सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

२० न्यायमञ्जर्याम्
भट्टपक्षाद्विशेषश्च न कश्चित्कथितो भवेत् ।
नोभयातिशयो ऽप्येष दोषद्वितयसम्भवात् ॥
संवेदनं च तत्केन ग्राह्यं ज्ञानानुमापकम् ।
अनवस्था भवेदस्य ज्ञाने संवेदनान्तरात् ॥
स्वसंवेद्या च संवित्तिरुपरिष्टान्निषेत्स्यते ।
स्मृतिप्रमोषवादे च रजतस्मरणात्मिका ॥
कथं ते फलसंवित्तिः स्वप्रकाशा भविष्यति ।
नाभाति स्मृतिरूपेण न चाप्यनुभवात्मना ॥
न तृतीयः प्रकारो ऽस्ति तत्कथं सा प्रकाशताम् ।
न च क चिदनाकारा संवित्तिरनुभूयते ॥
इयं संविदयं चार्थ इति नास्ति ह्यभेदधीः ।
अर्थाकारानुरक्ता तु यदि संवित्प्रकाशते ॥
बाह्यार्थनिह्नवस्तर्हि त्वया सौगतवत्कृतः ।
स्वप्रकाशमते युक्तं न फलं संविदात्मकम् ॥

वस्तुनः? Yes.
Is there space after comma? असत्त्वात्,कथं or असत्त्वात् , कथं? Looks tight: असत्त्वात्, कथं or असत्त्वात्,कथं.

  • L18:
    भूतवृष्ट्यनुमानं नानर्थजं तत्र धर्मिणो ऽनुमेयत्वात्तस्य च ज्ञानजनकस्य तत्र
    Check: धर्मिणो ऽनुमेयत्वात्तस्य - space before avagraha.

  • L19:
    भावात्, नद्याख्य एव धर्मी वृष्टिमदुपरितनदेशसंसर्गलक्षणेन धर्मेण तद्वाननु-
    Check: भावात्, नद्याख्य

  • L20:
    मीयते विशिष्टसलिलपूरयोगित्वात्, स चानुमानग्राह्यो धर्मी विद्यते एवेति ना-
    Check: comma after योगित्वात्: योगित्वात्, स
    विद्यते एवेति - separate words.

  • L21:
    नर्थजमनुमानम्, कथं तर्हि प्रातिभमनागतार्थग्राहि श्वो मे भ्राताऽऽगन्तेति
    Check: `भ्राताऽऽगन्तेति

नसमर्थपदार्थप्राप्तिपरिहारभूतायाः प्रवृत्तेर्निमित्तं प्रदर्शकत्वमेव ज्ञानप्रदर्शिते हि
विषये प्रवृत्तौ सत्यां प्राप्तिर्भवतीति प्राप्तिं प्रति प्रमाणस्य प्रदर्शकत्वमेव व्या-
पारः, प्रदर्शयता हि तेन सो ऽर्थः प्रापितो भवति यथा हर्तव्यं प्रति राज्ञामाज्ञा-
दानमेव हर्तृत्वम् , तदुक्तम्—प्रापणशक्तिः प्रामाण्यमिति, लोके ऽपि च प्रद्-
र्शितं वस्तु प्रापयतः प्रमाणत्वव्यवहारः, तच्च प्रापकत्वं प्रत्यक्षानुमानयोरुभयो-
रप्यस्तीति प्रमाणसामान्यलक्षणम् , तत्र प्रत्यक्षस्य वस्तुस्वलक्षणविषयत्वात्तस्य
च क्षणिकत्वेन प्राप्त्यसम्भवे ऽपि तत्सन्तानप्राप्तेस्सन्तानाध्यवसायजननमेव
प्रापकत्वम् , अनुमानस्य त्वारोपितार्थविषयत्वे ऽपि मूलभूतवस्तुक्षणपारम्पर्येणप्र-
भवत्वान्मणिप्रभामणिबुद्धिवत्तत्प्राप्त्या प्रापकत्वम् , तदिदमध्यवसितप्रापकत्वं
प्रामाण्यम् अध्यवसितस्या ऽवस्तुत्वेपि तन्मूलवस्तुप्राप्त्या निर्वहति यथाऽध्यव-
सितप्रापकं च प्रमाणमिति मतम् , अतश्च पीतशङ्खादिग्राहिणां शङ्खादिमात्र-
प्राप्तौ सत्यामपि न प्रामाण्यम् , यथा ऽवगतस्याप्राप्तेरवगतो हि पीतः शङ्खः प्रा-
प्यते च श्वेत इति तस्माद्यथा ऽवगतार्थप्रापकत्वमविसंवादकत्वं प्रामाण्यमिति ।
तदेतदनुपपन्नम्—इदमेव तावद्भवान् व्याचष्टां किं प्रदर्शितप्रापकं प्रमाणमु-
ताध्यवसितप्रापकमिति, तत्रानुमाने तावत्प्रदर्शनमेव नास्ति का कथा तत्प्राप-
णस्य, प्रत्यक्षे तु बाढं प्रदर्शनमस्ति न तु प्रदर्शितं प्राप्यते क्षणिकत्वेनातिका-
न्तत्वात् , अध्यवसितप्रापणमपि दुर्घटम् , अध्यवसायस्य भवन्मते वस्तुविष-
यत्वाभावादवस्तुनश्च प्राप्तुमशक्यत्वात्तदुक्तं भवद्भिः यथाध्यवसायमतत्त्वाद्य-
थातत्त्वं चानध्यवसायादिति, मूलभूतवस्तुप्राप्तिस्तु काकतालीयं न तु तदन्यतरे-
णापि प्रमाणेन स्पृष्टं यद्गत्वा प्राप्यते, सन्तानप्राप्त्या तत्प्राप्तिरित्यपि न यु-
क्तम् , सन्तानस्य भेदाभेदविकल्पाभ्यामनुपपद्यमानत्वात् , एतच्च सविस्तरं क्ष-
णभङ्गभङ्गे निरूपयिष्यते ।
ननु काल्पानिके ऽपि सन्ताने सति संवृत्या प्रमाणलक्षणमिदं निर्वक्ष्यति
यथोक्तं सांव्यवहारिकस्यैतत्प्रमाणस्य लक्षणं वस्तुतस्त्वनाद्यविद्यावासनारोपि-
तग्राह्यग्राहकादिभेदप्रपञ्चं ज्ञानमात्रमेवेदमिति किं प्राप्यते को वा प्रापयतीति
सो ऽयं पलायनप्रकार इव प्रस्तूयते, केयं संवृत्तिर्नाम सा ऽपि सत्यसती वा इति
विकल्प्यमाना नैव व्यवहारहेतुर्भवति, अविद्यावासनाकृतश्च न भेदव्यवहारः, किं
तु पारमार्थिक एवेति साधयिष्यते, सांवृत्तसन्तानकल्पनायां वा जात्यवयविप्र-
भृतयो ऽपि सांवृत्ताः किमिति नेष्यन्ते, वृत्तिविकल्पादिबाधकोपहतत्वादिति चेत्
सन्ताने ऽपि समानः पन्था इति कडाशालम्बनमेतत् , तस्मादसम्भवि दर्शित
प्रापकत्वमित्यलक्षणमेतत् अव्यापकं चेदं लक्षणम् , उपेक्षणीयविषयबोधस्या-
व्यभिचारादिविशेषणयोगेन लब्धप्रमाणभावस्याप्यनेनासंग्रहात् ।
ननु को ऽयमुपेक्षणीयो नाम विषयः- स ह्युपेक्षणीयत्वादेव नोपादीयते

