नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
१९६ नलचम्पूः ।
अपिच।
अपि भवत कृतार्थाः पौरनार्यश्चिरेण
व्रजतु निषधनाथश्चक्षुषां गोचरं वः।
ध्रुवमयमवतीर्णः स्वर्गलोकादनङ्गो
हरचरणसरोजद्वन्द्वलब्धप्रसादः ॥ ८० ॥
॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणस-
रोजाङ्कायां षष्ठ उच्छ्वासः ॥ ६ ॥
इति विषमपदप्रकाशमेतं दमयन्त्यां तनुते स्म चण्डपालः ।
शिशुमतिलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥ १ ॥
इति श्रीचण्डपालविरचिते दमयन्तीकथाविवरणे षष्ठ
उच्छ्वासः समाप्तः ॥
सप्तम उच्छ्वासः ।
एवमविश्रान्तमतितारस्वरेण पुरः पौरपुरंध्रिमण्डलान्युरुण्डयतो द-
ण्डपाशिकस्य कलकलमाकर्ण्यत्यास्थानस्थिते राजनि, प्रविश्य प्रणाम-
प्रेङ्खोलितगलकन्दलावलम्बितजाम्बूनदस्थूलशृङ्खलास्फालितवक्षःस्थलः
स्थविरवयाः सुवेषैः प्रतीहारः सविनयमुक्तवान् ॥ क ॥
देव, धृतमाङ्गल्यकल्पवेषाः पुष्पफलाक्षतपूर्णस्वर्णपात्रपाणयः पुरैः-
स्थिता अधीयाना ब्राह्मणाः कुण्डिनपुरपौराः पुरंध्रयश्च देवदर्शनार्थि-
तया द्वारि सेवावसरमनुपालयन्ति ॥ ख ॥
कथयन्ति चैवमदूरे विदर्भेश्वरोऽपि देवं द्रष्टुमायाति ॥ ग ॥
लग्न ईव श्रूयते च शङ्खस्वनविदर्भितो विदर्भोंपकण्ठे पठद्वन्दिवृन्द-
कोलाहलः ॥ घ ॥
एवमिति ॥ उरुण्डयतो गाढमुत्साहयतः । दण्डपाशिकस्तलारः । दण्डपा-
शोऽस्त्यस्येति । 'अत इनिठनौ' इति ठन् । जाम्बूनदस्य कनकस्य स्थूला शृङ्खला
आभरणविशेषः ॥ क ॥
देवेति ॥ धृतो माङ्गल्ये कल्पो दक्षो वेषो मण्डनं यैः ॥ ख ॥
१ 'गोचरे च'. २ 'सकलविबुधमनोहारिण्यां'. ३ 'दण्डवासि'. ४ 'कचिन्नास्ति'.
५ 'धृतमङ्गल्यवेषाः'. ६ 'स्वर्णेति कचिन्नास्ति'. ७ 'पुरःस्थिताधीयानब्राह्मणाः'.
८ 'इति'.
