलक्षणे व्याचख्युराचार्या इत्यलमतिविस्तरेण ।
इति पञ्चविधः प्रपञ्चतो मुनिना दर्शित एष संशयः ।
फलद्व्यवहारहेतुतामनुमानाङ्गतया बिभर्ति यः ॥
अनुमानिरपेक्ष एव वा किल दृष्टे विषयेऽर्थसंशयः ।
वहति व्यवहारवर्त्तिनीमिति पूर्वं च विचारितं बुधैः ॥
इति (३) संशयपदार्थः ।
यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥
( गौ० अ० १ आ० १ सू० २४ )
‘यमि’त्यत्र देशकालपुरुषद्शाभेदभिन्नप्रयोजनविशेषव्याप्तये वीप्सा द्रष्ट-