चेत्स तर्हि हेय एवानुपादेयत्वादिति नैतद्युक्तम् , उपेक्षणीयविषयस्य स्वसंवेद्य-
त्वेनाप्रत्याख्येयत्वात् ।
हेयोपादेययोरस्ति दुःखप्रीतिनिमित्तता ।
यत्नेन हानोपादाने भवतस्तत्र देहिनाम् ॥
‘ यत्नसाध्यद्वयाभावादुभयस्यापि साधनात् ।
ताभ्यां विसदृशं वस्तु स्वसंविदितमस्ति नः ॥
उपादेये च विषये दृष्टे रागः प्रवर्त्तते ।
इतरत्र तु विद्वेषस्तत्रोभावपि दुर्लभौ ॥
यत्तु अनुपादेयत्वाद्धेय एवेति तदप्रयोजकम् , न ह्येवं भवति यदेतन्नपुंसकं
स पुमान् अस्त्रीत्वात् स्त्री वा नपुंसकम्पुंस्तत्वादिति स्त्रीपुंसाभ्यामन्यदेव नपुंस-
कं तथोपलभ्यमानत्वात्, एवमुपेक्षणीयो ऽपि विषयो हेयोपादेयाभ्यामर्थान्तरं
तथोपलम्भादिति ।
यदेतत्तृणपर्णादि चकास्ति पथि गच्छतः ।
न धीश्छत्रादिवत्तत्र न च काकोदरादि(१)वत् ॥
तस्मादुपेक्षणीयज्ञानस्य तमप्रापयतो ऽपि प्रामाण्यदर्शनान्न प्रापकत्वं तल्ल-
क्षणम् ।
ननु यावान्प्रामाण्यस्य व्यापारः प्रापणं प्रति तावानुपेक्षणीयज्ञानस्य
तमप्रपायतो ऽपि प्रामाण्यविषये तेन साधितः, उक्तं हि राज्ञामादेष्टृत्वमेव हन्तृ-
त्वं प्रदर्शकत्वमेव ज्ञानस्य प्रापकत्वमिति, मैवम्--
एवं प्रदर्शकत्वं स्यात्केवलं तस्य लक्षणम् ।
तच्च प्रचलदर्कांशुजलज्ञाने ऽपि दृश्यते ॥
ननु तत्र विपरीताध्यवसायजननादप्रामाण्यं दर्शनं हि मरीचिस्वलक्षणवि-
षयमेव सलिलावसायं तु जनयदप्रमाणीभवति तथा ह्येकमेव दर्शनमनुकूलेतर-
विकल्पोपजननतदनुत्पादभेदात् त्रिधा कथ्यते प्रमाणम् , अप्रमाणं प्रमाणं च न
भवतीति, नीलज्ञानं हि नीलं प्रति प्रमाणं नीलमिदमित्यनुकूलविकल्पोपजनना-
त् , नीलाव्यतिरेकि क्षणिकत्वमपि तेन गृहीतमेव, तत्र तु प्रमाणं न भवत्यनु-
कूलविकल्पानुत्पादात्, स्थैर्ये तु तदप्रमाणं विपरीतावसायकलुषितत्वादिति,
यद्येवमस्मिन्प्रक्रमे सुतरामिदं प्रमाणलक्षणं दुःस्थम्, सन्तानाध्यवसायः प्रापणं
प्रति प्रमाणस्य व्यापार इति च वर्णितवानसि, अतश्च यथा मरीचिस्वलक्षण-
दर्शनमुदकाध्यवसायजननादप्रमाणमेवं स्वलक्षणदर्शनमपि तद्विपरीतसन्ताना-
ध्यवसायजननादप्रमाणीभवेदिति, सन्ताने च काल्पनिके व्यवसिते दृश्याभिमुखः
किमिति प्रवर्त्तते दृश्यविकल्प्यावर्थावेकीकृत्य प्रवर्त्तते यदि वा अविवेकात्प्रा-


( १ ) काकोदरः फणी ।

२४ न्यायमञ्जर्याम्
प्तिः स्यात्प्रमाणामपि दूरतस्तस्याः, तस्मान्न प्रापकं प्रमाणम् ,
अपि च प्राप्यप्राप्ती पुरुषेच्छामात्रहेतुके भवतः अर्थप्रतीतिरेव प्रमाण-
कार्याऽवधार्यते मानस्य लक्षणमतः कथयद्भिस्तद्विशेषणं वाच्यं न पुनः प्रापण-
शक्तिः प्रामाण्यं कथयितुं युक्तम् ।
सांख्याभिमतप्रमाणलक्षणपरीक्षा—
सांख्यस्तु बुद्धिवृत्तिः प्रमाणमिति(१) प्रतिपन्नः विषयाकारपरिणतेन्द्रियादि-
वृत्त्यनुपातिना बुद्धिवृत्तिरेव पुरुषमुपरञ्जयन्ती प्रमाणम् , तदुपरक्तो हि पुरुषः
प्रतिनियतविषयद्रष्टा सम्पद्यते ।
तदेतदहृदयङ्गमम् , यो हि जानाति बुद्ध्यते ऽध्यवस्यति न तस्य तत्फल-
मर्थदर्शनमचेतनत्वान्महतः, यस्य चार्थदर्शनं न स जानाति न बुद्ध्यते नाध्य-
वस्यतीति भिन्नाधिकरणत्वं प्रमाणफलयोः, ज्ञानादिधर्मयोगः प्रमाणं पुंसि न
विद्यते तत्फलमर्थदर्शनं बुद्धौ नास्तीति ।
अथ स्वच्छतया पुंसो बुद्धिवृत्त्यनुपातिनः ।
बुद्धेर्वा चेतनाकारसंस्पर्श इव लक्ष्यते ॥
एवं सति स्ववाचैव मिथ्यात्वं कथितं भवेत् ।
चिद्धर्मो हि मृषा बुद्धौ बुद्धिधर्मश्चितौ मृषा ॥
साकारज्ञानवादांश्च नातीवैष विशिष्यते ।
त्वत्पक्ष इत्यतो ऽमुष्य तन्निषेधान्निषेधनम् ॥
निरसिष्यते च सकलः कपिलमुनिप्रक्रियाप्रपञ्चो ऽयम् ।
तस्मान्न तन्मते ऽपि प्रमाणमवकल्पते किञ्चित् ॥
तीर्थान्तराभिहितरूपमतः प्रमाणं नैवापवादरहितं प्रतिकल्पयामः ।
तेनामलप्रमितिसाधनमिन्द्रियादिसाकल्यमेव निरवद्यमुशन्ति मानम् ॥
प्रमाणलक्षणतद्विभागौ—
तच्चतुर्विधं प्रमाणंतदाह सूत्रकारः, प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि।
इह हि भेदवतः प्रथमं सूत्रोद्दिष्टस्य त्रयं वक्तव्यं सामान्यलक्षणं विभागो
विशेषलक्षणं च, तत्र विशेषलक्षणप्रतिपादकानि चत्वारि सूत्राणि भविष्यन्ती-
( १ ) सांख्यस्त्विति । यदाहुर्वाचस्पतिमिश्रपादाः 'उपात्तविषयाणामिन्द्रियाणां
वृत्तौ सत्यां बुद्धेस्तमोऽभिभवे सति यः सत्त्वसमुद्रेकः सोऽध्यवसाय इति वृत्तिरिति ज्ञान-
मिति चाख्यायते तदिदं प्रमाणम्'इति । एतदुक्तं भवति इन्द्रियसन्निकर्षद्वारा यस्तमो-
ऽभिभवसमसमयसत्त्वसमुद्रेकप्रयुक्तो बुद्धेर्विषयाकारपरिणामः स प्रत्यक्षप्रमाणम्, व्या-
प्तिज्ञानजन्यश्च तथाविधः परिणामोऽनुमानप्रमाणं, वाक्यजन्यश्च तथाविधः परिणामः
आगमप्रमाणमिति ।

