न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 57, कुल 654 में से
संदर्भ में पढ़ेंधूमादिलिङ्गग्रहणसमये न मनागपि तल्लिङ्गतदनुमेयदहनलिङ्ग्यनुप्रवेशस्पर्शो
विद्यते इति ।
नन्वर्थापत्तावपि किं प्रमेयानुप्रवेशो न दोषः न दोष इति ब्रूमः(१), प्रमाण-
द्वयसमर्पितैकवस्तुविषयाभावभावसमर्थनार्थमर्थापत्तिः प्रवर्त्तमाना प्रमेयद्वयं परा
मृश्येव अन्यथा तत्संघटनायोगात् , अतश्च येयमागमादनियतदेशतया क्व चि-
दस्तीति संवृत्तिरभूत्सैवेयं गृहाभावे गृहीते बहिरस्तीति संविदधुना संवृत्ता
तदतो वैलक्षण्यान्नानुमानमर्थापत्तिः, अतश्चैवं सम्बन्धग्रहणाभावात् ।
भावाभावौ हि नैकेन युगपद्धिधूमवत् ।
प्रतिबन्धतया रोढुं शक्यौ गृहबहिःस्थितौ ॥
अन्यथाऽनुपपत्त्या च प्रथमं प्रतिबन्धधीः ।
पश्चाद्यद्यनुमानत्वमुच्यते काममुच्यताम् ॥
नन्वस्त्येव गृहद्वारे वर्त्तिनः सङ्गतिग्रहः ॥
भावेन भावसिद्धौ तु कथमेष भविष्यति ॥
यत्र गृहे चैत्रस्य भावमवगम्य तदन्यथाऽनुपपत्त्या तदन्यदेशेषु नास्तित्व-
वगम्यते तत्र देशानामानन्त्याद् दुरधिगमः प्रतिबन्धः, अनग्निव्यतिरेकनिश्चये
धूमस्य का वार्त्तेति चेदुच्यते-तत्र धूमज्वलनयोरन्वयग्रहणसम्भवान्न व्यतिरे-
कग्रहणमाद्रियेरन् भूयोदर्शनसुलभनियमज्ञानसम्पाद्यमानसाध्याधिगमननिर्वृत-
मनसां किमनग्निव्यतिरेकनिश्चयेन, इह पुनरन्वयावसायसमये एव गम्यधर्मस्य
दुरवगमत्वमुक्तमनन्तदेशवृत्तित्वात् , अनुपलब्ध्या तन्निश्चय इति चेद् न, म-
न्दिरव्यतिरिक्तसकलभुवनतलगततदभावनिश्चयस्य नियतदेशया ऽनुपलब्ध्या
कर्त्तुमशक्यत्वात् , तेषु तेषु देशान्तरेषु परिभ्रमन्नुपलब्ध्या तदभावं निश्चेष्या-
मीति चेद् , मैवम्—
गत्वा गत्वा ऽपि तान्देशान्नास्य जानामि नास्तिताम् ।
कौशाम्ब्यास्त्वयि निष्क्रान्ते तत्प्रवेशादिशङ्कया ॥
तस्माद्भूमिरीयमसर्वज्ञानामित्यर्थापत्त्यैव तन्निश्चयः ।
नन्विस्थममुमर्थमनुमानान्निश्चेष्यामः, देशान्तराणि चैत्रशून्यानि चै-
त्राधिष्ठितव्यतिरिक्तत्वात् तत्समीपदेशवदिति, न प्रत्यनुमानोहत्वात् , देशा-
न्तराणि चैत्रान्यतिरिक्तानि तत्समीपदेशव्यतिरिक्तत्वाच्चैत्राधिष्ठितदेशव-
दिति, तस्मान्नियतदेशोपलभ्यमानपरिमितपरिमाणपुरुषशरीराऽन्यथानुपपत्त्यैव
तदितरसकलदेशनास्तित्वावधारणं तस्येति सिद्धम् ।
पीनो दिवा च नात्तीति साकाङ्क्षवचनश्रुतेः ।
तदेकदेशविज्ञानं श्रुतार्थापत्तिरुच्यते ॥
( १ ) किं प्रमेयानुप्रवेशो न दोष इति ब्रूम इत्यनन्वित आदर्शापुस्तकस्थः पाठः ।