न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
or ऽ?
It's definitely an avagraha: "प्रत्यवायाऽनपेक्षं"!
Because grammatically:
प्रत्यवाय + अनपेक्षम् = प्रत्यवायाऽनपेक्षम्!
With dirgha sandhi and avagraha to indicate the elided 'अ': प्रत्यवायाऽनपेक्षम्!
That is 100% standard Sanskrit orthography in these editions!
Now let's check the verses at the bottom (lines 27-32):
प्रतिषेधाधिकारे ऽपि प्रत्यवायो न कल्पते ।
निषेध्यविषयादेव लब्धत्वादधिकारिणः ॥
तत्रासौ कल्य्यमानो ऽपि नरकादिफलोदयः । -> wait, is it 'कल्प्यमानो' or 'कल्य्यमानो'?
Look at 'ल्प' in 'कल्पते' (line 27): 'ल्प' has ल joined with प.
In line 29: 'कल्य्यमानो' or 'कल्प्यमानो'?
In line 29: it is 'क', then 'ल्प्य' (ल् + प् + य = ल्प्य):
Wait, look at 'ल्प्य': ल on left, प in middle, य on right: कल्प्यमानो!
Yes: "तत्रासौ कल्प्यमानो ऽपि नरकादिफलोदयः ।"
अवैधत्वं प्रप
प्रमाणप्रकरणम् ३२३
निषेधविधिविषयनिरूपणम्—
नन्वेतावन्न विबुध्यामहे निषेधविधेः को विषय इति, भावार्थाः कर्मशब्दा ये
तेभ्यः क्रिया प्रतीयेत इति(१) स्थिते नञर्थस्तावत्पूर्वापरीभूतत्वाभावान्न विधे-
विषयः, अनन्विताभिधानाच्च न हि नञो ऽनन्तरं लिङ्विभक्तिः श्रूयते ऽपि
तु हन्तेः, हननमपि न विधेर्विषयः तस्य धर्मत्वप्रसङ्गात् , न प्रयोगस्य वैयर्थ्य-
प्रसक्तेर्हनने च पुरुषस्य स्वतः प्रवृत्तेर्नञ्विशिष्टो ऽपि न हन्त्यर्थो ऽस्य विषयः
तयोर्विशेषणविशेष्यभावाभावात् ।
युक्तं दध्ना जुहोतीति होमे दध्यनुरक्तता ।
हन्तेः स्वरूपनाशात्तु न नञर्थानुरक्तता ॥
पुरुषप्रयत्नो ऽपि न केवलो विधेर्विषयः स्वतः सिद्धत्वान्नापि नञर्थानुरक्तो
हन्तिवत्तत्रापि नञर्थस्य विशेषणत्वानुपपत्तेः,
अथायमब्राह्मणादिन्यायेन हन्तौ पर्युदस्ते भावार्थान्तरे नियोगः कल्प्यते,
न हन्यादिति कोऽर्थः अन्यत्किमपि कुर्यादिति तर्हि किं तद्भावान्तरमिति न
विचारयितुं शक्यते, यत्किं चिदिति चेन्न तस्य स्वतःसिद्धत्वेन विध्यानर्थक्यात् ,
अवश्यं जीवन्पुमान्किं चित्करोति पठति गच्छति भुङ्क्ते च,
अथ विषयांशं परिहृत्य प्रमाणांशे नञ् निविशते स हि प्रवर्तमानं पुमांसं
रुणद्धि यद्वम्यात्तन्नेति,
तदप्यनुपपन्नम् अन्विताभिधानेन विधिविभक्तेर्हन्तिनावरुद्धत्वात् , प्रेरणा-
शक्तिस्वभावो विधिः स्थितः यस्तु निषेधात्मा नञ् पार्श्वे स्थितः तत्र विधिः
संक्रामति, संक्रान्तावपि नञश्च विधेश्च सम्बन्धे सति विधेस्स्वरूपनाशोऽवग-
म्यते, स्वभावो ह्येष नञो यदयं येन येन सम्बध्यते तस्य तस्याभावं बोधयतीति,
अतो विधिसम्बन्धे नञ इष्यमाणे एतावान्वाक्यार्थो ऽवतिष्ठते हननविधिर्नो-
स्तीति, ततश्च हननस्य विधित्वं च स्यात् ,
अत्रोच्यते, दध्ना जुहोतीति होमस्य वचनान्तरचोदितत्वाद्विधिशक्ति-
रुपपदं संक्रामतीति यथावर्णितमेवमिहापि हनने स्वतः प्रवृत्तत्वेन विधिवैफ-
ल्यान्रञश्च श्रूयमाणस्यानर्थक्यप्रसङ्गाद् विधायिका शक्तिः नञर्थमेव स्पृशति
इति किं नेष्यते ।
ननूक्तमत्र भावार्थः कर्मशब्द इति तत्र दध्यनुरक्तो होम एव विधीयते इति
फलतो विधिविहितं भवति न प्रमाणतः इह तु नञ्स्तदुपमर्दस्वभावत्वान्न केन
चित्संसर्गो दध्यादेरिव कल्पते, मैवम् निवृत्तिमेव कुर्वन्नञ्विशेषणं विशेषणीम-
( १ ) "भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते" जै०
अ० २ पा० १ सू० १ ।
वति सेयं नञुपहिते हन्तौ श्रुते हनननिवृत्तिर्गम्यते, यथा सिद्धरूपदध्यनुप्रवेशे
ऽपि न होमस्य साध्यमानावस्था निवर्त्तते तथा नञनुविद्धहन्त्यर्थावगतौ न
पूर्वापरीभावबुद्धिनिवर्त्तते, न ह्यब्राह्मणवन्न हन्यादिति सिद्धरूपबुद्धिः, सोऽयं ह-
नननिवृत्तिरूपः पूर्वापरीभूतोऽर्थो विधिविषयो भविष्यति, अथवा विभक्त्यर्थेन
नञ्सम्पत्स्यति शुद्धस्य लिङादेरर्थः प्रवर्त्तकः नञुपहितस्य तस्यार्थो निवर्त्तक इति
शब्दशक्तिरेवैषा कोऽत्र पर्यनुयुज्यते इति ।
यत्तु साक्षान्नञोऽनन्तरं विधिविभक्तिर्नोत्पद्यते तत्तस्याधातुत्वाद्धातोः परे
तिङादयः प्रत्यया भवन्ति नान्यस्मादिति योग्यतया तु नञर्थेन सम्बन्धः, न च
तत्रायमर्थोऽवतिष्ठते हननविधिर्नास्तीति किं तु नञुपहिते विधिरौदास्ये पुरुषं
नियुङ्क्ते तदवच्छेदकश्च हन्तिरन्यथा सर्वक्रियौदासीन्यं प्रतीयेतेत्यलमतिवि-
मर्द्देन निषेधविधेरपि सिद्धोऽनुबन्धद्वययोगः ।
एवं नियोगव्यापारे समाप्ते फलकल्पना ।
नृबुद्धिप्रभवैव स्यादतः सापेक्षता भवेत् ॥
कथं नरो निवर्त्तेत प्रत्यवायभयाद्विना ।
मा निवर्त्तिष्ट विधिना तावदुक्तं निवर्त्तनम् ॥
प्रवृद्धतररागान्धः प्रत्यवायेऽपि कल्पिते ।
न निवर्तेत इत्येवं किं विधेरप्रमाणता ॥
फलं भवतु मा वा भूतपुरुषोऽपि प्रवर्त्तताम् ।
मा प्रवर्त्तिष्ट वा स्वे तु नास्त्यर्थे खण्डना विधेः ॥
प्रवर्त्तनावगमजनने हि विधिव्यापार इति असकृदुक्तम् , तत्र तस्य न किं
चिद्वैकल्यम् ।
ननु विधेः फलापेक्षता नास्ति चेत्किं तर्हि अश्रूयमाणफलेषु विश्वजिदा-
दिषु स्वर्गादिफलं कल्प्यते, उच्यते अश्रूयमाणत्वादधिकारानुबन्धस्य निरधि-
कारस्य च विधेर्विधित्वानिर्वाहादधिकारानुबन्धः कल्प्यते तत्र सर्वान्प्रति
अविशिष्टत्वात्स्वर्गकामः चोदनाशेषभावेन नियोज्यः कल्प्यते, न चेयं पौरुषी
कल्पना श्रुत्येकदेशः स इति हि तद्विदः, तदियमधिकारानुबन्धकल्पना न