न्द्रियार्थसन्निकर्षोत्पन्नम् इत्यादीनि, इह तु विभागसामान्यलक्षणे प्रतिपाद्येते ।
एकेनानेन सूत्रेण द्वयं चाह महामुनिः ।
प्रमाणेषु चतुःसङ्ख्यं तथा सामान्यलक्षणम् ॥
प्रत्यक्षानुमानोपमानशब्दसन्निधाने प्रमाणश्रुतिरुच्चरन्ती चत्वार्येव प्रमाणा-
नीति दर्शयति ।
ननु न 'चत्वारि प्रमाणानि' इति संख्यावचनः शब्दः श्रूयते नापि प्रत्यक्षादी-
न्येवेत्यवधारणश्रुतिरस्ति तत्कुतः, इयत्तानियमावगमः, शब्दशक्तिस्वभावादिति
ब्रूमः, गर्गांस्त्रीन् भोजय यज्ञदत्तदेवदत्तावानयेति विना संख्याशब्दमेवकारं
च भवत्येव ( त्रित्व ) द्वित्वनियमावगमः, एवमिहापि प्रत्यक्षानुमानोपमानश-
ब्दाः प्रमाणानीत्युक्ते सामर्थ्यान्न्यूनाधिकसंख्याव्यवच्छेदो ऽवधार्यते इत्येवं
तावद्विभागावगमः ।
सामान्यलक्षणं तु प्रमाणपदादेव समाख्यानिर्वचनसामर्थ्यसहितादवग-
म्यते, प्रमीयते येन तत्प्रमाणमिति करणार्थाभिधायिनः प्रमाणशब्दात्प्रमाक-
रणं प्रमाणमवगम्यते , तच्च प्रागेव दर्शितम् , प्रसिद्धसाधर्म्यात्साध्यसाधनमु-
पमानमिति च मध्ये साध्यसाधनग्रहणमुपाददानः सूत्रकारः सर्वप्रमाणसाधा-
रणं रूपमिदं परिभाषते, यत्साध्यसाधनस्य प्रमाकरणस्य प्रमाणत्वमिति, अशु-
द्धप्रमितिविधायिनस्तु प्रामाण्यं प्रसज्यते इति स्मृतिसंशयविपर्ययजनकव्यव-
च्छेदाय प्रत्यक्षसूत्रादर्थोत्पन्नमित्यव्यभिचारीति व्यवसायात्मकमिति च पदत्रय-
माकृष्यते तद्धि प्रमाणचतुष्टयसाधारणम् , अर्थोत्पन्नपदेन फलविशेषेण स्मृति-
जनकम् अव्यभिचारिपदेन विपर्ययाधायि व्यवसायात्मकपदेन संशयजनकं प्र-
माणं व्युदस्यते, अतश्चैवमुक्तं भवति अर्थविषयमसन्दिग्धमव्यभिचारि च
ज्ञानं येन जन्यते तत्प्रमाणमित्येवमेकस्मादेव सूत्रात्सामान्यलक्षणं विभाग-
श्चावगम्यते ।
नन्वेकस्य सूत्रस्य विभागसामान्यलक्षणपरत्वेन वाक्यभेदः, अर्थैकत्वाच्चैकं
वाक्यं युक्तम् , उच्यते--
श्रुत्यर्थद्वारकानेकवस्तुसूचनशालिषु ।
सूत्रेष्वनेकार्थविधेर्वाक्यभेदो न दूषणम् ॥
प्रमाणान्तरसंस्पर्शशून्ये शब्दैकगोचरे ।
प्रमेये वाक्यभेदादि दूषणं किल दूषणम् ॥
अर्थद्वयविधानं हि तत्रैकस्य न युज्यते ।
राजा स्वाराज्यकामो वाजपेयेन यजेतेति गुणविधिपक्षे स्वाराज्यं प्रति यागो
विधातव्यो यागं च प्रति वाजपेयगुणे विधातव्य इत्येकस्य वाक्यस्य परस्प-
४ न्या०

२६ न्यायमञ्जर्याम्
रविरुद्धविध्यनुवादादिरूपापत्तेरर्थद्वयविधानमतिदुर्घटम्(१) , इह पुनः प्रमाणा-
न्तरपरिनिश्चतार्थसूचनचातुर्यमहार्घेषु सूत्रेषु नानार्थविधानं भूषणं भवति न दूष-
णम् , अनेकार्थसूचनादेव सूत्रमुच्यते, एतदेव सूत्रकाराणां परं कौशलं यदेके-
नैव वाक्येन स्वल्पैरेवाक्षरैरनेकवस्तुसमर्पणम् , अध्याहारेण वा तन्त्रेण वा
ऽऽवृत्त्या वा तमर्थं प्रत्याययिष्यति सूत्रमिदमिति न दोषः, विभागसामान्यल-
क्षणयोर्विधाने पौर्वापर्यनियमो विशेषणलक्षणन्नास्तीति तन्त्रेण युगपदुभयाभिधा-
नमपि न विरुध्यते विशेषलक्षणमनुक्ते(२) सामान्यलक्षणविभागयोस्तु यथारुचि
प्रतिपादनमादौ विभागः ततः सामान्यलक्षणम्, आदौ वा सामान्यलक्षणं ततो
विभागः, सिद्धान्तच्छलवदुभयं वा युगपदेव प्रतिपाद्यते इति तन्त्रेणावृत्त्या वा
तदुपपादने न कश्चिद्दोष इति ।
प्रमाणविभागाक्षेपः —
आस्तां तावदिदं सूत्रे तन्त्रावृत्त्यादिचिन्तनम् !
चतुःसङ्ख्या प्रमाणेषु ननु न क्षम्यते परैः ॥
न्यूनाधिकसङ्ख्याप्रतिषेधेन हि चत्वारि प्रमाणानि प्रतिष्ठाप्येरन् , स च दु-
रुपपादः, तथाहि प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः, प्रत्यक्षानुमाने द्वे एवेति
बौद्धाः, प्रत्यक्षमनुमानमाप्तवचनं चेति त्रीणि प्रमाणानीति साङ्ख्याः, आधि-
क्यमपि प्रमाणानां मीमांसकप्रभृतयः प्रतिपन्नवन्तः, तत्कथं चत्वार्येव प्रमाणा-
नीति विभागनियमः—
उच्यते, अनुमानप्रामाण्यं वर्णयन्तो बार्हस्पत्यं तावदुपरिष्टात्प्रतिषेत्स्या-
मः, शब्दस्य चानुमानवैलक्षण्यं तल्लक्षणावसरे एव वक्ष्यते इति शाक्यपथो
ऽपि न युक्तः ।
( १ ) ‘वाजपेयेन स्वाराज्यकामो यजेत’ इति वाजपेयशब्दः गुणविधिरुतकर्म-
नामधेयम् इति सन्देहे यजेतेत्याख्यातस्य गुणफलाभ्यां तन्त्रेण संबन्धे स्वाराज्योद्दे-
श्येन यागे यागोद्देश्येन च वाजपेयगुणे विधातुं शक्य इति गुणविधिरयमिति पूर्व-
पक्षे तन्त्रेणोभयविधौ विरुद्धत्रिकद्वयापत्तिरतः आवृत्त्योभयविधौ च वाक्यभेद इति
कर्मनामधेयमिति सिद्धान्तः विरुद्धत्रिकद्वयं च—
उपादेयविधेयत्वगुणत्वाह्वं त्रिकं यजेः ।
उद्देश्यानूक्तिमुख्यत्वत्रिकं तस्य गुणं प्रति ।।
इति न्यायमालायां निरूपितम् ।
( २ ) अत्र सामान्यलक्षणे न संभवतीति पूरणीयम् (श्रीम०म०गङ्गाधरशास्त्री) ।

पृष्ठभाविनां विकल्पानामेव च दर्शनविषये कृतपरिच्छेदतदितरवि-
Wait, "तथा ऽपि": there is a space before ऽपि.

