सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 52, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 52

३० न्यायमञ्जर्याम्
द्वितीयाकारानवभासात्कुतो ऽर्थदृष्टिः, यदि च गृहीतं ज्ञानमर्थं प्रकाशयेन्न द्वयीं
गतिमतिवर्त्तेत तद्धि ज्ञानं ज्ञानान्तरग्राह्यं वा भवेत्स्वप्रकाशं वा, ज्ञानान्तर-
ग्राह्यत्वे ऽनवस्था मूलक्षतिकरी चेयमित्यन्धमूकं जगत्स्यादुपलम्भप्रत्यक्षतापूर्वक-
कार्यप्रत्यक्षवादिनः, नापि स्वप्रकाशं ज्ञानं ज्ञेयत्वान्नीलपीतादिवत्, विस्तर-
तस्तु स्वप्रकाशं विज्ञानं विज्ञानवादिनिराकरणे निराकरिष्यामः,
न च ज्ञानस्याप्रत्यक्षतायां तदुत्पादानुत्पादयोरविशेषादज्ञत्वं सर्वज्ञत्वं वा
परिशङ्कनीयम्, विज्ञानोत्पादमात्रेण ज्ञातुर्ज्ञातृत्वसिद्धेः, विषयप्रकाशस्वभाव-
मेव ज्ञानमुत्पद्यते इति कथमुत्पन्नमनुत्पन्नान्न विशिष्यते, यथा च नीलादिविष-
यज्ञानोत्पत्त्या ऽस्य ज्ञातृत्वं तथा सुखादिविषयज्ञानोत्पत्त्या भोक्तृत्वमिति
तत्रापि नातिप्रसङ्गः, तस्माद्विषयविज्ञानकाले तद्विज्ञानग्रहणान्न तत्कर्मत्वकृतं
विषयप्रत्यक्षत्वमवभासते तदप्रतिभासे च न परोक्षान्यव्यवच्छेदो न च तृतीयप्र-
कारासात्त्वसूचनमिति कथं प्रत्यक्षं विषयद्वित्वसिद्धौ प्रमाणम्—
यच्चानुमानमप्युक्तं विषयद्वयसिद्धये ।
तत्प्रत्यक्षपरिच्छिन्नतद्विरोधनिबन्धनम् ॥
विरोधबोधसामर्थ्यं प्रत्यक्षस्य च दूषितम् ।
तदग्रहे च तन्मूलमनुमानं न सिध्यति ॥
एवं च विषयद्वित्वसाधनानुपपत्तितः ।
तत्कृतस्त्यज्यतामेष प्रमाणद्वित्वदोहदः ॥
अथ वा सत्यपि विषयद्वैविध्ये सामग्रीभेदात्फलभेदाच्च प्रमाणभेदो भवन्क-
थमपाक्रियते—
अन्ये एव हि सामग्रीफले प्रत्यक्षाल्लिङ्गयोः ।
अन्ये एव च सामग्रीफले शब्दोपमानयोः ॥
इति वक्ष्यामः ।
तेन तद्भेदादपि प्रमाणभेदसिद्धेर्न द्वे एव प्रमाणे, एतेन त्रीणि प्रमाणानीति
सांख्यव्याख्याता ऽपि तत्संख्या प्रत्याख्याता, सामग्रीफलभेदेनोपमानस्य चतु-
र्थप्रमाणस्य प्रतिपादयिष्यमाणत्वादिति ।
बौद्धनिराकृतप्रमाणसंप्लवसमर्थनम्—
यत्पुनरेकस्मिन्विषये ऽनेकप्रमाणप्रसरं निरस्यता सौगतेन संप्लवपराकर-
णमकारि तदपि मतिमोहविलसितम् , असति संप्लवे ऽनुमानप्रामाण्यप्रतिष्ठा-
पनानुपपत्तेः,
न ह्यविज्ञातसम्बन्धं लिङ्गं गमकमिष्यते ।
सम्बन्धधीश्र्च सम्बन्धिद्वयावगतिपूर्विका ॥