फलकल्पना इति सोऽयमनुबन्धद्वयावच्छिन्नो नियोगो वाक्यार्थः,
वाक्यार्थत्वं चास्य प्रधानत्वाद् अन्यो हि यज्यादिरर्थोऽवगम्यमानस्तदनु-
प्रवेशेन प्रतीयते गुणो भवति, नियोगस्तु स्वमहिमान्विततदृष्टोपकारानेकक्रिया-
कारककलापोपबृंहितस्वरूपः प्रतीयते इति प्राधान्यमवलम्बते, कार्यं चेत्प्रधान-
मुच्यते नियोग एव कार्यम् , फलं चेत्प्रधानमुच्यते तदपि नासिद्धम् , अपि तु
साध्यं साध्यत्वं चास्य नियोगाधीनमिति नियोग एव प्रधानम् , पुरुषस्तु नि-
योज्यमानत्वादप्रधानमिति, एवं नियोग एव प्रधानत्वाद्वाक्यार्थः ।
प्रमाणप्रकरणम् ३२५
नियोगस्य चातुर्विध्यम्—
स च प्रतीतिभेदपर्यालोचनया चतुरवस्थ उच्यते उत्पत्तिविधिरग्निहोत्रं
जुहोतीति अग्निहोत्राख्यकर्मस्वरूपोत्पाद्यव्यतिरेकेणार्थान्तरानवगमात् ,
विनियोगविधिः दध्ना जुहोतीति पयसा जुहोतीति उत्पत्तिविधितः प्रति-
पन्ने भावेऽर्थे तत्र दध्यादिगुणविनियोगाऽवगमात्,
अधिकारविधिः अग्निहोत्रं जुहुयात् स्वर्गकाम इति निर्ज्ञाते कर्मणि तत्रा-
धिकृतस्य पुंसस्ततोऽवगमात्
प्रयोगविधिस्तु क्रमपर्यन्तं प्रयोगे पदार्थानामवगम इति अयं चाधिकारवि-
धेरेव व्यापारविशेष इति तदेवास्योदाहरणम् अग्निहोत्रं जुहुयात्स्वर्गकाम इति ,
क्वचिदेकस्मिन्नेव वाक्ये रूपचतुष्टयं विधेरवगम्यते न तत्र पृथगुदाहरणम-
पेक्ष्यते यथा एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन
यजेतेति,
अन्यान्यपि नियोगस्य रूपाणि व्यापारभेदादवगम्यन्ते, स हि भावार्थसि-
द्ध्यर्थं तत्समर्थमर्थमाक्षि पतीति तत्प्रयोजक उच्यते, यथा माणवकस्थस्या-
ध्ययनस्याचार्यकरणविधिः,
नियोगस्य रूपान्तराणि—
क्व चिदन्याक्षिप्ते वस्तुनि लब्धे सति तत्राप्रयोजको विधिर्भवति यथा क्रय-
नियुक्तयैकहायन्या लाभे सति न पादपांसुग्रहणार्थमन्यामेकहायनीमाक्षिपति
विधिरिति, प्रकरणपरिपठितपदार्थपटलपरिग्रहश्च ग्राहक इति विधिरुच्यते,
क्व चित्प्रकरणपरिपठितस्यापि तेनागृहीतस्य द्वादशोपसदादेः प्रकरणादुत्क-
र्षदर्शनादत एव नियोगगर्भो विनियोग इत्याचक्षते,
क्व चिद्विनियोजकश्रुत्यादिप्रमाणविरहेऽपि पश्वेकत्वादुपादानं शेषीकुर्वन्नु-
पादायक इत्युच्यते पशुना यजेतेति विभक्त्या प्रातिपदिकार्थो विनियुक्तः तत्स्थ-
मेकत्वम् उक्तमेव न विनियुक्तमेकेनेत्यश्रवणात् पशुरुपादीयमानो न सङ्ख्या-
रहित उपादातुं शक्यते श्रुतसङ्ख्यापरित्यागकारणाभावाच्चैकत्वविशिष्टः
पशुरुपादीयते इत्युपादानशेषीकृतमेकत्वम् ,
वैकृतस्तु सौर्यादिविधिः प्राकृतमितिकर्त्तव्यताजातमाकर्षँश्चोदक इत्युच्यते ।
नियोगस्य वाक्यार्थत्वोपसंहारः—
तदिदमेकस्यैव भगवतो लिङर्थस्य प्रयोक्तृशक्तिखचितात्मनः प्रचुरव्या-
पारवैचित्र्यमुपदर्शितमित्यलमनया महामतिमानसविलासवत्या मीमांसार्थ-
कथया सोऽयमीदृशो नियोगो वाक्यार्थः ।
३२६ न्यायमञ्जर्याम्
तस्य द्वादशलक्षण्यां तत्तद्रूपं प्रकाशितम् ।
तन्नेह लिख्यते ऽस्माभिर्ग्रन्थगौरवभीरुभिः ॥
दिङ्मात्रं त्वेतदाख्यायि नियोगस्य यथागमम् ।
अमुष्मिन्नपि वाक्यार्थे विवदन्ते मनीषिणः ॥
फलज्ञानस्यैव प्रवर्त्तकत्वनिरूपणम् —
लिङादेरवगम्यमानः कार्यरूपः प्रेरणात्मा च वाक्यार्थो नियोग इत्युक्तम् ,
न चासवेवंरूपो ऽपि परिदृश्यमानभावनादिव्यतिरिक्तो ऽवगम्यते ।
क्रियैव तावत्कार्यात्मा प्रेरणात्मा फलार्थिता ।
प्रतीयते ततो ऽन्यस्तु नियोगो नोभयात्मकः ॥
नन्वन्य एव क्रियाकर्तृसम्बन्धात्प्रैष्यप्रैषसम्बन्धो दर्शितः, अयुक्तो ऽसौ ।
कुर्यादित्यादिशब्देभ्यः क्रियादिव्यतिरेकिणः ।
नार्थान्तरस्य संवित्तिः कस्य चित्प्रेरणात्मनः ॥
किमिदानीं करोतीति कुर्यादित्यादि च तुल्ये एते प्रतिपत्ती, अभिनवमिदं
शब्दव्युत्पत्तिमत्त्वमायुष्मतः न ब्रूमो न भिन्ने एते प्रतिपत्ती इति करोतीति प्रवृ-
त्तक्रिय उच्यते वर्तमानकालाच्छिन्नश्च किन्त्वसौ प्रैषतस्तो ऽवगम्यमानो ऽपि
प्रेरको न भवति न च कार्य इति ब्रूमः ।
ननु प्रेरकत्वेनैवावगम्यमानः कथं प्रेरको न भवेद् एतदेवास्य प्रैषत्वं
यत्प्रेरकत्वम् , सत्यम् प्रेरकत्वेनैवासौ गम्यते न त्वसौ तथा भवति व्यवहार-
मात्रमेतद् राजाज्ञां करोमीति कार्यत्वमस्य क्रियामात्रं राजाज्ञां करोमीति ।
आज्ञा हि नाम नैवान्यसम्पाद्यत्वेन गम्यते ।
नानुष्ठातुरियं बुद्धिराज्ञा सम्पाद्यतामिति ॥
एवं हि यस्य कस्यापि प्रवर्तेत स आज्ञया ।
न चेह बालोन्मत्तादिवचनाद्यत्नवर्जितात् ॥
सत्यपि प्रेरणाज्ञाने प्रवर्तन्ते सचेतसः ।
भयं नाशङ्कते यस्मात्फलं वा ऽपि समीहितम् ॥
तथाविधस्य राज्ञो ऽपि नाज्ञानुष्ठीयते जनैः ।
वर्तमानापदेशे ऽपि फलं यत्रावगम्यते ॥
तत्र प्रवर्तते लोको लिङादिष्वश्रुतेष्वपि ।
भवत्यारोग्यसम्पत्तिर्भुञ्जानस्य हरीतकीम् ॥
तत्कामो भक्षयेच्चेति को विशेषः प्रवर्त्तने ।
अन्वयव्यतिरेकाभ्यां तदेवमनुमन्यते ॥
प्रेरकत्वं फलस्यैव न नियोगात्मनः पुनः ।
तत्रैतत्स्यात्, लोके भवतु फलार्थित्वात्प्रवर्तनमाराधयिष्यते प्रेरकाशयानु-
वर्तने वा तस्य पारम्पर्येण फलहेतुत्वात्, वेदे तु वक्तुरभावात्प्रेरणावगमादेव
प्रवृत्तिरुन्मत्तवाक्यादपि लिङादियुक्तान्न प्रेरणावगमो नास्ति भवन्नपि फलादर्श-
नादुपेक्ष्यते उन्मत्त एवं प्रलपतीति, वेदे पुनर्यजेतेत्यत्र प्रेरणावगमात्परित्या-
गकारणाभावात्तत एव प्रवर्तनम्, प्रवर्तनाऽभावे ऽपि न वेदस्याप्रामाण्यम्,
प्रमाणव्यापारस्य तेन निर्वर्तितत्वादित्युक्तम्, उच्यते वेदे ऽपि वक्ता ऽस्ति