Line 26:
षयव्यवच्छेदतृतीयप्रकाराभावव्यवस्थापनपर्यन्तव्यापारपाटवमवगन्तव्यमितर-

Line 27:
था व्यवहाराभावात् , एवं च परस्परं परिहारव्यवस्थितस्वरूपपदार्थव्यवच्छेदि-
Note the space before comma: व्यवहाराभावात् ,

Line 28:
प्रत्यक्षप्रभावावगतविरोधात्प्रत्यक्षेतरविषययोस्तृतीयविषयासत्त्वपरिनिश्चये ऽनु-
Note space before ऽनु: ऽनु-

Line 29:
मानमपि प्रवर्त्तितुमुत्सहते विरुद्धयोरेकतरपरिच्छेदसमये द्वितीयनिरासनमवश्यं
Note "प्रवर्त्तितुमुत्सहते" with double त्त.

Line 30:
भाति विरुद्धत्वादेव शीतोष्णवन्, तृतीयविषयो ऽपि तद्विरुद्ध एव तद्बुद्धावप्र-
Note: "शीतोष्णवन्," - with halanta न! Yes, look at it: 'शीतोष्णवन्,' with a comma!

Line 31:
[

२८ न्यायमञ्जर्याम्
सीति, भोः साधो नात्र पृथग्ग्रहणमुपयुज्यते तद्बुद्ध्यनवभासमात्रेणैव तद्विरोध-
सिद्धेः, विरुद्धं हि तदुच्यते यत्तस्मिन् गृह्यमाणे न गृह्यते तदिदमग्रहणमेव वि-
रोधावहमिति न पृथग्ग्रहणमन्वेषणीयम्, एवमितरेतरपरिहारव्यवस्थितानाम-
र्थानां न तृतीयो राशिरस्तीति सर्वथा सिद्धं विषयद्वैविध्यम्, एवमेव सद्-
सन्नित्यानित्यक्रमयौगपद्यादिषु प्रकारान्तरपराकरणमवगन्तव्यम्, तत्र प्रत्यक्षे
स्वलक्षणामनि विषये प्रत्यक्षं प्रवर्त्तते, परोक्षे तु सामान्याकारे ऽनुमानमिति ।
प्रमाणद्वयसिद्धे च विषयद्वयवेदने ।
वद कस्यानुरोधेन तृतीयं मानमिष्यताम् ॥
न चास्मिन्नेव परोक्षे सामान्यात्मनि विषये ऽनुमानमिव शब्दाद्यपि प्रमा-
णान्तरं प्रवर्त्तते इति वक्तुं युक्तम्, एकत्र विषये विरोधविफलत्वाभ्यामनेकप्र-

प्रमाणप्रकरणम् २९
अपि च--
अन्यदेवेन्द्रियग्राह्यमन्यः शब्दस्य गोचरः ।
शब्दात्प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्ष्यते ॥
आह च--
अन्यथैवाग्निसम्बन्धाद्दाहं दग्धो ऽभिमन्यते ।
अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ॥
तस्मादुक्तेन वर्त्मना विषयद्वैविध्यनिश्चयान्न तृतीयं प्रमाणमस्ति, न च
संप्लव इति,
बौद्धाभिमतप्रमाणद्वैविध्यनिराकरणम् ।
अत्राभिधीयते--
यत्तावदिदमाख्यायि राश्यन्तरनिराकृतौ ।
प्रत्यक्षस्यैव सामर्थ्यमित्येतन्नोपपद्यते ॥
पूर्वापरानुसन्धानसामर्थ्यरहितात्मना ।
भारः कथमयं वोढुमविकल्पेन पार्यते ॥
विकल्पाः पुनरुत्प्रेक्षामात्रनिष्ठितशक्तयः ।
तेभ्यो वस्तुव्यवस्थायाः का कथा भवतां मते ॥
अथ वा भवतु नाम नीलादावुक्तेन प्रकारेण राश्यन्तरनिराकरणं प्रत्यक्ष-
परोक्षनिर्णये तु नैष प्रकारो योजयितुं शक्यते, विषये हि प्रवृत्तं प्रत्यक्षं विषय-
स्वरूपमेव परिच्छिनत्ति न पुनस्तस्य प्रत्यक्षतामपि, नीलमिदमिति हि सम्वे-
द्यते न पुनः प्रत्यक्षमिदमिति, तथा हि-किमिदं विषयस्य प्रत्यक्षत्वं नाम कि-
मक्षविषयत्वम् उताक्षज्ञानविषयत्वमिति, तत्राक्षविषयत्वं तावदन्वयव्यति-
रेकसमधिगम्यमेव न प्रत्यक्षगम्यम् , तथा ऽऽह भट्टः--
न हि श्रावणता नाम प्रत्यक्षेणावगम्यते ।
नान्वयव्यतिरेकाभ्यां ज्ञायते बधिरादिषु ॥ (१)इति ।
अक्षज्ञानकर्मत्वमपि प्रत्यक्षत्वं तदानीं परिच्छेत्तुमशक्यमेव विषयप्रति-
भासकाले तत्प्रतिभासस्याप्रतिभासात्, तद्ग्रहणमन्तरेण च तत्कर्मताग्रहणास-
म्भवात् , कथं पुनर्विषयग्रहणकाले तज्ज्ञानस्यानवभासः, नैव युगपदाकारद्वितयं
प्रतिभासते, इदं ज्ञानमयं चार्थ इति भेदानुपग्रहात्, एकश्चायमाकारः प्रतिभा-
समानो ग्राह्यस्यैव भवितुमर्हति न ग्राहकस्येति वक्ष्यते ।
ननु च नागृहीतं ज्ञानमर्थप्रकाशनकुशलं भवतीत्याहुरप्रत्यक्षोपलम्भस्य
नार्थदृष्टिः प्रसिध्यतति, प्रत्यक्षोपलम्भस्य नार्थदृष्टिरुपलम्भ एव प्रत्यक्ष इति
( १ ) श्लोकवार्तिके अनुमानपरिच्छेदे ६० ।

