न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 361, कुल 654 में से
संदर्भ में पढ़ेंअथ वर्णाः शब्दशब्देनोच्यन्ते ते चार्थप्रतिपादकास्तथापि शब्दादित्येक-
त्वं विभक्त्यर्थो न संगच्छते शब्देभ्यः प्रतिपद्यामहे इति व्यवहारः स्यात्,
स्फोटात्मनि तु शब्देऽर्थप्रतिपादके इष्यमाणे शब्दादिति प्रातिपदिकार्थो वि-
भक्त्यर्थश्च द्वयमप्युपपन्नम्,
ननु न स्फोटः शब्दशब्देनोच्यते किं तु वर्णा एव श्रोत्रग्रहणे ह्यर्थे शब्दशब्दः
प्रसिद्धः ते च श्रोत्रग्रहणा इति, नैतदेवं शब्दत्वस्यापि श्रोत्रग्रहणात्मनो मर्म-
र्झाङ्काररवप्रभृतीनां च सत्यपि श्रोत्रग्रहणत्वे शब्दकार्यनिर्वर्त्तकत्वानुपपत्तेः,
तस्माद्यतो ऽर्थप्रतिपत्तिस्स शब्दः अर्थप्रतिपत्तिश्च स्फोटादेव न वर्णेभ्य इति
स्फोट एव शब्दः,
नन्वेवं सति धूमादीनामप्यर्थप्रतीतिहेतुत्वाच्छब्दत्वं प्राप्नोति, मैवं वादीः
अथ गौरित्यत्र श्रोत्रजप्रतिभासे बहवो ऽर्था