न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 51, कुल 654 में से
संदर्भ में पढ़ेंप्रमाणप्रकरणम् २९
अपि च--
अन्यदेवेन्द्रियग्राह्यमन्यः शब्दस्य गोचरः ।
शब्दात्प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्ष्यते ॥
आह च--
अन्यथैवाग्निसम्बन्धाद्दाहं दग्धो ऽभिमन्यते ।
अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ॥
तस्मादुक्तेन वर्त्मना विषयद्वैविध्यनिश्चयान्न तृतीयं प्रमाणमस्ति, न च
संप्लव इति,
बौद्धाभिमतप्रमाणद्वैविध्यनिराकरणम् ।
अत्राभिधीयते--
यत्तावदिदमाख्यायि राश्यन्तरनिराकृतौ ।
प्रत्यक्षस्यैव सामर्थ्यमित्येतन्नोपपद्यते ॥
पूर्वापरानुसन्धानसामर्थ्यरहितात्मना ।
भारः कथमयं वोढुमविकल्पेन पार्यते ॥
विकल्पाः पुनरुत्प्रेक्षामात्रनिष्ठितशक्तयः ।
तेभ्यो वस्तुव्यवस्थायाः का कथा भवतां मते ॥
अथ वा भवतु नाम नीलादावुक्तेन प्रकारेण राश्यन्तरनिराकरणं प्रत्यक्ष-
परोक्षनिर्णये तु नैष प्रकारो योजयितुं शक्यते, विषये हि प्रवृत्तं प्रत्यक्षं विषय-
स्वरूपमेव परिच्छिनत्ति न पुनस्तस्य प्रत्यक्षतामपि, नीलमिदमिति हि सम्वे-
द्यते न पुनः प्रत्यक्षमिदमिति, तथा हि-किमिदं विषयस्य प्रत्यक्षत्वं नाम कि-
मक्षविषयत्वम् उताक्षज्ञानविषयत्वमिति, तत्राक्षविषयत्वं तावदन्वयव्यति-
रेकसमधिगम्यमेव न प्रत्यक्षगम्यम् , तथा ऽऽह भट्टः--
न हि श्रावणता नाम प्रत्यक्षेणावगम्यते ।
नान्वयव्यतिरेकाभ्यां ज्ञायते बधिरादिषु ॥ (१)इति ।
अक्षज्ञानकर्मत्वमपि प्रत्यक्षत्वं तदानीं परिच्छेत्तुमशक्यमेव विषयप्रति-
भासकाले तत्प्रतिभासस्याप्रतिभासात्, तद्ग्रहणमन्तरेण च तत्कर्मताग्रहणास-
म्भवात् , कथं पुनर्विषयग्रहणकाले तज्ज्ञानस्यानवभासः, नैव युगपदाकारद्वितयं
प्रतिभासते, इदं ज्ञानमयं चार्थ इति भेदानुपग्रहात्, एकश्चायमाकारः प्रतिभा-
समानो ग्राह्यस्यैव भवितुमर्हति न ग्राहकस्येति वक्ष्यते ।
ननु च नागृहीतं ज्ञानमर्थप्रकाशनकुशलं भवतीत्याहुरप्रत्यक्षोपलम्भस्य
नार्थदृष्टिः प्रसिध्यतति, प्रत्यक्षोपलम्भस्य नार्थदृष्टिरुपलम्भ एव प्रत्यक्ष इति
( १ ) श्लोकवार्तिके अनुमानपरिच्छेदे ६० ।