३० न्यायमञ्जर्याम्
द्वितीयाकारानवभासात्कुतो ऽर्थदृष्टिः, यदि च गृहीतं ज्ञानमर्थं प्रकाशयेन्न द्वयीं
गतिमतिवर्त्तेत तद्धि ज्ञानं ज्ञानान्तरग्राह्यं वा भवेत्स्वप्रकाशं वा, ज्ञानान्तर-
ग्राह्यत्वे ऽनवस्था मूलक्षतिकरी चेयमित्यन्धमूकं जगत्स्यादुपलम्भप्रत्यक्षतापूर्वक-
कार्यप्रत्यक्षवादिनः, नापि स्वप्रकाशं ज्ञानं ज्ञेयत्वान्नीलपीतादिवत्, विस्तर-
तस्तु स्वप्रकाशं विज्ञानं विज्ञानवादिनिराकरणे निराकरिष्यामः,
न च ज्ञानस्याप्रत्यक्षतायां तदुत्पादानुत्पादयोरविशेषादज्ञत्वं सर्वज्ञत्वं वा
परिशङ्कनीयम्, विज्ञानोत्पादमात्रेण ज्ञातुर्ज्ञातृत्वसिद्धेः, विषयप्रकाशस्वभाव-
मेव ज्ञानमुत्पद्यते इति कथमुत्पन्नमनुत्पन्नान्न विशिष्यते, यथा च नीलादिविष-
यज्ञानोत्पत्त्या ऽस्य ज्ञातृत्वं तथा सुखादिविषयज्ञानोत्पत्त्या भोक्तृत्वमिति
तत्रापि नातिप्रसङ्गः, तस्माद्विषयविज्ञानकाले तद्विज्ञानग्रहणान्न तत्कर्मत्वकृतं
विषयप्रत्यक्षत्वमवभासते तदप्रतिभासे च न परोक्षान्यव्यवच्छेदो न च तृतीयप्र-
कारासात्त्वसूचनमिति कथं प्रत्यक्षं विषयद्वित्वसिद्धौ प्रमाणम्—
यच्चानुमानमप्युक्तं विषयद्वयसिद्धये ।
तत्प्रत्यक्षपरिच्छिन्नतद्विरोधनिबन्धनम् ॥
विरोधबोधसामर्थ्यं प्रत्यक्षस्य च दूषितम् ।
तदग्रहे च तन्मूलमनुमानं न सिध्यति ॥
एवं च विषयद्वित्वसाधनानुपपत्तितः ।
तत्कृतस्त्यज्यतामेष प्रमाणद्वित्वदोहदः ॥
अथ वा सत्यपि विषयद्वैविध्ये सामग्रीभेदात्फलभेदाच्च प्रमाणभेदो भवन्क-
थमपाक्रियते—
अन्ये एव हि सामग्रीफले प्रत्यक्षाल्लिङ्गयोः ।
अन्ये एव च सामग्रीफले शब्दोपमानयोः ॥
इति वक्ष्यामः ।
तेन तद्भेदादपि प्रमाणभेदसिद्धेर्न द्वे एव प्रमाणे, एतेन त्रीणि प्रमाणानीति
सांख्यव्याख्याता ऽपि तत्संख्या प्रत्याख्याता, सामग्रीफलभेदेनोपमानस्य चतु-
र्थप्रमाणस्य प्रतिपादयिष्यमाणत्वादिति ।
बौद्धनिराकृतप्रमाणसंप्लवसमर्थनम्—
यत्पुनरेकस्मिन्विषये ऽनेकप्रमाणप्रसरं निरस्यता सौगतेन संप्लवपराकर-
णमकारि तदपि मतिमोहविलसितम् , असति संप्लवे ऽनुमानप्रामाण्यप्रतिष्ठा-
पनानुपपत्तेः,
न ह्यविज्ञातसम्बन्धं लिङ्गं गमकमिष्यते ।
सम्बन्धधीश्र्च सम्बन्धिद्वयावगतिपूर्विका ॥

प्रमाणप्रकरणम् ३१
सामान्यात्मकसम्बन्धिग्रहणं चानुमानतः ।
तस्मादेव यदीष्येत व्यक्तमन्योन्यसंश्रयम् ॥
अनुमानान्तराधीना सम्बन्धग्रहपूर्विका ।
सम्बन्धाधिगतिर्न स्यान्मन्वन्तरशतैरपि ॥
तेन दूरे ऽपि सम्बन्धग्राहकं लिङ्गलिङ्गिनोः ।
प्रत्यक्षमुपगन्तव्यं तथा सति च संप्लवः ॥
तन्नैतत्स्यादविदितसौगतकृतान्तानामेतच्चोद्यम, ते हि—
विकल्पविषये वृत्तिमाहुः शब्दानुमानयोः ।
तेभ्यः सम्बन्धसिद्धौ च नानवस्था न संप्लवः ॥
तथा हि-दर्शनसमनन्तरोत्पद्यद्यवाप्रदर्शनच्छायाऽनुरज्यमानवपुषो विकल्पाः
प्रत्यक्षायन्ते तदुल्लिखितकाल्पनिकतदितरपरावृत्तिस्वभावसामान्याकारप्रविष्टो
ऽयमनुमानव्यवहारः, पारम्पर्येण मणिप्रभामणिबुद्धिवत्तन्मूल इति तत्प्राप्तये
ऽवकल्पते न पुनः प्रत्यक्षैकसमधिगम्यं वस्तु स्पृशति इति कुतः संप्लवः कुतो
वा ऽनवस्था ।
तदेतद्वञ्चनामात्त्रम् -- यो हि(१) तादात्म्यतदुत्पत्तिस्वभावः प्रतिबन्ध इष्यते
स किं वस्तुधर्मो विकल्पारोपिताकारधर्मो वा तत्र नायमारोपितधर्मो भवितुम-
र्हति, वस्तु वस्तुना जन्यते वस्तु च वस्तुस्वभावं भवेत् , तस्माद्वस्तुधर्मः प्रति-
बन्धः, विकल्पैश्च वस्तु न स्पृश्यते तत्प्रतिबन्धश्च निश्चीयते इति चित्रम्,
इदं च स्वभाषितं वस्तुनोः प्रतिबन्धस्तादात्म्यादि गम्यगमकत्वं च विकल्पारो-
पितयोरपोह्योस्तदेवमन्यत्र प्रतिबन्धो ऽन्यत्र तद्ग्रहणोपायो ऽन्यत्र प्रतीतिर-
( १ ) यो हीति । बौद्धा हि तादात्म्यतदुत्पत्तिभ्यामेव व्याप्तिरिति मन्यन्ते त-
दुक्तं वाचस्पतिमिश्रपादैस्तात्पर्यटीकायाम् 'केचिदविनाभावं तादात्म्यतदुत्पत्तिनि-
बन्धनानुमानाङ्गमाहुः द्विविधो ह्यर्थः प्रत्यक्षश्च परोक्षश्च तत्र यो बुद्धौ साक्षादात्मीयं
रूपं निवेशयति स प्रत्यक्षः स हि स्वविषयाया बुद्धेर्जनकः इति तमन्तरेण बुद्धिश्चात्मान-
मनासादयन्ती तस्य सत्तां निश्चाययतीति युक्तम् परोक्षस्तु बुद्धौ साक्षात्स्वरूपोपधान-
रहितोऽयुक्तप्रतिपत्तिरेव न चान्यदर्शनेऽन्यकल्पना युक्ता अतिप्रसङ्गात् नान्तरीयकत्या
तु अन्योऽप्यन्यं गमयेत् स हि प्रतिबद्धस्वभावो यथाविधः सिद्धस्तथाविधसन्निधानं
सूचयति स च प्रतिबन्धो न दर्शनमात्रावसेयस्तथासति स श्यामो मैत्रतनयत्वात् परि-
दृश्यमानमैत्रतनयस्तोमवदित्यनुमानं स्यात् इहापि स्तो दर्शनादर्शने तस्मात्तादात्म्य-
तदुत्पत्तिनिबन्धन एव प्रतिबन्धः ( व्याप्तिः ) यदाह—
कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् ।
अविनाभावनियमोऽदर्शनान्न न दर्शनात्' ॥ इति ।