तदाशयवशेन तत्रापि फलार्थिनां प्रवर्तनमिति सम्भवदपीदमुत्तरं नाचक्ष्महे कथा-
न्तरप्रसङ्गात् किं त्विदं ब्रूमः, प्रेषणावगमादेव प्रवृत्तिसिद्धौ स्वर्गकामपदं बाद-
रिवदन्यथा व्याख्याताम्, अधिकारानुबन्धाभिधाने पुरुषविशेषणमात्रमेतद्भव-
तु किं स्वर्गसाध्यत्वकल्पनया, विशेषणत्वमेवान्यथा न निर्वहतीति चेद् आयातम्
तर्हि फलस्य साध्यत्वं तच्चेत्साध्यत्वेनावगम्यते तस्यैव सामर्थ्यसिद्धं लोकानु-
गुणमव्यभिचारि च प्रवर्तकत्वमुत्सृज्य न प्रेरणावगमस्य तद्वक्तुमर्हसीति ।
नियोगादथ निष्पत्तिः फलस्येत्यभिधीयते ।
फलं प्रत्यङ्गभूतत्वादवाक्यार्थत्वमापतेत् ॥
ननु विध्यर्थो न भावार्थवत्फले करणं येनास्य तदङ्गत्वं स्यात्, आक्षेप-
कत्वात्तु तस्य फलार्थत्वमुच्यते प्रयोक्तृत्वं हि तस्य निजं रूपं यद्येवं भावार्थ
एव साध्यो भवतु विध्यर्थस्य तु किमनुष्ठेयत्वमुच्यते, सो ऽपि भावार्थसिद्ध्या
सम्पद्यते कृतो मया स्वामिनियोग इति व्यवहारादिति चेत् ।
भावार्था तर्हि निष्पत्तिर्नियोगस्य फलस्य च ।
इत्येकत्र पदग्रामे वाक्यार्थद्वयमापतेत् ॥
किं चान्विताभिधानेन विषयत्वावधारणात् ।
नियोगस्यैव भावार्थनिष्पाद्यत्वं प्रतीयते ॥
स तु भावार्थतः सिद्धो फलाय यदि कल्प्यते ।
परार्थत्वादवाक्यार्थो भवेदित्युपवर्णितम् ॥
भावार्थस्तु द्वयं कुर्याद्युगपद्वा क्रमेण वा ।
युगपन्नास्य सामर्थ्यं समत्वं च द्वयोर्भवेत् ॥
नियोगश्च शब्दैकगोचरत्वान्नादर्शि फलं तु स्वर्गपश्वादि तेन सह नि-
ष्पाद्यमानं किमिति न गृह्यते, क्रमपक्षे पूर्वं वा नियोगः पश्चात्फलं पूर्वं वा
फलं पश्चाद्वा नियोगः सिद्धयेदिति, यदि पूर्वं नियोगः तदा नियोगस्यासिद्धेर्नि-
र्विषयाया अनुपपत्तेः करणांशे ऽपि धीप्रवृत्तिः स्यात् ।
यथा नियोगनिष्पत्तिः प्रयाजादिकृतेन तु ।
तत्र प्रवृत्तिः शास्त्रीया भावार्थे ऽपि तथा भवेत् ॥
इष्यते इति चेत् ।
३२८ न्यायमञ्जर्याम्
नन्वेवं तस्य लिप्सार्थलक्षणेत्यभ्यधायि यत् ।
श्येनादीनामधर्मत्वं वर्णितं तद्विरुध्यते ॥
अथ पूर्वं फलसिद्धिः ततो नियोगसिद्धिः तर्हि फलस्य तदानीं दर्शनं भवे-
त्सिद्धत्वात् ।
न च भावार्थवेलायां पुत्रपश्वादि दृश्यते ।
अदृश्यमानमप्येतत्सिद्धमित्यतिविस्मयः ॥
अतश्च यत्कैश्चिदुच्यते स्वर्गसिद्धिमवान्तरव्यापारीकृत्य नियोगमनेन भा-
वार्थः सम्पादयतीति तदप्यपास्तम्, अवान्तरस्य व्यापारस्य ज्वलनादेरिव प्र-
धानव्यापारात्पूर्वं दर्शनप्रसङ्गादिति, अथोच्यते स्वर्गकामस्य स्वर्गं साधयि-
तुमुद्यच्छतो यागेन योगः सम्पाद्यः श्रूयते स च चेत्सम्पन्नः शब्दवृत्तेन फलमपि
सम्पन्नमेव, आनुभाविकी तु स्वर्गसिद्धिः कालान्तरे भविष्यतीति, एतदयुक्तम् ,
सिद्धिद्वयानुपलम्भान्न ह्येका शाब्दी सिद्धिरन्या चानुभाविकी नामेति काला-
न्तरे चानुभाविकी सिद्धिः कुतस्त्येति चिन्त्यम् ।
कालान्तरे च भावार्थः क्षणिकत्वान्न विद्यते ।
शक्त्यादिरूपं चापूर्वं न भवद्भिरुपेयते ॥
भवन्तो ह्यपूर्वशब्देन धर्मशब्देन च नियोगमेवापचरन्ति न च नियोगः
शक्तिवदात्मसंस्कारवद्वा कालान्तरस्थायी भवति स हि प्रेरणात्मकः कार्यरूपो
वा नोभयथा ऽपि स्थैर्यमवलम्बते, तत्रैतत्स्याद् नियोगसिद्धिराक्षिप्तफलसि-
द्धिर्भवति विषयाद्यनुबन्धावच्छिन्नो ह्यसावेवानुष्ठेयः तत्र यथा तेन तेन कार-
कचक्रेण क्रियाकलापेन विना सम्पत्तिमलभमानः तत्तदाक्षिपति तथा ऽधिका-
रानुबन्धवन्ध्यो ऽपि नासौ सम्पत्तिमधिगच्छतीति तमप्याक्षिपति, यश्चायम-
धिकारानुबन्धः स एवायं फलाक्षेपो न तु विधेः फलापेक्षितेत्युक्तम् , एतद्-
युक्तम् ।
यो हि येन विना कामं न सिद्ध्येत्स तमाक्षिपेत् ।
नियोज्यमात्राक्षेपे तु नियोगे न फलात्मकः ॥
नियोज्यश्चण्डालस्पर्शेनेव स्वर्गकामनोत्पादमात्रेण नियोज्यतां प्रतिपन्न
इति इत्थं नियोज्याक्षेप एव फलाक्षेपः ।
ननु च स्वर्गकामो ऽत्र नियोज्यो नान्यथा भवेत् ।
यदि स्वर्गस्य सम्पत्तिं नाधिगच्छेत्स्वकर्मणः ॥
नैतदेवम्-
नरेच्छामात्रमेवेदं न शब्दस्त्वियति क्षमः ।
नियोज्यः स्वर्गकामो हि भवेज्जीवनवानिव ॥
ननु लोके काम्यमानस्य साध्यत्वं दृष्टं हरीतकीं भक्षयेदारोग्यकामस्तेन
प्रमाणप्रकरणम् ३२५
वेदे ऽपि यजेत स्वर्गकाम इति स्वर्गस्य साध्यत्वमवभोत्स्यामहे, साधो लोके
ऽपि कथमेतदवगतं नियोज्यसमर्पकपदवाच्यपर्यालोचनेन विधिवृत्तपरीक्षया वा।
पदार्थस्तावदेतानावेवक्तामो ह्यसाविति ।
इदं तु सिद्ध्यते तस्मादिति तस्य न गोचरः ॥
विधेरेष स्वभावश्चेदायुष्मन् साधु बुध्यसे ।
भाट्टैः किमपराद्धं ते नित्ये ऽपि फलवादिभिः ॥
अधिकार्यनुपादेयविशेषणविशेषितः ।
जीवन्वा स्वर्गकामो वा समानः काम्यनित्ययोः ॥
विधिवीर्यस्वभावस्तु कुमेरपि तथाविधः ।
सप्रत्ययप्रेरकतां विधिर्नोपेति निष्फलः ॥
ननु कामाधिकारे स्वर्गः श्रूयते नित्याधिकारे तु असौ न श्रूयते अश्रूय-
माणः कस्यानुरोधेन कल्प्यते, विधेरेवेति ब्रूमः, स्वर्गेण श्रुतेनापि किं करिष्यति
यद्यसौ विधिना नापेक्ष्यते घृतकुल्या अस्य भवन्तीत्यादिवच्छ्रुते ऽपि चासौ
विधिनाकृष्यते एव, तस्माद्विधिरत्र प्रमाणं न श्रवणाश्रवणे इति काम्यवन्नित्ये
ऽपि फलमभ्युपगन्तव्यं न वा क चिदपीति ।
प्रतिषेधाधिकारे ऽपि विधिवृत्तपरीक्षया ।
एवं नरकपातादिफलयोगो न दुर्भणः ॥
येन हि दुर्विषहक्लेशद्वेषकलुषितमनसा ब्राह्मणहननं सुखसाधनमिति कर्त्त-
