सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 44, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 44

नसमर्थपदार्थप्राप्तिपरिहारभूतायाः प्रवृत्तेर्निमित्तं प्रदर्शकत्वमेव ज्ञानप्रदर्शिते हि
विषये प्रवृत्तौ सत्यां प्राप्तिर्भवतीति प्राप्तिं प्रति प्रमाणस्य प्रदर्शकत्वमेव व्या-
पारः, प्रदर्शयता हि तेन सो ऽर्थः प्रापितो भवति यथा हर्तव्यं प्रति राज्ञामाज्ञा-
दानमेव हर्तृत्वम् , तदुक्तम्—प्रापणशक्तिः प्रामाण्यमिति, लोके ऽपि च प्रद्-
र्शितं वस्तु प्रापयतः प्रमाणत्वव्यवहारः, तच्च प्रापकत्वं प्रत्यक्षानुमानयोरुभयो-
रप्यस्तीति प्रमाणसामान्यलक्षणम् , तत्र प्रत्यक्षस्य वस्तुस्वलक्षणविषयत्वात्तस्य
च क्षणिकत्वेन प्राप्त्यसम्भवे ऽपि तत्सन्तानप्राप्तेस्सन्तानाध्यवसायजननमेव
प्रापकत्वम् , अनुमानस्य त्वारोपितार्थविषयत्वे ऽपि मूलभूतवस्तुक्षणपारम्पर्येणप्र-
भवत्वान्मणिप्रभामणिबुद्धिवत्तत्प्राप्त्या प्रापकत्वम् , तदिदमध्यवसितप्रापकत्वं
प्रामाण्यम् अध्यवसितस्या ऽवस्तुत्वेपि तन्मूलवस्तुप्राप्त्या निर्वहति यथाऽध्यव-
सितप्रापकं च प्रमाणमिति मतम् , अतश्च पीतशङ्खादिग्राहिणां शङ्खादिमात्र-
प्राप्तौ सत्यामपि न प्रामाण्यम् , यथा ऽवगतस्याप्राप्तेरवगतो हि पीतः शङ्खः प्रा-
प्यते च श्वेत इति तस्माद्यथा ऽवगतार्थप्रापकत्वमविसंवादकत्वं प्रामाण्यमिति ।
तदेतदनुपपन्नम्—इदमेव तावद्भवान् व्याचष्टां किं प्रदर्शितप्रापकं प्रमाणमु-
ताध्यवसितप्रापकमिति, तत्रानुमाने तावत्प्रदर्शनमेव नास्ति का कथा तत्प्राप-
णस्य, प्रत्यक्षे तु बाढं प्रदर्शनमस्ति न तु प्रदर्शितं प्राप्यते क्षणिकत्वेनातिका-
न्तत्वात् , अध्यवसितप्रापणमपि दुर्घटम् , अध्यवसायस्य भवन्मते वस्तुविष-
यत्वाभावादवस्तुनश्च प्राप्तुमशक्यत्वात्तदुक्तं भवद्भिः यथाध्यवसायमतत्त्वाद्य-
थातत्त्वं चानध्यवसायादिति, मूलभूतवस्तुप्राप्तिस्तु काकतालीयं न तु तदन्यतरे-
णापि प्रमाणेन स्पृष्टं यद्गत्वा प्राप्यते, सन्तानप्राप्त्या तत्प्राप्तिरित्यपि न यु-
क्तम् , सन्तानस्य भेदाभेदविकल्पाभ्यामनुपपद्यमानत्वात् , एतच्च सविस्तरं क्ष-
णभङ्गभङ्गे निरूपयिष्यते ।
ननु काल्पानिके ऽपि सन्ताने सति संवृत्या प्रमाणलक्षणमिदं निर्वक्ष्यति
यथोक्तं सांव्यवहारिकस्यैतत्प्रमाणस्य लक्षणं वस्तुतस्त्वनाद्यविद्यावासनारोपि-
तग्राह्यग्राहकादिभेदप्रपञ्चं ज्ञानमात्रमेवेदमिति किं प्राप्यते को वा प्रापयतीति
सो ऽयं पलायनप्रकार इव प्रस्तूयते, केयं संवृत्तिर्नाम सा ऽपि सत्यसती वा इति
विकल्प्यमाना नैव व्यवहारहेतुर्भवति, अविद्यावासनाकृतश्च न भेदव्यवहारः, किं
तु पारमार्थिक एवेति साधयिष्यते, सांवृत्तसन्तानकल्पनायां वा जात्यवयविप्र-
भृतयो ऽपि सांवृत्ताः किमिति नेष्यन्ते, वृत्तिविकल्पादिबाधकोपहतत्वादिति चेत्
सन्ताने ऽपि समानः पन्था इति कडाशालम्बनमेतत् , तस्मादसम्भवि दर्शित
प्रापकत्वमित्यलक्षणमेतत् अव्यापकं चेदं लक्षणम् , उपेक्षणीयविषयबोधस्या-
व्यभिचारादिविशेषणयोगेन लब्धप्रमाणभावस्याप्यनेनासंग्रहात् ।
ननु को ऽयमुपेक्षणीयो नाम विषयः- स ह्युपेक्षणीयत्वादेव नोपादीयते