न्यत्र प्रवृत्तिप्राप्ती इति सर्वं कैतवम् , न च दृश्यसंस्पर्शशून्यात्मनां विकल्पानां
दर्शनच्छाया का चन संभवतीदन्ताग्राहित्वस्पष्टत्वाद्यपि वस्तुस्पर्शरहितमकि-
ञ्चित्करमप्रमाणत्वानपायात् ।
अप्रमाणपरिच्छिन्नः प्रतिबन्धश्च तत्त्वतः ।
न परिच्छिन्न एवेति ततो मिथ्या ऽनुमेयधीः ॥
अथाभिमतमेवेदं बुद्ध्यारूढत्ववर्णनात् ।
हन्त तात्त्विकसंबन्धसाधनव्यसनेन किम् ॥
यथा च सामान्यविषये प्रत्यक्षाभ्युपगममन्तरेण संबन्धग्रहणमघटमान-
मिति विसंष्ठलमनुमानम् , एवमवगतसंबन्धस्य द्वितीयलिङ्गदर्शनमपि दुरुपपा-
दमिति ततो ऽपि संप्लवापलापिनामनुमानमुत्सीदेत् ।
न ह्यसाधारणांशस्य लिङ्गत्वमुपपद्यते ।
विना न चानुमानेन सामान्यमवगम्यते ॥
सैवानवस्था तत्रापि तदेवान्योन्यसंश्रयम् ।
स एव च विकल्पानां सामर्थ्यशमनक्रमः ॥
अतः संबन्धविज्ञानलिङ्गग्रहणपूर्वकम् ।
अनुमानमनिन्हुत्य कथं संप्लवनिह्नवः ॥
अपि च विषयद्वैविध्यसिद्धावपि प्रत्यक्षानुमाने एव परस्परमपि संप्लवे-
याताम् । यतः—
प्रत्यक्षत्वं परोक्षो ऽपि प्रत्येक्षो ऽपि परोक्षताम् ।
देशकालादिभेदेन विषयः प्रतिपद्यते ॥
क्षणभङ्गं निषेत्स्यामः संतानो यश्च कल्पितः ।
दर्शितप्राप्तिसिद्ध्यादौ संप्लवे ऽपि स तादृशः ॥
यदपि जात्यादिविषयनिषेधनमनोरथैः संप्लवपराकरणमध्यवसितं तत्र
जात्यादिसमर्थनमेवोत्तरीकरिष्यते ।
तावकेर्दूषणगणैः कालुष्यमपनीयते ।
तद्वानवयवी जातिरिति वात्तकभद्रिका ॥
यदपि विरोधवैफल्याभ्यां न संप्लव इत्युक्तं तत्र वैफल्यमनधिगतार्थगन्तृ-
त्वविशेषणादिवारणेनैव प्रतिसमाहितम्, विरोधोऽपि नास्ति पूर्वज्ञानोपमर्देन
नेदं रजतमितिवदुत्तरज्ञानानुत्पादात्, अनेकधर्मविसरविशेषितवपुषि धर्मि-
णि कदा चित्केन चित्कश्चिन्निश्चीयते धर्मविशेष इति को विरोधार्थः ।
यदपि प्रत्यक्षस्य शब्दलिङ्गयोश्च समानविषयत्वे सति सदृशप्रतीतिजनक-
त्वमाशङ्कितं तत्र के चिदाचक्षते विषयसाम्ये ऽप्युपायभेदात्प्रतीतिभेदो भवत्येव
दूराविदूरदेशव्यवस्थितपदार्थप्रतीतिवत् ।

aa-matra? Look at the width: शे (normal), then ष is normal width. Then there is an aa-matra? No, the next letter is सा. सा consists of स + ा.
Wait, then why did the user prompt or someone think "विशेषासाक्षात्कारणम्"?
Ah! In the prompt, the user didn't write it, I was reading it!
Let's look with fresh eyes at the original print:
स-क-ल-वि-शे-ष-सा-क्षा-त्-का-र-ण-म्
Wait, is it "सकलविशेषसाक्षात्करणम्" or "सकलविशेषासाक्षात्कारणम्"?
Let's look at:
स (sa)
क (ka)
ल (la)
वि (vi)
शे (she)
ष (sha)
सा (saa)
क्षा (ksha)
त् (t)
का (kaa)
र (ra)
ण (na)
म् (m)
Wait, look at the letter between शे and सा:
It is just ष!
Wait, look at the letter between त् and र:
Wait, is there an aa-matra?
Let's look at "का":
Look at "का" in "स्वर्गकाम" (line 14): क followed by a vertical stroke.
In line 3, between त् and र:
There is क, and then an aa-matra? No, wait

सदुपलम्भकप्रमाणप्रत्यस्तमयपूर्वकमिति तु सदुपलम्भकमस्त्येव
Wait, look at line 27:
What is the character between "सकल" and "सदुपलम्भक"?
Look at the mark above "स" or between "ल" and "स":
There is a small crescent with dot (ँ) or a correction mark?
Look closely at line 27:
"सकलसदुपलम्भक"
Above the 'स' of 'सदुपलम्भक', there is a small curl/hook! Like a kākapada or inverted crescent, or is it an avagraha/sign?
Wait, look at line 2:
प्रमाणैकदेशविषयत्वेन
In line 1:
गता[ँ?] No, look at line 2: above "प्रमेयविषया" there is a curved mark: "ँ" on top of the shirorekha!
Wait, why are there these marks?
Line 1-2: above 'प' of 'प्रमेय', there is an inverted crescent 'ँ' or number.
Line 27: above 'स' of 'सदुपलम्भक', there is a mark: like an inverted hat or 'ँ' or insertion mark.
Wait, let's read the text of line 27:
"सकलसदुपलम्भकप्रमाणप्रत्यस्तमयपूर्वकमिह तु सदुपलम्भकमस्त्येव"
Wait! Look