व्यमिति गृहीतं निरर्गलरागरसिकेन सुरापानं सुखसाधनमिति गृहीतं स ततो
विधिना वार्यते यदि तदसुखसाधनमिति ज्ञाप्यते, तस्मान्नित्येषु प्रत्यवायपरि-
हार इव उपात्तदुरितक्षय एव वा प्रतिषिध्यमानेषु कर्मसु नरकपातः फलमि-
त्यभ्युपगमनीयम्, इतरथा ह्यर्थानर्थविवेको न सिद्ध्यति ॥
एवं च ब्रह्महत्यादेरपि नैवास्त्यधर्मता ।
उभयत्रापि लिप्सातः सति चैवं प्रवर्तने ।
अग्नीषोमीयहिंसादेः श्येनादिवदधर्मता ॥
यदप्युक्तं कामाधिकारेषु काम्यमानभावार्थयोरुपायोपेयभावमात्रप्रतिपाद-
नपर्यवसितो विधिव्यापार इति तदपि न सम्यक्, विधिपुरुषयोर्हि प्रेर्यप्रेरकत्वल-
क्षणः संबन्धः तत्र यागादयो विषयत्वेन प्रतीयन्ते नेष्यमाणोपायत्वेन साध्यसा-
धनमात्रप्रतिपादनपर्यवसितव्यापारस्तु विधिर्विनियोगपर एव स्यात्, तत-
श्चाप्रवृत्तप्रवर्तकत्वं नाम निजं रूपं जह्यात् ।
विधेश्चतुरवस्थत्वं फलतः किल कथ्यते ।
प्रेरकत्वं च तद्रूपं सर्वावस्थानुगामि यत् ॥
कार्यात्मता ऽपि विध्यर्थे पेरणाज्ञप्तिपूर्विका ।
प्रेर्येणैव सता पुंसा तत्कार्यमवधार्यते ॥
लिङादिश्रुतिस्तश्चादौ प्रेरणैव प्रतीयते ।
साध्यसाधनसंबन्धबुद्धिस्तद्बुद्धिपूर्विका ॥
नन्वेवं काम्येषु कर्मसु विधितः प्रवृत्ताविष्यमाणायामप्रवर्तमानः प्रत्यवे-
याद्विध्यतिक्रमात्, मैवम्, स्वर्गं संसिषाधयिषोस्तत्राधिकारादन्यस्त्वनधिकृत
एव क्षत्रियादिरिव वैश्यस्तोमे नासावकुर्वन् प्रत्यवायमर्हति, स्वर्गार्थी तु विधितः
प्रवर्तते एव लिप्सया तु करणांशे प्रवृत्तिरिष्यमाणा क्रत्वर्थमितिकर्त्तव्यतांशमपि
सैव स्पृशेत् ऋतूपकारकामो हि तत्र प्रवर्तते इत्येवं सर्वत्र विधिरुत्सीदेदेवेत्यलं
प्रसङ्गेन ।
अपि च—
प्रमाणान्तरसम्पर्कविकले भवतः कथम् ।
नियोगात्मनि वाक्यार्थे व्युत्पत्तिर्व्यवहारतः ॥
ननूक्तमाकृतविशेषपूर्विकां चेष्टामारमनिष्ठां दृष्ट्वा परत्रापि तथाऽनुमानमि-
त्ययुक्तमिदम्, स्वात्मन्यपि प्रेरर्णावगमनिमित्ताभावाच्च ह्यात्मसंविदिव स्वप्र-
काशा प्रेरणा, संवित्स्वप्रकाशेति चेत् तदुत्पादे तर्हि निमित्तं मृग्यम्, न ताव-
च्छब्दस्तदानीं व्युत्पत्त्यभावात् स्वात्मनि प्रेरणावगमपूर्विकां हि चेष्टामुपलब्धवतः
ते परत्र चेष्टादर्शनात्तदनुमानं सेत्स्यति तन्निमित्तं लिङादिशब्द इति भोत्स्यते
स पुनर्व्युत्पत्तिक़ाले स्वात्मन्येव प्रेरणावगमः चिन्त्यो वर्त्तते, प्रमाणान्त-
रात्तु तदवगम इति चेदु उत्तिष्ठत्यसिद्धं शब्दैकगोचरत्वम्,
या चेयं पूर्वावधारितसुखसाधनभावे कपित्थादौ स्वात्मनि प्रवृत्तिरुपलब्धा
तत्र प्रेरकत्वेन फलार्थिता निर्ज्ञाता नान्या का चित्प्रेरणा, तदुक्तं 'स्मरणादभिला-
षेण व्यवहारः प्रवर्तते' इति, फलविषया हीच्छा तत्रस्वसंवेद्या ।
प्रमाणाप्रकरणम् ३३१
अतश्च प्रेरकाज्ञानं शब्दादपि परस्य यत् ।
कल्प्यते कल्प्यतां तत्र प्रेरिका सैव सुन्दरी ॥
चपेटापरिहाराय मोदकप्राप्तये ऽपि वा ।
प्रवर्तते वटुर्नासौ जुहुधीति नियोगतः ॥
फलस्य प्रवर्त्तकत्वे पूर्वोदीरितदूषणजातस्य परिहरणम्—
कथं तर्ह्येवमाचष्टे आचार्यचोदितो ऽहं जुहोमीति, अस्त्वयं व्यपदेशः
आचार्यचोदना तु न तत्र कारणम् अपि तु हिताहितप्राप्तिपरिहारार्थित्वमे-
वेत्यतः फलं प्रवर्तकं युक्तम् अनुभवसाक्षिकत्वात् ,
ये ऽप्याहुः प्रयोक्त्राशयस्य प्रवर्तकत्वं यतो ऽनुविधेयस्य वचनान्न प्रवर्त-
मानः कश्चिद् दृश्यते अनुविधेयस्य पुंसः किं चिदब्रुवतो ऽपि भ्रूभङ्गादिना-
ऽऽशयमवगम्य प्रवर्तते इति ।
एतदप्ययुक्तम्—यतः प्रयोक्त्राशयानुमानेन स्वार्थसम्भावनया लोकः प्रवर्तते
न पुनः प्रयोक्तैव प्रीयतामिति तत्प्रीतिरपि स्वप्रीतिहेतुत्वेनार्थ्यते न तत्प्री-
तित्वेन, बुद्धो ऽपि हि नाम सकलसत्त्वहितप्रतिपन्नः परार्थं स्वप्रयोजना-
यैव सम्पादयति परार्थसम्पादनद्वारकं तु तत् , तस्मात्स्वप्रीतिरेव प्रवर्त्तिका-
प्रयोक्त्राशयस्य च प्रवर्तकत्वे वेदार्थप्रयोक्त्राशयानवधारणादप्रवृत्तिरेव प्राप्नोति-
तस्मात्फलमेव प्रवर्तकम् ,
यत्पुनः फलस्य प्रेरकत्वे दूषणमभ्यधायि सिद्धासिद्धविकल्पानुपपत्तेरिति
तदप्ययुक्तम् , इच्छाविषयीकृतस्य प्रवर्तकत्वाभ्युपगमात् , असिद्धे कथं नेति चेद्
असिद्धत्वादेव, इदानीं च तदसिद्धं नैकान्तासिद्धस्वरूपमेव खपुष्पवत् ।
सुखे दुःखनिवृत्तौ वा पुंसां भवति कामना ।
न पुनर्ब्योमपुष्पादि कश्चित्कामयते नरः ॥
ये ऽपि रागादेः प्रवर्तकत्वमभ्युपगतवन्तः तैरपि कामनाविषयीकृतं फल-
मेव प्रवर्तकमभ्युपगतम् , इच्छाविशेषा एव हि रागादयः,
यदपि श्रेयस्साधकं प्रवर्तकमुच्यते तदपि न चारु, सत्यामपि श्रेयः साध-
नतायाममर्थित्वेन प्रवृत्त्यभावात् ,
नन्वर्थिनो ऽपि नानियतविषया प्रवृत्तिः अपि तु निर्ज्ञातश्रेयःसाधनभावे
ऽर्थे तस्मात्तत्साधनावगमः प्रवर्त्तकः, सत्यम् , द्वये सत्यपीच्छेव प्रवर्त्तिका वक्तुं
युक्ता तस्यां प्रवृत्तिदर्शनात् , प्रवृत्तिर्हि नाम प्रयत्नः प्रयत्नश्चेच्छाकार्यं
इति काणादाः, विषयनियमे तु श्रेयस्साधनत्वं कारणं न प्रवृत्त्युत्पादे, किं च
भावनावगतं श्रेयस्साधनत्वं प्रवर्तकमिष्यते तैस्तच्च न पृथगभिधातुं युक्तम् ,
भावनायाः त्र्यंशत्वेन तत्स्वरूपावगमसमये एतदंशयोः स्वर्गयागयोः साध्यसा-
३३२ न्यायमञ्जर्याम्
धनभावावगतिसिद्धेः, न चांशद्वयावच्छिन्नस्य व्यापारस्य श्रेयसाधनत्वं रूपं
वक्तुमुचितम् अनिष्पन्नस्य तस्य ताद्रूप्याभावान्न ह्यनिष्पन्ने गवि तदेकदेशे
