सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 59, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 59

माक्षिपतिरिति सेयं प्रमाणैकदेशविषया श्रुतार्थापत्तिः ।
नन्वर्थादेव कथमर्थान्तरं न कल्प्यते पीवरत्वं हि नाम भोजनकार्यमुपलभ्य-
मानं स्वकारणं भोजनमनलमिव धूमः समुपस्थापयतु तच्च वचसा कालविशेषे
निषिद्धं तदितरकालविशेषविषयं भविष्यतीति किं वचनानुमानेन, वचनमपि
नादृष्टार्थमपि तु अर्थगत्यर्थमेव तदस्य साक्षादर्थस्यैव कल्प्यमानस्य को दोषो
यद्व्यवधानमाश्रीयते, उच्यते—
शब्दप्रमाणमार्गे ऽस्मिन्ननभिज्ञो ऽसि बालक ।
प्रमाणतैव न ह्यस्य साकाङ्क्षज्ञानकारिणः ॥
पुरोवस्थितवस्त्वंशदर्शनप्राप्तिनिर्वृत्ति ।
प्रत्यक्षादि यथा मानं न तथा शाब्दमिष्यते ॥
वाक्यार्थे हि समग्राङ्गपरिपूरणसुस्थिते ।
अभिधाय धियं नास्य व्यापारः पर्यवस्यति ॥
तावन्तं बोधमाधाय प्रामाण्यं लभते वचः ।
तदर्थवाचकत्वाच्च तद्वाक्यं वाक्यमिष्यते ॥
शब्दैकदेशश्रुत्या ऽतस्तदंशपरिपूरणम् ।
कल्प्यं प्रथममर्थस्य कुतस्तेन विना गतिः ॥
प्रायः श्रुतार्थापत्त्या च वेदः कार्येषु पूर्यते ।
तत्रार्थः कल्प्यमानस्तु न भवेदेव वैदिकः ॥
यो मन्त्रैरष्टकालिङ्गैस्तद्विधः परिकल्प्यते ।
श्रुतिलिङ्गादिभिर्या च कल्प्यते विनियोजिका ॥
विश्वजित्यधिकारश्च यागकर्त्तव्यताश्रुतेः ।
उत्पत्तिवाक्यं सौर्यादावधिकारविधिश्रुतेः ॥
ऐन्द्राग्न्यादिविकारेषु कार्यमात्रोपदेशतः ।
यश्च प्रकृतिवद्भावो विध्यन्त उपपाद्यते ॥
तदेवमादौ सम्बन्धग्रहणानुपपत्तितः ।
श्रुतार्थापत्तिरेवैषा निस्सपत्नं विजृम्भते ॥
तया श्रुत्येकदेशश्च सर्वत्र परिकल्प्यते ।
अर्थकल्पनपक्षे तु न स्याद्वैदेकगम्यता ॥
इत्यर्थापत्तिरुक्तैषा षट्प्रमाणसमुद्भवा ।
अर्थापत्तेरनुमानान्तर्भावनिरूपणम् ।
एषा विचार्यमाणा तु भिद्यते नानुमानतः ॥
प्रतिबन्धाद्विना वस्तु न, वस्त्वन्तरबोधकम् ।