न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 48, कुल 654 में से
संदर्भ में पढ़ें२६ न्यायमञ्जर्याम्
रविरुद्धविध्यनुवादादिरूपापत्तेरर्थद्वयविधानमतिदुर्घटम्(१) , इह पुनः प्रमाणा-
न्तरपरिनिश्चतार्थसूचनचातुर्यमहार्घेषु सूत्रेषु नानार्थविधानं भूषणं भवति न दूष-
णम् , अनेकार्थसूचनादेव सूत्रमुच्यते, एतदेव सूत्रकाराणां परं कौशलं यदेके-
नैव वाक्येन स्वल्पैरेवाक्षरैरनेकवस्तुसमर्पणम् , अध्याहारेण वा तन्त्रेण वा
ऽऽवृत्त्या वा तमर्थं प्रत्याययिष्यति सूत्रमिदमिति न दोषः, विभागसामान्यल-
क्षणयोर्विधाने पौर्वापर्यनियमो विशेषणलक्षणन्नास्तीति तन्त्रेण युगपदुभयाभिधा-
नमपि न विरुध्यते विशेषलक्षणमनुक्ते(२) सामान्यलक्षणविभागयोस्तु यथारुचि
प्रतिपादनमादौ विभागः ततः सामान्यलक्षणम्, आदौ वा सामान्यलक्षणं ततो
विभागः, सिद्धान्तच्छलवदुभयं वा युगपदेव प्रतिपाद्यते इति तन्त्रेणावृत्त्या वा
तदुपपादने न कश्चिद्दोष इति ।
प्रमाणविभागाक्षेपः —
आस्तां तावदिदं सूत्रे तन्त्रावृत्त्यादिचिन्तनम् !
चतुःसङ्ख्या प्रमाणेषु ननु न क्षम्यते परैः ॥
न्यूनाधिकसङ्ख्याप्रतिषेधेन हि चत्वारि प्रमाणानि प्रतिष्ठाप्येरन् , स च दु-
रुपपादः, तथाहि प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः, प्रत्यक्षानुमाने द्वे एवेति
बौद्धाः, प्रत्यक्षमनुमानमाप्तवचनं चेति त्रीणि प्रमाणानीति साङ्ख्याः, आधि-
क्यमपि प्रमाणानां मीमांसकप्रभृतयः प्रतिपन्नवन्तः, तत्कथं चत्वार्येव प्रमाणा-
नीति विभागनियमः—
उच्यते, अनुमानप्रामाण्यं वर्णयन्तो बार्हस्पत्यं तावदुपरिष्टात्प्रतिषेत्स्या-
मः, शब्दस्य चानुमानवैलक्षण्यं तल्लक्षणावसरे एव वक्ष्यते इति शाक्यपथो
ऽपि न युक्तः ।
( १ ) ‘वाजपेयेन स्वाराज्यकामो यजेत’ इति वाजपेयशब्दः गुणविधिरुतकर्म-
नामधेयम् इति सन्देहे यजेतेत्याख्यातस्य गुणफलाभ्यां तन्त्रेण संबन्धे स्वाराज्योद्दे-
श्येन यागे यागोद्देश्येन च वाजपेयगुणे विधातुं शक्य इति गुणविधिरयमिति पूर्व-
पक्षे तन्त्रेणोभयविधौ विरुद्धत्रिकद्वयापत्तिरतः आवृत्त्योभयविधौ च वाक्यभेद इति
कर्मनामधेयमिति सिद्धान्तः विरुद्धत्रिकद्वयं च—
उपादेयविधेयत्वगुणत्वाह्वं त्रिकं यजेः ।
उद्देश्यानूक्तिमुख्यत्वत्रिकं तस्य गुणं प्रति ।।
इति न्यायमालायां निरूपितम् ।
( २ ) अत्र सामान्यलक्षणे न संभवतीति पूरणीयम् (श्रीम०म०गङ्गाधरशास्त्री) ।