सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 357, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 357

प्रमाणप्रकरणम् ३३५
अन्योन्यसंगतिविशेषित एव यस्मा-
द्वाक्यार्थभावमुपयाति पदार्थपुञ्जः ।
एतच्च चेतसि निधाय ततो न भिन्नं
वाक्यार्थमभ्यधित कं चन सूत्रकारः ॥
प्राधान्ययोगादथ वा फलस्य
वाक्यार्थता तत्र सतां हि यत्नः ।
प्रयोजनं सूत्रकृता तदेव
प्रवर्त्तकत्वेन किलोपदिष्टम् ॥
उद्योगस्य वाक्यार्थत्वनिराकरणम्—
अपरे पुनर्लिंङादिशब्दश्रवणे सति समुपजायमानमात्मस्पन्दविशेषमुद्योगं
नाम वाक्यार्थमाचक्षते तत्स्वरूपं तु वयं न जानीमः, को ऽयमात्मस्पन्दो
नामेति, बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा हि नवात्मनो गुणा विशे-
षगुणा भवन्ति नान्ये, तत्रायमात्मस्पन्दो बुद्धिर्वा स्यात्प्रयत्नो वा इच्छाद्वेषयोर-
न्यतरो वा, अन्ये तु विकल्पयितुमपिन युक्ताः, तत्र यदि बुद्धिरात्मस्पन्द उच्य-
ते तर्हि प्रतिभावाक्यार्थ इत्युक्तं भवति न नूतनं किं चिदुत्प्रेक्षितमेतत्, अथ
प्रयत्न आत्मस्पन्दः तर्हि भावनाया नामान्तरकरणमुद्योग इति, अथेच्छाद्वेषयो-
रन्यतरो ऽसौ तर्हि सुखेच्छा दुःखजिहासा वा वाक्यार्थ इत्यक्षपादपक्ष एवायं
नापूर्व्वं कि चित, अथापि भाट्टपरिकल्पितो व्यापार आत्मस्पन्दः सो ऽपि भा-
वनैव नार्थान्तरम्, अथानुष्ठेयः प्रेरकः कश्चिदर्थ उद्योगः स तर्हि नियोग एव
उपसर्गान्यत्वमिवं न वस्तु अन्यत् ।
तस्मादश्रुतपूर्वेण कृतमुद्योगपर्व्वणा ।
स भारतमनुष्याणां गोचरो न तु मादृशाम् ॥
प्रतिभाया वाक्यार्थत्वनिराकरणम्—
अन्यैस्तु प्रतिभा वाक्यार्थ इष्यते तत्त्वस्तु संसर्गनिर्भासज्ञाननिराकरणेन
प्रागेव प्रतिक्षिप्तः ।
प्रतिभा खलु विज्ञानं तच्च शब्देन जन्यते ।
न तु शब्दस्य विषयो रूपधीरिव चक्षुषः ॥
बाह्यस्य विषयस्याभावात्सैव विषय इति चेन्न तस्य समर्थितत्वात्, यो ऽपि
व्याघ्र आयात इत्युक्ते शूरकातरनराधिकरणनानाप्रकारकार्योत्पादः स बाह्येऽर्थे
व्याघ्रागमनादौ प्रतिपन्ने वासनानुसारेण भवन्न प्रतिभामात्रहेतुको भवति, तस्य
हि ज्ञायमानो ऽर्थः करणं न तज्ज्ञानमात्रम्, अर्थस्तदानीं नास्तीति चेद् विप्र-
लम्भकवाक्यमिदम् असत्यार्थं भविष्यति न त्वबाह्यविषयम् तत्, यथा ऽवस्थिते