‘तदादिशतु देवो यथाकर्तव्यम्’ इत्यभिधाय स्थिते तस्मिन् ‘भद्र-
भूते, त्वरितं प्रवेशय विदर्भाधिपस्य परिजनं स्वयमपि तदर्धपथमनु-
सर’ इति नलो दौवारिकमादिदेश ॥ क ॥
सोऽपि ‘यथाज्ञापयति देवः’ इत्यभिधाय यथादिष्टमकरोत् ॥ ख ॥
अनन्तरमनतिचिरादितस्ततो दोधूयमानचारुचामरकलापपर्वनेन-
र्तितकर्णकुवलयः, वल्गुवल्गानोल्ललनलङ्घनलास्यलीलापदैः पथि प्लवमा-
नमिव तरंलतुरंगमधिरूढः, कनककलशशिखरैरेकदेशस्फुरितविद्युत्त-
तैकैरकाण्डाडम्बरितमेघमण्डलैरिव मायूरातपत्रखण्डैराच्छादितगग-
नान्तरालः, शस्त्रोद्वहनकिणाङ्कितकठोरकण्ठोपकण्ठैः कठिनप्रकोष्ठलुठ-
ल्लोहवलयैरूध्वर्चबद्धोद्धटजूटकैरर्कंककरालमौलिभिर्धोरुकपरिधानैर्नि-
शातकुन्तपाणिभिरभितस्त्वरितपातिभिः पत्तिभिरनुगम्यमानः, मना-
ङ्मुदुमृदङ्गध्वनिकरम्बिते कोमलकांस्यतालशालिनि वांशिकवाद्यमान-
वंशनिस्वने दत्तकर्णः, कर्णिकारगौराङ्गोऽङ्गणस्य नातिदूरेऽप्यदृश्यत
भीमभूमिपालः ॥ ग ॥
ततश्च चामरग्राहिणीहस्तपल्लवमवलम्बमानः सहेलमुत्थाय प्रथम-
मुत्थितेन संभ्रमवशवलितवक्षःस्थलार्वलम्बितकुसुमदाम्ना विसर्पिक-
पूरकुङ्कुममिलन्मृगमदामोदेन त्वरितसंपातपतत्पटवासपांसुना सामन्त-
चक्रेण परिकरितः कतिपयपदानि निषेधेश्वरस्तदभिमुखमगात् ॥ घ ॥
सोऽपि सत्वरोपसृतस्य ताम्बूलप्रसेविकावाहिनः पुरुषस्य स्कन्ध-
तदिति ॥ भद्रभूतिरिति द्वाःस्थस्य नाम । तस्य चामन्त्रणम् ॥ क ॥
अनन्तरमिति ॥ वल्गु यद्वल्नं विक्रममाणता । उल्लनमुच्चैर्विलसनम् । ल-
ङ्घनं फाला । लास्यं नृत्यभूमिः । तेषु लीलापदैः प्लवमानं तरन्तमिव । आसनस्थैर्य-
णानुद्धातसुखत्वात् । मायूरातपत्रसमूहानां मेघमण्डलानि, सौवर्णकलशानां च वि-
द्युत्ततय उपमानम् ॥ कठिनेति ॥ राजपुत्रा हि प्रकोष्ठे मणिकूर्परान्तरे दाढर्याय
लोहवलयानि धारयन्ति । जूटकः केशबन्धविशेषः । अलकाः कुटिलाः करालाः स-
टालत्वाद्वौद्घा मौलयः संयतकेशा येषाम् । अर्धे ऊरु प्रमाणमस्य तदर्धोरुकम् ।
येन वाससा कटीप्रभृति अर्धोरुपर्यन्तमामाच्छाद्यते ॥ ख ॥
ततश्चेति ॥ पटवासो वासःसुरभीकरणद्रव्यम् । परिकरितः परिवारितः ॥ ग॥
१ ‘पवनानर्तिं’. २ ‘तरलेति क्वचिन्न’; ‘तरुण’. ३ ‘शिखरैकदेश’. ४ ‘स्तोम’.
५ ‘लोहवल्लै’. ६ ‘रातङ्क’. ७ ‘निखात’. ८ ‘कुत्रचित्तकाररहितम्’. ९ ‘कुत्रचित्तका-
रसहितम्’. १० ‘स्थगिका’.