सास्नादौ गोत्वरूपं सामान्यं निविशते नचांशत्रयपूरणमन्तरेण भावनाख्यव्या-
पारनिष्पत्तिरिति ।
यत्तु लिङादेः शब्दस्य तद्व्यापारस्य वा प्रेरकत्वमुच्यते तत्प्रागेव प्रतिक्षिप्तम्,
विधिरपि स्वमहिम्ना न प्रेरकस्साध्यसाधनसम्बन्धावबोधपुरस्सरे तु तस्य
प्रवर्तकत्वे फलस्यैव प्रवर्तकत्वमिदमनन्तरमभिहितं भवति ।
यस्त्वाह प्रेरकत्वं चेत्फलं दर्शयतो विधेः ।
प्रत्यक्षादिसमानत्वात्स्वातन्त्र्यं तस्य हीयते ॥
स वाच्यः फलशून्यत्वे सुतरामस्वतन्त्रता ।
यद्रिक्तमर्थं मूढो ऽपि न कश्चिदनुतिष्ठति ॥
को हि नाम निष्फलमर्थं प्रेक्षावाननुतिष्ठेत् , ननु फले ऽपि दर्शिते के
चित्तत्र न प्रवर्तन्ते एव, कि चातः कामं मा प्रवर्त्तिषत न हि कारको विधिरपि
तु ज्ञापक इत्युक्तम् , ननु फलमप्रदर्शयन्नपि ज्ञापयेत् न ज्ञापयितुमुत्सहते प्रेक्षा-
वान् हि ज्ञाप्यते न च फलं विना ऽसौ तथा ज्ञापितो भवति इत्यलं बहुभाषितया।।
फलस्यैवेष्यमाणस्य पश्यन्प्रेरकतामतः ।
यमर्थमधिकृत्येति सूत्रं व्यधित सूत्रकृत् ॥
प्रकरणार्थोपसंहारः —
तस्मात्पुंसः प्रवृत्तौ प्रभवति न विधेर्नापि शब्दो लिङादि-
व्यापारो ऽप्येतदीयो न हि पटुरभिधा भावनानामधेया ।
न श्रेयस्साधनत्वं विधिविषयगतं नापि रागादिरेवं
तेनाख्यात्काम्यमानं फलममलमतिः प्रेरकं सूत्रकारः
दर्शयिति तदीयां सरणिमनुसरद्भिरस्माभिरपि तथैव तत्कथितम्,
वाक्यार्थस्तु न क चिदपि सूत्रकारभाष्यकाराभ्यां सूचित इति चेत् पृथक्-
प्रस्थाना इमा विद्याः, प्रमाणविद्या चेयमान्वीक्षिकी न वाक्यार्थविद्येति,
यद्येवं पदार्थो ऽपि कस्मादिह दर्शितः “व्यक्ताकृतिजातयः पदार्थ” इति,
स्थाने प्रश्नः स तु शब्दानामर्थास्पर्शितां वदन्तं रुदन्तं च शमयितुं शब्दप्रा-
माण्यसिद्धये सूत्रकृता यत्नः कृतः,
यद्येवं वाक्यार्थमपि बाह्यं वास्तवमन्तरेण शब्दप्रमाणता न प्रतिष्ठां लभते
इति तत्रापि प्रयत्नः कर्त्तव्य एव, सत्यम्, पदार्थप्रतिपादनेनैव तु कृतेन
तत्र यत्नं कृतं मन्यते सूत्रकारः, यदयं पृथक्पदार्थेभ्यो न वाक्यार्थमुपदिशति
स्म, तस्मादयमस्याशयः, पदार्थ एव वाक्यार्थ इति, तत्किममुमेव पक्षमनुमोदा-
महे पदार्थ एव वाक्यार्थ इति, बाढं ब्रूमः, किं च नैकपदार्थो वाक्यार्थः, अने-
कस्तु पदार्थो वाक्यार्थः ।
नन्वनेको ऽपि भवन्पदार्थ एवासौ न च पदार्थो वाक्यार्थो भवितुमर्हति सा-
मान्ये हि पदं वर्त्तते विशेषे वाक्यम् अन्यच्च सामान्यम् अन्यो विशेषः अन्य-
त्राप्युक्तम् ‘यत्राधिक्यं स वाक्यार्थ’ इति तस्मादन्यः पदार्थः अन्यश्च वाक्यार्थः,
उच्यते, यदेतदुक्तमस्माभिरनेकः पदार्थो वाक्यार्थो न पुनरेक इति तन्न गृहीतमा-
युष्मता एतदुक्तं भवति परस्परं संसृष्टपदार्थसमुदायो वाक्यार्थ इति, संसर्ग एवा-
धिक इति यत्राधिक्यमित्युच्यते, न चानाक्षिप्तविशेषत्वेन संसर्ग उपपद्यते इति
विशेषो वाक्यार्थ इत्युच्यते संसर्गस्तु स्वरूपतो न वाक्यार्थो ऽपदार्थत्वात्, गोः शुक्ल
आनीयतामिति पदार्थग्रामे संसर्गवाचिनः पदस्याश्रवणात् , श्रवणे ऽपि सुतरा-
मनन्वयात् गौः शुक्ल आनीयतां संसर्ग इति को ऽस्यार्थः, तस्मात्संसृष्टो वाक्यार्थो
न संसर्गः, तदुक्तम् ‘व्यतिषक्ततो ऽवगतेर्व्यतिषङ्गस्य’इति, न च तन्तुभिरिव पटो
वीरणैरिव कटः तदतिरिक्तो ऽवयविस्थानीयः पदार्थनिर्वर्त्यमानो वाक्यार्थ उप-
लभ्यते, जातिगुणक्रियावगमे ऽपि अवयविबुद्धेरभावात् , न च पदार्थावयवी
वाक्यार्थः, तेन पृथग् वाक्यार्थं नोपदिष्टवानाचार्यः,
ननु गुणप्रधानभावमन्तरेण न संसर्गो ऽवकल्पते न चैकस्मिन्वाक्ये बहूनि
प्रधानानि भवन्ति प्राधान्यमेव हि तथा सति न स्यात् , गुणास्तु बहवो भवन्ति
तदिदमेकगुणोपरक्तमेकं किं चित्प्रधानं स वाक्यार्थ इति तद्विषयेयमेकस्व-
भावा बुद्धिः, सत्यम्, तथा ऽपि ते एव संसृष्टाः पदार्था अवभासन्ते न तदारूढः
कश्चिदेकः संसर्गसिद्धिकृतस्तु गुणप्रधानभावो ऽभ्युपेयते, स च गुणप्रधानभावो
न नियतो येनैकमेवेदं प्रधानमिति व्यवस्थाप्येत, क्वचित्क्रिया प्रधानं कारकं
गुणाः व्रीहिभिर्यजेतेति, क चित्कारकं प्रधानं क्रिया गुणः द्रव्यस्य चिकीर्षितत्वे-
नावगमाद् व्रीहीन् प्रोक्षतीति ।
३३४ न्यायमञ्जर्याम्
सिद्धतन्त्रं क्वचित्साध्यं तत्तन्त्रमितरत्क्व चित् ।
शब्दप्रयोगतात्पर्यपर्यालोचनया भवेत् ॥
तस्माद्गुणप्रधानभावानियमादन्योन्यसंसृष्टः पदार्थसमुदायो वाक्यार्थ
इति एतावदेव श्रेयः, संसर्गावगमे च सर्ववादिनामविवादः ।
वाक्यार्थं मन्वते ये ऽपि नियोगं भावनां क्रियाम् ।
तैरप्यन्योन्यसंसृष्टः पदार्थमाम इष्यते ॥
ननु संसर्गवदन्यव्यवच्छेदो ऽपि गम्यते गौः शुक्ल आनीयतामिति श्रुते
कृष्णादिभ्यो व्यवच्छिद्यते, अन्यापोहस्तु न पदार्थ इत्युक्तम्, तस्मान्न भेदो
वाक्यार्थः,
ननु संसर्गो ऽपि न शब्दार्थः, सत्यम्, स हि शब्दस्याभिधेयो न
भवति न तु ततो न प्रतीयते, अनभिधेयः कथं प्रतीयते इति चेद् एतदग्रे निर्णो-
ष्यते, व्यवच्छेदे तु न सा गतिस्तस्मात्संसृष्टाः पदार्था वाक्यार्थ इति स्थितम्,
अथ वा गुणीभूतेतरपदार्थानुगृहीत एक एव प्रधानभूतः पदार्थो वाक्यार्थ
इत्येकाकारप्रतीतिबलादुपेयताम्,
फलस्य वाक्यार्थत्वस्थापनम्—
एकस्त्वयमसावर्थ इति न निर्णेतुं शक्यते, यदि त्ववश्यमेकस्य कस्य चिद-
भिषेककलशो दातव्यः तत्फलस्यैव दीयताम्, न हि निष्प्रयोजनम् किं चिद्वाक्य-
मुच्चार्यते ।
क चित्साक्षात्पदोपात्तं क चित्प्रकरणागतम् ।