धूमादिलिङ्गग्रहणसमये न मनागपि तल्लिङ्गतदनुमेयदहनलिङ्ग्यनुप्रवेशस्पर्शो
विद्यते इति ।
नन्वर्थापत्तावपि किं प्रमेयानुप्रवेशो न दोषः न दोष इति ब्रूमः(१), प्रमाण-
द्वयसमर्पितैकवस्तुविषयाभावभावसमर्थनार्थमर्थापत्तिः प्रवर्त्तमाना प्रमेयद्वयं परा
मृश्येव अन्यथा तत्संघटनायोगात् , अतश्च येयमागमादनियतदेशतया क्व चि-
दस्तीति संवृत्तिरभूत्सैवेयं गृहाभावे गृहीते बहिरस्तीति संविदधुना संवृत्ता
तदतो वैलक्षण्यान्नानुमानमर्थापत्तिः, अतश्चैवं सम्बन्धग्रहणाभावात् ।
भावाभावौ हि नैकेन युगपद्धिधूमवत् ।
प्रतिबन्धतया रोढुं शक्यौ गृहबहिःस्थितौ ॥
अन्यथाऽनुपपत्त्या च प्रथमं प्रतिबन्धधीः ।
पश्चाद्यद्यनुमानत्वमुच्यते काममुच्यताम् ॥
नन्वस्त्येव गृहद्वारे वर्त्तिनः सङ्गतिग्रहः ॥
भावेन भावसिद्धौ तु कथमेष भविष्यति ॥
यत्र गृहे चैत्रस्य भावमवगम्य तदन्यथाऽनुपपत्त्या तदन्यदेशेषु नास्तित्व-
वगम्यते तत्र देशानामानन्त्याद् दुरधिगमः प्रतिबन्धः, अनग्निव्यतिरेकनिश्चये
धूमस्य का वार्त्तेति चेदुच्यते-तत्र धूमज्वलनयोरन्वयग्रहणसम्भवान्न व्यतिरे-
कग्रहणमाद्रियेरन् भूयोदर्शनसुलभनियमज्ञानसम्पाद्यमानसाध्याधिगमननिर्वृत-
मनसां किमनग्निव्यतिरेकनिश्चयेन, इह पुनरन्वयावसायसमये एव गम्यधर्मस्य
दुरवगमत्वमुक्तमनन्तदेशवृत्तित्वात् , अनुपलब्ध्या तन्निश्चय इति चेद् न, म-
न्दिरव्यतिरिक्तसकलभुवनतलगततदभावनिश्चयस्य नियतदेशया ऽनुपलब्ध्या
कर्त्तुमशक्यत्वात् , तेषु तेषु देशान्तरेषु परिभ्रमन्नुपलब्ध्या तदभावं निश्चेष्या-
मीति चेद् , मैवम्—
गत्वा गत्वा ऽपि तान्देशान्नास्य जानामि नास्तिताम् ।
कौशाम्ब्यास्त्वयि निष्क्रान्ते तत्प्रवेशादिशङ्कया ॥
तस्माद्भूमिरीयमसर्वज्ञानामित्यर्थापत्त्यैव तन्निश्चयः ।
नन्विस्थममुमर्थमनुमानान्निश्चेष्यामः, देशान्तराणि चैत्रशून्यानि चै-
त्राधिष्ठितव्यतिरिक्तत्वात् तत्समीपदेशवदिति, न प्रत्यनुमानोहत्वात् , देशा-
न्तराणि चैत्रान्यतिरिक्तानि तत्समीपदेशव्यतिरिक्तत्वाच्चैत्राधिष्ठितदेशव-
दिति, तस्मान्नियतदेशोपलभ्यमानपरिमितपरिमाणपुरुषशरीराऽन्यथानुपपत्त्यैव
तदितरसकलदेशनास्तित्वावधारणं तस्येति सिद्धम् ।
पीनो दिवा च नात्तीति साकाङ्क्षवचनश्रुतेः ।
तदेकदेशविज्ञानं श्रुतार्थापत्तिरुच्यते ॥
( १ ) किं प्रमेयानुप्रवेशो न दोष इति ब्रूम इत्यनन्वित आदर्शापुस्तकस्थः पाठः ।

वणाद्" -> "रात्र्यादिपदानामाश्रवणाद्" would be with 'मा', but here it is "रात्र्यादिपदानाम् अश्रवणाद्" -> in samdhi, म् + अ = म!
So it is "पदाना मश्रवणाद्" -> "पदानाम् अश्रवणात्" written as "पदानामाश्रवणाद्" or "पदाना मश्रवणाद्"?
Wait, look at the print: "पदाना मश्रवणाद" -> wait, does 'ना' have an anusvara? Yes, look above 'ना': there is no dot, but wait, look at 'पदानां'? It's "पदाना मश्रवणाद" or "पदानामाश्रवणाद"?
Look at: "पदानामाश्रवणाद" - wait, there is an 'ा' after 'न'? Yes, 'ना'. Then 'म'? Wait, after 'म', there is 'श्र'! So it's "पदानाम् अश्रवणाद्" -> "पदाना मश्रवणाद्" or "पदानामाश्रवणाद्"? It's "पदाना मश्रवणादपदार्थस्य" (i.e. पदानामश्रवणादपदार्थस्य).

Wait, let's look at the first word of L8:
L7 ends with: "न च वि-"
L8 starts with: "भावरीभाजनलक्षणो ऽ

माक्षिपतिरिति सेयं प्रमाणैकदेशविषया श्रुतार्थापत्तिः ।
नन्वर्थादेव कथमर्थान्तरं न कल्प्यते पीवरत्वं हि नाम भोजनकार्यमुपलभ्य-
मानं स्वकारणं भोजनमनलमिव धूमः समुपस्थापयतु तच्च वचसा कालविशेषे
निषिद्धं तदितरकालविशेषविषयं भविष्यतीति किं वचनानुमानेन, वचनमपि
नादृष्टार्थमपि तु अर्थगत्यर्थमेव तदस्य साक्षादर्थस्यैव कल्प्यमानस्य को दोषो
यद्व्यवधानमाश्रीयते, उच्यते—
शब्दप्रमाणमार्गे ऽस्मिन्ननभिज्ञो ऽसि बालक ।
प्रमाणतैव न ह्यस्य साकाङ्क्षज्ञानकारिणः ॥
पुरोवस्थितवस्त्वंशदर्शनप्राप्तिनिर्वृत्ति ।
प्रत्यक्षादि यथा मानं न तथा शाब्दमिष्यते ॥
वाक्यार्थे हि समग्राङ्गपरिपूरणसुस्थिते ।
अभिधाय धियं नास्य व्यापारः पर्यवस्यति ॥
तावन्तं बोधमाधाय प्रामाण्यं लभते वचः ।
तदर्थवाचकत्वाच्च तद्वाक्यं वाक्यमिष्यते ॥
शब्दैकदेशश्रुत्या ऽतस्तदंशपरिपूरणम् ।
कल्प्यं प्रथममर्थस्य कुतस्तेन विना गतिः ॥
प्रायः श्रुतार्थापत्त्या च वेदः कार्येषु पूर्यते ।
तत्रार्थः कल्प्यमानस्तु न भवेदेव वैदिकः ॥
यो मन्त्रैरष्टकालिङ्गैस्तद्विधः परिकल्प्यते ।
श्रुतिलिङ्गादिभिर्या च कल्प्यते विनियोजिका ॥
विश्वजित्यधिकारश्च यागकर्त्तव्यताश्रुतेः ।
उत्पत्तिवाक्यं सौर्यादावधिकारविधिश्रुतेः ॥
ऐन्द्राग्न्यादिविकारेषु कार्यमात्रोपदेशतः ।
यश्च प्रकृतिवद्भावो विध्यन्त उपपाद्यते ॥
तदेवमादौ सम्बन्धग्रहणानुपपत्तितः ।
श्रुतार्थापत्तिरेवैषा निस्सपत्नं विजृम्भते ॥
तया श्रुत्येकदेशश्च सर्वत्र परिकल्प्यते ।
अर्थकल्पनपक्षे तु न स्याद्वैदेकगम्यता ॥
इत्यर्थापत्तिरुक्तैषा षट्प्रमाणसमुद्भवा ।
अर्थापत्तेरनुमानान्तर्भावनिरूपणम् ।
एषा विचार्यमाणा तु भिद्यते नानुमानतः ॥
प्रतिबन्धाद्विना वस्तु न, वस्त्वन्तरबोधकम् ।

यत्किञ्चिदर्थमालोक्य (च्य) न च कश्चित्प्रतीयते ॥
प्रतिबन्धो ऽपि नाज्ञातः प्रयाति मतिहेतुताम् ।
न सद्योजातबालादेरुद्भवन्ति तथा धियः ॥
न विशेषात्मना यत्र सम्बन्धज्ञानसम्भवः ।
तत्राप्यस्त्येव सामान्यरूपेण तदुपग्रहः ॥
अपि च तेन विना नोपपद्यते इति च व्यतिरेकभणितिरियं व्यतिरेकश्च
प्रतीतः तस्मिन्सत्युपपद्यते इत्यन्वयमाक्षिपति, अन्वयव्यतिरेकौ च गमकस्य
लिङ्गस्य धर्म इति कथमर्थापत्तिर्नानुमानम्, केवलव्यतिरेकी हेतुरन्वयमूल एव
गमक इति वक्ष्यामः ।

