न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 347, कुल 654 में से
संदर्भ में पढ़ेंप्रमाणप्रकरणम् ३२५
नियोगस्य चातुर्विध्यम्—
स च प्रतीतिभेदपर्यालोचनया चतुरवस्थ उच्यते उत्पत्तिविधिरग्निहोत्रं
जुहोतीति अग्निहोत्राख्यकर्मस्वरूपोत्पाद्यव्यतिरेकेणार्थान्तरानवगमात् ,
विनियोगविधिः दध्ना जुहोतीति पयसा जुहोतीति उत्पत्तिविधितः प्रति-
पन्ने भावेऽर्थे तत्र दध्यादिगुणविनियोगाऽवगमात्,
अधिकारविधिः अग्निहोत्रं जुहुयात् स्वर्गकाम इति निर्ज्ञाते कर्मणि तत्रा-
धिकृतस्य पुंसस्ततोऽवगमात्
प्रयोगविधिस्तु क्रमपर्यन्तं प्रयोगे पदार्थानामवगम इति अयं चाधिकारवि-
धेरेव व्यापारविशेष इति तदेवास्योदाहरणम् अग्निहोत्रं जुहुयात्स्वर्गकाम इति ,
क्वचिदेकस्मिन्नेव वाक्ये रूपचतुष्टयं विधेरवगम्यते न तत्र पृथगुदाहरणम-
पेक्ष्यते यथा एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन
यजेतेति,
अन्यान्यपि नियोगस्य रूपाणि व्यापारभेदादवगम्यन्ते, स हि भावार्थसि-
द्ध्यर्थं तत्समर्थमर्थमाक्षि पतीति तत्प्रयोजक उच्यते, यथा माणवकस्थस्या-
ध्ययनस्याचार्यकरणविधिः,
नियोगस्य रूपान्तराणि—
क्व चिदन्याक्षिप्ते वस्तुनि लब्धे सति तत्राप्रयोजको विधिर्भवति यथा क्रय-
नियुक्तयैकहायन्या लाभे सति न पादपांसुग्रहणार्थमन्यामेकहायनीमाक्षिपति
विधिरिति, प्रकरणपरिपठितपदार्थपटलपरिग्रहश्च ग्राहक इति विधिरुच्यते,
क्व चित्प्रकरणपरिपठितस्यापि तेनागृहीतस्य द्वादशोपसदादेः प्रकरणादुत्क-
र्षदर्शनादत एव नियोगगर्भो विनियोग इत्याचक्षते,
क्व चिद्विनियोजकश्रुत्यादिप्रमाणविरहेऽपि पश्वेकत्वादुपादानं शेषीकुर्वन्नु-
पादायक इत्युच्यते पशुना यजेतेति विभक्त्या प्रातिपदिकार्थो विनियुक्तः तत्स्थ-
मेकत्वम् उक्तमेव न विनियुक्तमेकेनेत्यश्रवणात् पशुरुपादीयमानो न सङ्ख्या-
रहित उपादातुं शक्यते श्रुतसङ्ख्यापरित्यागकारणाभावाच्चैकत्वविशिष्टः
पशुरुपादीयते इत्युपादानशेषीकृतमेकत्वम् ,
वैकृतस्तु सौर्यादिविधिः प्राकृतमितिकर्त्तव्यताजातमाकर्षँश्चोदक इत्युच्यते ।
नियोगस्य वाक्यार्थत्वोपसंहारः—
तदिदमेकस्यैव भगवतो लिङर्थस्य प्रयोक्तृशक्तिखचितात्मनः प्रचुरव्या-
पारवैचित्र्यमुपदर्शितमित्यलमनया महामतिमानसविलासवत्या मीमांसार्थ-
कथया सोऽयमीदृशो नियोगो वाक्यार्थः ।