क चिदालोचनालभ्यं फलं सर्वत्र गम्यते ॥
सकलेन च कारककलापेन क्रिया निर्वर्त्यते क्रियया च फलं न तु फले-
नान्यत्किमपि निर्वर्त्यते इति प्रधानत्वात्फलमेव वाक्यार्थः,
ननु फलमपि पुरुषार्थमिति पुरुषः प्रधानं स्यात् नैतदेवम्, फलं सुखात्मक-
त्वात्पुरुषाश्रितं भवति सुखादीनामात्मगुणत्वान्न चैतावता पुरुषः प्रधानम्, सो ऽ
पि हि फलार्थमेव यतते भावना तावत्फलनिष्ठ एव व्यापारः नियोगस्यापि फलं
विना न प्रवर्त्तकत्वमित्युक्तम्, क्रियाया अपि केवलाया वाक्यार्थत्वमपास्तम् ।
तस्मात्फलस्य साध्यत्वात्सर्वत्र तद्वर्जनात् ।
क्रियादीनां च तादर्थ्यात्तस्य वाक्यार्थतेष्यते ॥
ननुफलस्य स्वर्गादेः निसर्गतः सिद्धरूपत्वात्कारकैस्सह सम्बन्धो न प्राप्नोति
सिद्धस्य च कः संबन्धः, क्रियागर्भ इति चेत्तर्हि फलमपि कारकान्यपि क्रियया
सम्बध्यन्ते को विशेषः, सत्यम् , परं तु कारकाणि साधनत्वेन फलं तु साध्य-
त्वेन क्रियया हि फलं साध्यते न फलेन क्रियेत्यतः फलस्यैव प्राधान्यमिति सिद्धम् ।
प्रमाणप्रकरणम् ३३५
अन्योन्यसंगतिविशेषित एव यस्मा-
द्वाक्यार्थभावमुपयाति पदार्थपुञ्जः ।
एतच्च चेतसि निधाय ततो न भिन्नं
वाक्यार्थमभ्यधित कं चन सूत्रकारः ॥
प्राधान्ययोगादथ वा फलस्य
वाक्यार्थता तत्र सतां हि यत्नः ।
प्रयोजनं सूत्रकृता तदेव
प्रवर्त्तकत्वेन किलोपदिष्टम् ॥
उद्योगस्य वाक्यार्थत्वनिराकरणम्—
अपरे पुनर्लिंङादिशब्दश्रवणे सति समुपजायमानमात्मस्पन्दविशेषमुद्योगं
नाम वाक्यार्थमाचक्षते तत्स्वरूपं तु वयं न जानीमः, को ऽयमात्मस्पन्दो
नामेति, बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा हि नवात्मनो गुणा विशे-
षगुणा भवन्ति नान्ये, तत्रायमात्मस्पन्दो बुद्धिर्वा स्यात्प्रयत्नो वा इच्छाद्वेषयोर-
न्यतरो वा, अन्ये तु विकल्पयितुमपिन युक्ताः, तत्र यदि बुद्धिरात्मस्पन्द उच्य-
ते तर्हि प्रतिभावाक्यार्थ इत्युक्तं भवति न नूतनं किं चिदुत्प्रेक्षितमेतत्, अथ
प्रयत्न आत्मस्पन्दः तर्हि भावनाया नामान्तरकरणमुद्योग इति, अथेच्छाद्वेषयो-
रन्यतरो ऽसौ तर्हि सुखेच्छा दुःखजिहासा वा वाक्यार्थ इत्यक्षपादपक्ष एवायं
नापूर्व्वं कि चित, अथापि भाट्टपरिकल्पितो व्यापार आत्मस्पन्दः सो ऽपि भा-
वनैव नार्थान्तरम्, अथानुष्ठेयः प्रेरकः कश्चिदर्थ उद्योगः स तर्हि नियोग एव
उपसर्गान्यत्वमिवं न वस्तु अन्यत् ।
तस्मादश्रुतपूर्वेण कृतमुद्योगपर्व्वणा ।
स भारतमनुष्याणां गोचरो न तु मादृशाम् ॥
प्रतिभाया वाक्यार्थत्वनिराकरणम्—
अन्यैस्तु प्रतिभा वाक्यार्थ इष्यते तत्त्वस्तु संसर्गनिर्भासज्ञाननिराकरणेन
प्रागेव प्रतिक्षिप्तः ।
प्रतिभा खलु विज्ञानं तच्च शब्देन जन्यते ।
न तु शब्दस्य विषयो रूपधीरिव चक्षुषः ॥
बाह्यस्य विषयस्याभावात्सैव विषय इति चेन्न तस्य समर्थितत्वात्, यो ऽपि
व्याघ्र आयात इत्युक्ते शूरकातरनराधिकरणनानाप्रकारकार्योत्पादः स बाह्येऽर्थे
व्याघ्रागमनादौ प्रतिपन्ने वासनानुसारेण भवन्न प्रतिभामात्रहेतुको भवति, तस्य
हि ज्ञायमानो ऽर्थः करणं न तज्ज्ञानमात्रम्, अर्थस्तदानीं नास्तीति चेद् विप्र-
लम्भकवाक्यमिदम् असत्यार्थं भविष्यति न त्वबाह्यविषयम् तत्, यथा ऽवस्थिते
वनितात्मनि बाह्ये ऽर्थे वासनानुसारेण कुणप इति कामिनीति भक्ष्यमिति प्रति-
भा भवन्ति तथा शब्दार्थे ऽपि व्याघ्रागमने ऽवगते शूराणामुत्साहः कातराणां
भियमित्यादि कार्यं भवति न त्वेतावता प्रतिभा शब्दार्थो भवितुमर्हति, तस्माद्वा-
क्यप्रयोजनत्वेन वा यदि प्रतिभा वाक्यार्थः कथ्यते कथ्यतां नाम न त्वसौ
शब्दस्याभिधेया, अनभिधेया ऽपि संसर्गवद्वाक्यार्थ इति चेत्तत्राप्युक्तम्, संसृष्टा
अर्था वाक्यार्थो न संसर्गः, एवमिहापि प्रतिभान्तो ऽर्था वाक्यार्थो न प्रतिभेति,
शब्दस्य च प्रत्यक्षवद्वर्त्तमानार्थनिष्ठत्वाभावाद् अनागताद्यर्थभिधायिनो ऽर्थास-
न्निधानेन प्रतिभापरत्वम् यदुच्यते तदप्ययुक्तम्, अनागतादिविषयत्वे ऽपि
तस्यार्थविषयत्वं प्रसाधितमिति कृतं विस्तरेण।
वाक्यार्थः परमार्थ एव तदयं नो कल्पनानिर्मितः
तद्वानप्युदितः पदस्य विषयस्तेनार्थसंस्पर्शिता।
आप्रामाण्यमतश्च ग्राह्यविषयाभावेन यद्वर्ण्यते
तच्छब्दस्य निरस्तमित्यकलुषं प्रामाण्यमस्य स्थितम्॥
इति न्यायमञ्जर्यां पञ्चममाह्निकम्॥
पदस्वरूपनिरूपणोपक्रमः।
ननु नाद्यापि शब्दस्य निरणायि प्रमाणता।
बीजं पदार्थवाक्यार्थबुद्धेर्न हि निरूपितम्॥
उच्यते, किमत्र निरूपणीयं यदनन्तरं यद्भवति तत्तस्य निमित्तम्, पदवा-
क्यश्रवणे च सति पदार्थवाक्यार्थसंप्रत्ययो भवति इति ते एव तत्र निमित्तम्।
किं पुनरिदं पदं नाम किं च वाक्यमिति, उक्तमत्र वर्णसमूहः पदं पदसमूहो
वाक्यमिति,
नन्वेतदेव न क्षमन्ते न हि वर्णानां समूहः कश्चिदस्ति वास्तवः तेन
कुतस्तत्समूहः पदं भविष्यति तदभावच्च नतरां पदसमूहो वाक्यमवकल्पते
न च वर्णानां व्यस्तसमस्तविकल्पोपहतत्वेन वाचकत्वमुपपद्यते तस्मादन्य एव
स्फोटात्मा शब्दो ऽर्थप्रतिपादक इति प्रतिजानते,
नन्वेवमस्तु स्फोटो ऽन्य एवार्थप्रतिपादको भवतु का क्षतिर्नैयायिकानाम्,
कथं न क्षतिः आप्तप्रणीतत्वेन हि शब्दस्य प्रामाण्यं तैरूक्तम्, स्फोटस्य च
नित्यत्वेन आप्तप्रणीतत्वमतश्च यस्यानित्यत्वं वर्णात्मनः शब्दस्य साधितं
नासावर्थप्रतीतिहेतुरतो न प्रमाणम्, यश्चार्थप्रतीतिहेतुः स्फोटात्मा शब्द-
स्तस्य नानित्यत्वं न चाप्तप्रणीतत्वमित्यस्थाने नैयायिकाः क्लिष्टा भवेयुः,
