न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
DevanagariHindipublished654 पृष्ठ
पृष्ठ 42, कुल 654 में से
संदर्भ में पढ़ेंपृष्ठ 42
२० न्यायमञ्जर्याम्
भट्टपक्षाद्विशेषश्च न कश्चित्कथितो भवेत् ।
नोभयातिशयो ऽप्येष दोषद्वितयसम्भवात् ॥
संवेदनं च तत्केन ग्राह्यं ज्ञानानुमापकम् ।
अनवस्था भवेदस्य ज्ञाने संवेदनान्तरात् ॥
स्वसंवेद्या च संवित्तिरुपरिष्टान्निषेत्स्यते ।
स्मृतिप्रमोषवादे च रजतस्मरणात्मिका ॥
कथं ते फलसंवित्तिः स्वप्रकाशा भविष्यति ।
नाभाति स्मृतिरूपेण न चाप्यनुभवात्मना ॥
न तृतीयः प्रकारो ऽस्ति तत्कथं सा प्रकाशताम् ।
न च क चिदनाकारा संवित्तिरनुभूयते ॥
इयं संविदयं चार्थ इति नास्ति ह्यभेदधीः ।
अर्थाकारानुरक्ता तु यदि संवित्प्रकाशते ॥
बाह्यार्थनिह्नवस्तर्हि त्वया सौगतवत्कृतः ।
स्वप्रकाशमते युक्तं न फलं संविदात्मकम् ॥