न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 54, कुल 654 में से
संदर्भ में पढ़ेंन्यत्र प्रवृत्तिप्राप्ती इति सर्वं कैतवम् , न च दृश्यसंस्पर्शशून्यात्मनां विकल्पानां
दर्शनच्छाया का चन संभवतीदन्ताग्राहित्वस्पष्टत्वाद्यपि वस्तुस्पर्शरहितमकि-
ञ्चित्करमप्रमाणत्वानपायात् ।
अप्रमाणपरिच्छिन्नः प्रतिबन्धश्च तत्त्वतः ।
न परिच्छिन्न एवेति ततो मिथ्या ऽनुमेयधीः ॥
अथाभिमतमेवेदं बुद्ध्यारूढत्ववर्णनात् ।
हन्त तात्त्विकसंबन्धसाधनव्यसनेन किम् ॥
यथा च सामान्यविषये प्रत्यक्षाभ्युपगममन्तरेण संबन्धग्रहणमघटमान-
मिति विसंष्ठलमनुमानम् , एवमवगतसंबन्धस्य द्वितीयलिङ्गदर्शनमपि दुरुपपा-
दमिति ततो ऽपि संप्लवापलापिनामनुमानमुत्सीदेत् ।
न ह्यसाधारणांशस्य लिङ्गत्वमुपपद्यते ।
विना न चानुमानेन सामान्यमवगम्यते ॥
सैवानवस्था तत्रापि तदेवान्योन्यसंश्रयम् ।
स एव च विकल्पानां सामर्थ्यशमनक्रमः ॥
अतः संबन्धविज्ञानलिङ्गग्रहणपूर्वकम् ।
अनुमानमनिन्हुत्य कथं संप्लवनिह्नवः ॥
अपि च विषयद्वैविध्यसिद्धावपि प्रत्यक्षानुमाने एव परस्परमपि संप्लवे-
याताम् । यतः—
प्रत्यक्षत्वं परोक्षो ऽपि प्रत्येक्षो ऽपि परोक्षताम् ।
देशकालादिभेदेन विषयः प्रतिपद्यते ॥
क्षणभङ्गं निषेत्स्यामः संतानो यश्च कल्पितः ।
दर्शितप्राप्तिसिद्ध्यादौ संप्लवे ऽपि स तादृशः ॥
यदपि जात्यादिविषयनिषेधनमनोरथैः संप्लवपराकरणमध्यवसितं तत्र
जात्यादिसमर्थनमेवोत्तरीकरिष्यते ।
तावकेर्दूषणगणैः कालुष्यमपनीयते ।
तद्वानवयवी जातिरिति वात्तकभद्रिका ॥
यदपि विरोधवैफल्याभ्यां न संप्लव इत्युक्तं तत्र वैफल्यमनधिगतार्थगन्तृ-
त्वविशेषणादिवारणेनैव प्रतिसमाहितम्, विरोधोऽपि नास्ति पूर्वज्ञानोपमर्देन
नेदं रजतमितिवदुत्तरज्ञानानुत्पादात्, अनेकधर्मविसरविशेषितवपुषि धर्मि-
णि कदा चित्केन चित्कश्चिन्निश्चीयते धर्मविशेष इति को विरोधार्थः ।
यदपि प्रत्यक्षस्य शब्दलिङ्गयोश्च समानविषयत्वे सति सदृशप्रतीतिजनक-
त्वमाशङ्कितं तत्र के चिदाचक्षते विषयसाम्ये ऽप्युपायभेदात्प्रतीतिभेदो भवत्येव
दूराविदूरदेशव्यवस्थितपदार्थप्रतीतिवत् ।