तस्मादनित्यानां वर्णानामेव वाचकत्वं प्रतिष्ठापनीयं पराकरणीयश्च स्फोट इति,
तदुच्यते, गकारादिवर्णावगमे सत्यर्थप्रतीतेर्भावात्तदभावे चाभावात्तेषामे-
वार्थप्रत्यायनसामर्थ्यम्, ते एव च श्रवणकरणएकावगमगोचरतया शब्दव्यपदे-
शभाज इति न प्रतीत्यनुपारूढः स्फोटो नाम शब्दः कश्चित्प्रत्यक्षानुमानातीतः
परिकल्पनीयः,
वर्णानामर्थबोधकत्वस्य निराकरणम्—
आह कथमेवं भविष्यति दूरापेता इमे मनोरथाः कुतो वर्णानामर्थप्रत्याय-
कत्वं ते हिवर्णा गकारादयो ऽर्थं प्रतिपादयन्तः समस्ताः प्रतिपादयेयुः व्यस्ता
वा, न तावद्व्यस्ताः एकैकवर्णाकर्णने सत्यप्यर्थप्रतीतेरनुत्पादात्, सामस्त्यं
वर्णानां नास्त्येव, तद्धि सत्तामात्रेण वा स्यात्प्रतीयमानत्वेन वा, नैयायिकपक्षे
तावत्सत्तया यौगपद्यमविद्यमानम् आशुविनाशिनः शब्दस्य दर्शितत्वात्,
अथापि मीमांसकमतेन नित्यः शब्द इष्यते तत्रापि सत्तया यौगपद्यस्य स-
कलवर्णसाधारणत्वात्केन वर्णसमुदायेन को ऽर्थः प्रत्याय्येतेति नावधार्यते,
अथोच्यते न चक्षुरादीनामिव वर्णानां कारकत्वं येनागृहीतानामेव सतां
यौगपद्यमात्रमर्थप्रत्ययनाङ्गं स्यात्, ज्ञापकत्वात्तेषां गृहीतानां सतां धूमादिवत्प्र-
त्यायकत्वमिति प्रतीतावेव सामस्त्यमुपयुज्यते इति ।
एतदप्यघटमानम्, प्रतीतिसामस्त्यं हि किमेकवक्तृप्रयुक्तानां वर्णानामुत
नानापुरुषभाषितानाम्, तत्रानेकपुरुषभाषितानां कोलाहलस्वभावत्वेन स्वरूपभेद
एव दुरवगम इति कस्य सामस्त्यमसामस्त्यं वा चिन्त्येत, सत्यपि वा तथा-
विधे सामस्त्ये नास्त्येवार्थप्रतीतिः, एकवक्तृप्रयुक्तानां तु प्रयत्नस्थानकरणक्रमा-
परित्यागादवश्यम्भावी क्रमः क्रमे च सत्येकैकवर्णकरणिकार्थप्रतीतिः प्राप्नोति
न चासौ दृश्यते इति व्यस्तसमस्तविकल्पानुपपत्तेर्न वर्णा वाचकाः, वर्णविषया
अपि बुद्धयस्तथैव विकल्पनीयाः, ता अपि न युगपत्सम्भवन्ति क्रमे च सत्ये-
कैकवर्णबुद्धेरर्थसम्प्रत्ययः प्रसज्यते इति,
यदप्युच्यते पूर्वपूर्ववर्णजनितसंस्कारसहितो ऽन्त्यवर्णः प्रत्यायक इति
तदप्ययुक्तम्, संस्कारो हि नाम यदनुभवजनितस्तद्विषयमेव स्मरणमुपजन-
यति न पुनरर्थान्तरविषयं ज्ञानमिति, स्मृतिद्वारेण तर्ह्यर्थप्रत्यायको ऽसौ भवि-
ष्यतीति चेद् एतदपि नास्ति, ज्ञानयौगपद्यप्रसङ्गादन्त्यवर्णज्ञानानन्तरं हि पूर्व-
वर्णस्मरणमिव समयस्मरणमपि तदैवापतति ततश्च ज्ञानयौगपद्यम्, न च
क्रमोत्पादे किं चित्कारणमुत्पश्यामः, अथापि तेन क्रमेण भवेतां तथा ऽपि
तदानीमन्त्यवर्णज्ञानमुपरतमिति कस्य साहायकं पूर्ववर्णस्मृतिर्विदधातीति,
एतच्चानेकपूर्ववर्णविषयामेकां स्मृतिमभ्युपगम्योक्तं न पुनरेका सर्ववर्णगोचरा
स्मृतिः, कुतः—
भिन्नोपलम्भसंभूतवासनाभेदनिर्मिताः ।
भवेयुः स्मृतयो भिन्ना न त्वेका ऽनेकगोचरा ॥
अथ वदेत्संकलनाज्ञानमेकं सदसद्वर्णगोचरं भविष्यति तदुपारूढाश्च वर्णा
अर्थं प्रत्याययिष्यन्तीति तदपि दुराशामात्रम् , तथाविधज्ञानोत्पत्तौ कारणा-
भावात् न चेन्द्रियमतीतवर्णग्रहणसमर्थं न संस्कारो वर्तमानग्राही भवति न च
युगपदिन्द्रियं संस्कारश्चेमां बुद्धिं जनयतः संस्कारस्य सहचरदर्शनाद्याहितप्र-
बोधस्य सतः स्मरणमात्रजन्मनि निर्ज्ञातसामर्थ्यस्येन्द्रियेण व्यापाराभावात् ,
तस्मान्न वर्णा वाचकाः,
अतश्चैवं यदि ते वाचका भवेयुर्विपरीतक्रमप्रयुक्ता अप्यर्थं गमयेयुः,
क्रमश्चेदपेक्ष्यते स व्यतिरिक्ताव्यतिरिक्ततया चिन्तनीयः, अव्यतिरेके ते एव
ते वर्णा इति कथं न बोधकाः व्यतिरेके तु किमप्यधिकं वाचकमभ्युपगतं
भवतीति मत्पक्षमाजिगमिषति भवान् ,
ननु व्युत्पत्तिवशेन शब्दे ऽर्थप्रत्यायकतामुपयाति व्युत्पत्तौ च यावन्तो
यत्क्रमका वर्णा यमर्थमभिदधतो दृष्टास्ते तावन्तस्तत्क्रमकास्तमर्थमभिवदिष्य-
न्तीति किं विकल्पमालया, तदुक्तम् (१)—
यावन्तो यादृशा ये च यदर्थप्रतिपादने ।
वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधका इति ॥
तदुच्यते, व्युत्पत्तिरेवेयं विचारणीया वर्त्तते परावगतिपूर्विका हि शब्दा-
त्स्वयमवगतिः परावगतौ च के कियन्तः कथं कमर्थं प्रतिपादयन्तो ऽनेन दृष्टा
येभ्यः तथैव तमर्थं प्रतीयादिति दुरधिगमा हि वर्णवर्तनी ।
यावन्तो यादृशा ये चेत्येवं तावत्प्रभाषसे ।
कियन्तः कीदृशाः के चेत्येवं यावन्न पृच्छ्यसे ॥
अनुमानेन स्फोटस्य साधनम्—
तस्मात्सर्वप्रकारमवाचका वर्णाः, अस्ति चेयं शब्दादुच्चारितात्तदर्थावगतिर्न
चेयमकरणिकैव भवितुमर्हति तदस्याः करणं स्फोट इति, कार्यानुमानमिदमस्तु
परिशेषानुमानं वा अर्थापत्तिर्वा सर्वथा ऽर्थप्रतीतिलक्षणकार्यवशात्कल्प्यमानं
तत्करणं स्फोट इत्युच्यते, स च निरवयवो नित्य एको निष्क्रमक इति न वर्ण-
पक्षक्षपणदत्तदूषणपात्रतां प्रतिपद्यते, अतश्च स्फोटो ऽर्थप्रतिपादकः तत्र शब्दा-
दिति प्रातिपदिकार्थो ऽप्युपपन्नः,
( १ ) श्लोकवार्तिके स्फोटवादे श्लो. ६९ । व्यवहारावगम्यं हि वाचकत्वं
नास्मदिच्छाधीनमतो यथादर्शनं तदभ्युपगमान्न काचिदतिप्रसक्तिरस्तीति भावः ।
अथ वर्णाः शब्दशब्देनोच्यन्ते ते चार्थप्रतिपादकास्तथापि शब्दादित्येक-
त्वं विभक्त्यर्थो न संगच्छते शब्देभ्यः प्रतिपद्यामहे इति व्यवहारः स्यात्,
स्फोटात्मनि तु शब्देऽर्थप्रतिपादके इष्यमाणे शब्दादिति प्रातिपदिकार्थो वि-
भक्त्यर्थश्च द्वयमप्युपपन्नम्,
ननु न स्फोटः शब्दशब्देनोच्यते किं तु वर्णा एव श्रोत्रग्रहणे ह्यर्थे शब्दशब्दः
