सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 45, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 45

चेत्स तर्हि हेय एवानुपादेयत्वादिति नैतद्युक्तम् , उपेक्षणीयविषयस्य स्वसंवेद्य-
त्वेनाप्रत्याख्येयत्वात् ।
हेयोपादेययोरस्ति दुःखप्रीतिनिमित्तता ।
यत्नेन हानोपादाने भवतस्तत्र देहिनाम् ॥
‘ यत्नसाध्यद्वयाभावादुभयस्यापि साधनात् ।
ताभ्यां विसदृशं वस्तु स्वसंविदितमस्ति नः ॥
उपादेये च विषये दृष्टे रागः प्रवर्त्तते ।
इतरत्र तु विद्वेषस्तत्रोभावपि दुर्लभौ ॥
यत्तु अनुपादेयत्वाद्धेय एवेति तदप्रयोजकम् , न ह्येवं भवति यदेतन्नपुंसकं
स पुमान् अस्त्रीत्वात् स्त्री वा नपुंसकम्पुंस्तत्वादिति स्त्रीपुंसाभ्यामन्यदेव नपुंस-
कं तथोपलभ्यमानत्वात्, एवमुपेक्षणीयो ऽपि विषयो हेयोपादेयाभ्यामर्थान्तरं
तथोपलम्भादिति ।
यदेतत्तृणपर्णादि चकास्ति पथि गच्छतः ।
न धीश्छत्रादिवत्तत्र न च काकोदरादि(१)वत् ॥
तस्मादुपेक्षणीयज्ञानस्य तमप्रापयतो ऽपि प्रामाण्यदर्शनान्न प्रापकत्वं तल्ल-
क्षणम् ।
ननु यावान्प्रामाण्यस्य व्यापारः प्रापणं प्रति तावानुपेक्षणीयज्ञानस्य
तमप्रपायतो ऽपि प्रामाण्यविषये तेन साधितः, उक्तं हि राज्ञामादेष्टृत्वमेव हन्तृ-
त्वं प्रदर्शकत्वमेव ज्ञानस्य प्रापकत्वमिति, मैवम्--
एवं प्रदर्शकत्वं स्यात्केवलं तस्य लक्षणम् ।
तच्च प्रचलदर्कांशुजलज्ञाने ऽपि दृश्यते ॥
ननु तत्र विपरीताध्यवसायजननादप्रामाण्यं दर्शनं हि मरीचिस्वलक्षणवि-
षयमेव सलिलावसायं तु जनयदप्रमाणीभवति तथा ह्येकमेव दर्शनमनुकूलेतर-
विकल्पोपजननतदनुत्पादभेदात् त्रिधा कथ्यते प्रमाणम् , अप्रमाणं प्रमाणं च न
भवतीति, नीलज्ञानं हि नीलं प्रति प्रमाणं नीलमिदमित्यनुकूलविकल्पोपजनना-
त् , नीलाव्यतिरेकि क्षणिकत्वमपि तेन गृहीतमेव, तत्र तु प्रमाणं न भवत्यनु-
कूलविकल्पानुत्पादात्, स्थैर्ये तु तदप्रमाणं विपरीतावसायकलुषितत्वादिति,
यद्येवमस्मिन्प्रक्रमे सुतरामिदं प्रमाणलक्षणं दुःस्थम्, सन्तानाध्यवसायः प्रापणं
प्रति प्रमाणस्य व्यापार इति च वर्णितवानसि, अतश्च यथा मरीचिस्वलक्षण-
दर्शनमुदकाध्यवसायजननादप्रमाणमेवं स्वलक्षणदर्शनमपि तद्विपरीतसन्ताना-
ध्यवसायजननादप्रमाणीभवेदिति, सन्ताने च काल्पनिके व्यवसिते दृश्याभिमुखः
किमिति प्रवर्त्तते दृश्यविकल्प्यावर्थावेकीकृत्य प्रवर्त्तते यदि वा अविवेकात्प्रा-


( १ ) काकोदरः फणी ।