शक्तिनिराकरणम् ।

याश्च प्रत्यक्षादिपूर्विकाः शक्तिकल्पनायामर्थापत्तय उदाहृताः ताश्च शक्ते-
रतीन्द्रियाया अभावाद् निर्विषया एव ।
स्वरूपादुद्भवत्कार्यं सहकार्युपबृंहितात् ।
न हि कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम् ॥
ननु शक्तिमन्तरेण कारकमेव न भवेत्, यथा पादपं छेत्तुमनसा परशुरुद्य-
म्यते तथा पादुकाद्यप्युद्यम्येत शक्तेरनभ्युपगमे हि द्रव्यस्वरूपाविशेषात्सर्वस्मा-
त्सर्वदा कार्योदयप्रसङ्गः, तथा हि विषदहनयोर्मारणे दाहे च शक्तावनिष्यमाणायां
मन्त्रप्रतिबद्धायां स्वरूपप्रत्यभिज्ञायां सत्यामपि कार्यौदासीन्यं यद् दृश्यते तत्र का
युक्तिः, न हि मन्त्रेण स्वरूपसहकारिसन्निध्यं प्रतिबध्यते, तस्य प्रत्यभिज्ञायमा-
नत्वात्, शक्तिस्तु प्रतिबध्यते इति सत्यपि स्वरूपे सत्स्वपि सहकारिषु कार्या-
नुत्पादो युक्तः, किञ्च सेवाद्यर्जनादिसाम्येपि फलवैचित्र्यदर्शनादतीन्द्रियं कि-
मपि कारणं कल्पितमेव धर्मादि भवद्भिरतः शक्तिरतीन्द्रिया तथा ऽभ्युपग-
म्यतामिति—
तदेतदनुपपन्नम्, यत्तावदुपादाननियमादित्युकम्—तत्रोच्यते—न हि वय-
मद्य किञ्चिदभिनवं भावानां कार्यकारणभावमुत्थापयितुं शक्नुमः, किं तु यथा
प्रवृत्तमनुसरन्तो व्यवहरामः, न हास्मदिच्छया ऽऽपः शीतं शमयन्ति कृशानुर्वा
पिपासाम्, तत्र च्छेदनादावन्वयव्यतिरेकाभ्यां वृद्धव्यवहाराद्वा परश्वधादेरेव
कारणत्वमभ्यवगच्छाम इति तदेव तदर्थिन उपादद्महे न पादुकादीति, न च
परश्वघादेःस्वरूपसन्निधाने सत्यपि सर्वदा कार्योदयः स्वरूपवत्सहारिणामप्य-
पेक्षणीयत्वात्सहकार्यादिसन्निधानस्य सर्वदा ऽनुपपत्तेः, सहकारिवर्गे च धर्मा-
दिकमपि निपतति तदपेक्षे च कार्योत्पादे कथं सर्वदा तत्सम्भवः, धर्माधर्मयोश्च

वैचित्र्यकार्यबलेन कल्पनमपरिहार्यम् , तयोश्च न शक्तित्वादतीन्द्रियत्वम् ,
अपि तु स्वरूपमहिम्नैव मनःपरमाण्वादिवत् ।
यदपि विषदहनसन्निधाने सत्यपि मन्त्रप्रयोगात्कार्यादर्शनं तदपि न श-
क्तिप्रतिबन्धननिबन्धनमपि तु सामग्र्यन्तरानुप्रवेशहेतुकम् ।
ननु मन्त्रिणा प्रविशता तत्र किं कृतं न किं चित्कृतम् , सामग्र्यन्तरं तु
सम्पादितं का चिद्धि सामग्री कस्य चित्कार्यस्य हेतुः, स्वरूपं तदवस्थमेवेति
चेद् , यद्येवमभक्षितमपि विषं कथं न हन्यात् , तत्रास्य संयोगाद्यपेक्षणीयमस्तीति
चेन्मन्त्राभावो ऽप्यपेक्ष्यताम् , दिव्यकरणकाले धर्म इव मन्त्रो ऽप्यनुप्रविष्टः
कार्यं प्रतिहन्ति, शक्तिपक्षे ऽपि वा मन्त्रस्य को व्यापारः मन्त्रेण हि शक्ते-
र्नाशो वा क्रियते प्रतिबन्धो वा न तावन्नाशः, मन्त्रापगमे पुनस्तत्कार्यदर्श-
नात् , प्रतिबन्धस्तु स्वरूपस्यैव शक्तेरिवास्तु स्वरूपस्य किं जातं कार्योदासी-
न्यमिति चेत्तदितरतोपि समानम् , स्वरूपमस्त्येव दृश्यमानत्वादिति चेच्छक्ति-
रप्यस्ति पुनः कार्यदर्शनेनानुमीयमानत्वादिति,
किं वः शक्तिरभ्युपगम्यमाना पदार्थस्वरूपवन्नित्या ऽभ्युपगम्येत कार्या
वा नित्यत्वे सर्वदा कार्योदयप्रसङ्गः, सहकार्यपेक्षायां तु स्वरूपस्यैव तदपे-
क्षा ऽस्तु किं शक्त्या, कार्यत्वे तु शक्तेः पदार्थस्वरूपमात्रकार्यत्वं वा स्यात्सहका-
र्यादिसामग्रीकार्यत्वं वा स्वरूपमात्रकार्यत्वे पुनरपि सर्वदा कार्योत्पादप्रसङ्गः सर्व-
दा शक्तेरुत्पादात् सामग्रीकार्यत्वेतु कार्यमस्तु किमन्तरालवर्तिन्या शक्त्या,
अशक्तात्कारकात्कार्यं न निष्पद्यते इति चेच्छक्तिरपि कार्यं तदुत्पत्तावप्येवं
शक्त्यन्तरकल्पनादनवस्था, आह—दृष्टसिद्धये ह्यदृष्टं कल्प्यते न तु दृष्टविधा-
ताय शक्त्यन्तरकल्पनायां शक्तिश्रेणीनिर्माणे एव क्षीणत्वात्कारकाणां कार्य-
विघातः स्यादित्येकैव शक्तिः कल्प्यते तत्कुतो ऽनवस्था ।
अत्रोच्यते—यद्यदृष्टमन्तरेण दृष्टं न सिद्ध्यति काममदृष्टं कल्प्यताम् ,
अन्यथा ऽपि तु तदुपपत्तौ किं तदुपकल्पनेन, दर्शिता चान्यथाप्युपपत्तिः क-
ल्प्यमानमपि चादृष्टं तत्कल्प्यतां यदनवस्थां नावहेत धर्मादिवत् , अपि च
व्यापारो ऽप्यतीन्द्रियः शक्तिवदिष्यते भवद्भिरन्यतरकल्पनयैव कार्योपपत्तेः
किमुभयकल्पनागौरवेण, शक्तमव्याप्रियमाणं न कारकं कारकमिति चेत्तच्छ-
क्तमिति, तथा कथं जानामि, कार्यदर्शनाज्ज्ञास्यामीति चेद्व्यापारादेव कार्यं
सेत्स्यति, पादुकादेव्याप्रियमाणादपि न पादपच्छेदो दृश्यते—इति चेत् प्रत्यक्ष
स्तर्हि व्यापारा नातीन्द्रियो यतः कार्यदर्शनात्पूर्वमपि व्याप्रियमाणत्वं ज्ञात-
मायुष्मता, कार्यानुमेयो हि व्यापारः कार्यं विना न ज्ञायेतैव, कार्यं त्वन्यतर-
स्मादपि घटमानं नोभयं कल्पयितुं प्रभवतीत्यलं प्रसङ्गेन प्रकृतमनुसरामः ।
तस्मादतीन्द्रियायाः शक्तेरभावान्निर्विषया यथोदाहृतास्ता अर्थापत्तयः ।