प्रसिद्धः ते च श्रोत्रग्रहणा इति, नैतदेवं शब्दत्वस्यापि श्रोत्रग्रहणात्मनो मर्म-
र्झाङ्काररवप्रभृतीनां च सत्यपि श्रोत्रग्रहणत्वे शब्दकार्यनिर्वर्त्तकत्वानुपपत्तेः,
तस्माद्यतो ऽर्थप्रतिपत्तिस्स शब्दः अर्थप्रतिपत्तिश्च स्फोटादेव न वर्णेभ्य इति
स्फोट एव शब्दः,
नन्वेवं सति धूमादीनामप्यर्थप्रतीतिहेतुत्वाच्छब्दत्वं प्राप्नोति, मैवं वादीः
अथ गौरित्यत्र श्रोत्रजप्रतिभासे बहवो ऽर्था
विहितं "शब्दकल्पनायां सा च शब्दकल्पना च" इति,
नैष दोषः, न स्फोटव्यङ्ग्यौ विकल्पाः प्रभवन्ति, कुतः एके तावदाचक्षते प्रथ-
मवर्णश्रवणवेलायां स्फोटो ऽभिव्यक्तो भवति न च द्वितीयादिवर्णवैफल्यं तद्-
वगतेरेवातिशयकरणाद्यथा रत्नपरीक्षकाणां प्रथमदर्शने रत्नरूपममलमप्रकाश-
मानमपि पुनः पुनः परीक्षमाणानां चरमे चेतसि चकास्ति निरवद्यं रत्नतत्त्वम्,
एवमिहापि प्रथमवर्णश्रुत्या व्यक्ते ऽपि स्फोटे स्फुटतरप्रतीतये वर्णान्तराणि
प्रयोद्यन्ते इति,
ध्वनीनां स्फोटव्यञ्जकत्वम् -
अपरे तु वदन्ति ध्वनय एव स्फोटस्य च व्यञ्जकाः तैश्च महद्भिरनवयव
एव एष स्फोटो ऽभिव्यज्यमानस्ताल्वादिस्थानकरणसंयोगापाधिवशोपप्लवमा-
ननानाकारगकारादिभागयोगीव प्रतिभासते, मरुतां चञ्चलत्वादुच्चारितप्रध्वं-
सिनस्ते तं काल्पनिकमाकारमवभासयन्ते, दृष्टं चोपाधिवशादसत्यमपि रूपम-
वभासमानं यथा कृपाणमणिदर्पणादिव्यञ्जकभेदेन श्यामदीर्घादिरूपं वदनस्य,
नादात्मको हि शब्दो वीणावेणुमृदङ्गपटहादिव्यञ्जकभेदेन नानात्वमुपगच्छ-
न्दृश्यते तस्मान्न पारमार्थिका एव ते वर्णाः न च स्फोटस्य व्यञ्जका इति
क्व समस्तव्यस्तविकल्पाः प्रभवेयुः,
उपाधिभेदेन प्रतिभासमाना असत्याकाराश्च ते ऽर्थप्रत्ययान्वयव्यतिरेकानु-
विधायिनो दृश्यन्ते तेन यदुच्यते शब्दकल्पनायां कल्पनाद्वैगुण्यमिति तत्रैक-
गुणा ऽपि कल्पना नास्ति का कथा द्वैगुण्यस्येति,
तस्मात्स्फोटात्मकादेव शब्दार्थप्रत्ययो वर्णानुविधायित्वं तु तस्यान्यथा-
सिद्धमिति सिद्धम् ,
स्फोटस्य प्रत्यक्षग्राह्यत्वम्-
अपि च तार्किकाणामनुमानप्रियत्वात्तत्परितोषायेदमनुमानमभ्यधायि न
परमार्थतः परमार्थतस्तु श्रोत्रे प्रत्यये प्रतिभासमानः प्रत्यक्ष एव स्फोटः,
आह किमिदमपूर्वं तस्कराचरितं वर्तते वर्णाः प्रत्यक्षमुपलभ्यमाना अपि
दुर्भगा न प्रत्यक्षाः स्फोटः पुनरनवभासमानो ऽपि सुभगः प्रत्यक्ष इति,
उच्यते न ब्रूमः वर्णा न प्रत्यक्षा इति ते पुनरसन्तो ऽपि उपाधिवशाद्ध्र-
स्वदैर्ध्यादिवदवभासन्ते, शब्दस्त्वेको निरवयवः प्रतीयते तथा च पदमिति
वाक्यमित्येकाकारप्रतीतिरस्ति न च भिन्ना वर्णास्तस्यामालम्बनीभवन्ति न
हि सामान्यप्रत्ययो व्यक्त्यालम्बनो ऽवयविप्रत्ययो वा ऽवयवालम्बनः न
च सेनावनादिबुद्धिवदयथार्था पदवाक्यबुद्धिः बाधकाभावात् , एकार्थप्रत्याय-
प्रमाणप्रकरणम् ३४१
त्वोपाधिकृतेयमेकाकारा बुद्धिरिति चेदेकार्थप्रतीरिदानीं कुतस्त्या, पदवाक्य-
प्रतीतिपूर्विका हि पदार्थवाक्यार्थप्रतीतिः पदार्थवाक्यार्थप्रतीत्याख्यकार्यैक्या-
च्च पदवाक्यबुद्धिरेकाकारेति दुरुत्तरमितरेतराश्रयत्वम् , औपाधिक-
त्वं च सामान्यावयविबुद्धेरपि सुवचम्, बाधसन्देहरहितप्रतीतिदाढर्यात्तत्र
परिहार इति चेत्तदितरत्रापि समानम् , तस्मात्पदबुद्धेः पदस्फोटो वाक्यबुद्धेश्च
वाक्यस्फोटो विषय इति प्रत्यक्ष एव स्फोटः तत्र पदस्फोटात्पदार्थप्रतिपत्तिः वा-
क्यस्फोटाच्च वाक्यार्थप्रतिपत्तिः,
वाक्यस्फोटसाधनम्—
आह यदि निरवयवः स्फोटात्मा शब्दो भवति वाक्यमपि शब्द एव
तस्य पदात्मकास्त्ववयवा मा भूवन् तस्य चेत्पदात्मानो ऽवयवा भवन्ति-
पदस्यापि तर्हि वर्णात्मानो ऽवयवा भवन्तु, ।
उच्यते किं चिदुच्छ्वसितमेव मे हृदयम् , मन्ये भविष्यत्यायुष्मतो विवे-
कालोको बोध्यमानो भोत्स्यसे किंचित् , ध्वन्युपाधिभेदप्रवृत्तवर्णभेदावभासवि-
प्रलब्धबुद्धिं भवद्विधं बोधयितुं पदस्फोट एष निरवयवो ऽस्माभिर्दर्शितः, परमा-
र्थतस्तु पदस्फोटो वाक्यावयवभूतो नास्त्येव निरवयवमेव वाक्यं निरवयवस्यैव
वाक्यार्थस्य बोधकम् , यथा पदस्यावयवान सन्ति तथा वाक्यस्यावयवाः पदा-
नीति, तथा चाहुः “वाक्ये पदानामसत्त्वादसत्त्वं तदर्थे पदार्थानां निरवयवौ वाक्य-
वाक्यार्थौ” इति, अवयवकल्पनायां हि यथा वाक्यस्यावयवाः पदानि पदानामव-
यवा वर्णा एवं वर्णानामप्यवयवैर्भवितव्यं तदवयवानामप्यवयवान्तरैरित्यान-
न्त्यात्का व्यवस्था स्यात् , वर्णान् प्राप्य तु यद्यवयवकल्पनातो विरन्तव्यं तद्वाक्ये
एव विरम्यताम् , एकघटनाकारा हि वाक्यार्थबुद्धिस्तथाविधादेव वाक्यादुत्पत्तुम-
र्हति, वृद्धव्यवहाराद्धि शब्दार्थे व्युत्पद्यन्ते व्यवहत्तारः तत्रास्य पदस्य प्रयोग एव न
केवलस्य दृश्यते व्यवहारानङ्गत्वाद् वाक्यं तु प्रयोगार्हमिति तत्रैव व्युत्पत्तिः
तत एवार्थसम्प्रत्ययः, अवयवप्रतिभासस्तु भ्रममात्रमर्थो ऽपि वाक्यार्थ्यक एव-
नरसिंहाकारः, जात्यन्तरं हि नरसिंहो नाम तत्र न नरार्थो नापि सिंहार्थः,
एवंपदार्थेभ्यो ऽन्य एव वाक्यार्थः पानकादिवत् , यथा पानकं शर्करानाग-
केशरमरिचादिभ्यो ऽर्थान्तरमेव यथा च सिन्दूरहरिताललाक्षादिभ्यो ऽर्थान्तर-
मेव चित्रम्, यथा वा षड्जर्षभगान्धारधैवतादिभ्यो ऽर्थान्तरमेव ग्रामरागः तथा
पदेभ्यो वाक्यं पदार्थेभ्यो वाक्यार्थः,
वाक्यांशानामसत्यत्वम्—
कथं तर्हि तदंशावगम इति चेत् कल्पनामात्रं तत् नासौ परमार्थः, तच्छ-