१९८ नलचम्पूः ।
मवष्टभ्य दूरादेव तुरंगपृष्ठादवातरत् ॥ क ॥
एवमन्योन्यनयनसंपातस्मिताननौ समकालमीषन्नमितमौलिमण्ड-
लौ समसमयप्रसारितभुजौ सरभसमाश्लेषवशविशीर्यमाणहारावलीग-
लन्मुक्ताफलच्छलेनाङ्गेष्वमान्तमिव प्रथमप्रेमामृतनिष्यन्दिविन्दुविसै-
रमुद्विरन्तावन्योन्यमाशिश्रिषतुः ॥ ख ॥
तथाविधे च व्यतिकरे, पँप्रथे प्रेक्षकाणां दक्षिणोत्तरदिक्पालयोर्ध-
र्मराजधनदयोरिव समागमे महानयनोत्सवो हर्षोत्कर्षकलकलश्च ॥ग॥
तदनु पुनः प्रधावितप्रतीहारोपनीतम्, अतिविचित्रत्रिभङ्गिभङ्गो-
त्कीर्णकर्णाटिकारूपरमणीयस्तम्भिकावष्टम्भम्, तज्जृम्भमाणमाणि-
क्यमकरमुखमुक्तमौक्तिकसरैर्विराजितम्, अपूर्वकर्म्मनिर्मितभव्यव्या-
लावलीकीर्णमुखांलंकृतम्, उच्चकाञ्चनसिंहासनद्वितयमुभौ भेजतुः
॥ घ ॥
अन्योन्यकुशलप्रशंसुंखालापव्यतिकरविरामे च विदर्भेश्वरो निषध-
नाथमवादीत् ॥ ङ ॥
'अद्यास्मत्कुलसंततिः सुकृतिनी धन्याद्य दिग्दक्षिणा
पुण्यप्राप्यसमागमातिथिजना जाताः कृतार्थाः श्रियः।
श्लाघ्यं जन्म च जीवितं च निजमप्यद्यैव मन्यामहे
यत्रास्मत्सुकृतोदयेन बहुना यूयं गृहानागताः ॥ १ ॥
इतः प्रभृति च।
आ ब्रह्मावधिविस्तरत्कविगिरो गीर्वाणकर्णातिथेः
कीर्तेः पूर्णकलेन्दुसुन्दररुचो यास्याम्यहं पात्रताम् ।
किं चान्यज्जनितक्लमॊऽप्ययमभूदाकण्ठतृप्तस्य मे
युष्मत्सङ्गसुखामृतेन सफलः संसारचक्रभ्रमः' ॥ २ ॥
सोऽपीति ॥ चर्मनिर्मितं पर्णपूगाद्यास्पदं प्रसेविका स्थगितेति ख्यातिः ॥क॥
तदन्विति ॥ सिंहासनादौ द्युत्तम्भनस्तम्भिकासु पश्चिमभागे त्रिभङ्गिभङ्गेन
स्थानकविशेषवैचित्र्येण स्त्रीरूपमुत्कीर्यते। मौक्तिकसरो मुक्ताहारः । व्यालः सिंहा-
दिहिंस्रसत्त्वम् । तदावली काष्ठदन्तादिनिर्मिता शोभार्थं क्रियते ॥ ख ॥
अद्येति ॥ पुण्यैः प्राप्यः समागमो येषां तथोक्ता अतिथिजना यासु । श्रियां
ह्येतदेव फलम् । यदतिथयः सत्क्रियन्ते ॥ १ ॥
आब्रह्मेति ॥ कविवर्ण्यायाः स्वर्गताया इन्दुशुभ्रायाः कीर्तेः पात्रमहम् ॥ २ ॥
१ 'कुत्रचिन्मकारसहितम्'. २ 'वली'; 'कली'. ३ 'प्रसर'; 'क्वचिन्नास्त्येव'.
४ 'प्रथमप्रेक्ष'. ५ 'भक्ति'. ६ 'द्वय'. ७ 'मुखा'.
सप्तम उच्छ्वासः । १९९
इत्यभिधाय प्रवणं प्रणयस्य, प्रगुणं गुणानाम्, अनुकूलं कुलक्रमस्य,
योग्यं भाग्योदयस्य, सदृशं देशकालस्य, समानं मानोत्तंससंततेः, स-
रूपं रूपसंपदाम्, उचितमाचारस्यातिथेरातिथेयमगर्वः कुर्वन्, दुर्वार-
वैरिवारणान्वारणान्, वायुवेगाँस्तुरगांस्तुरगान्, समुल्लसितांशुमञ्जरी-
जालजनितेन्द्रचापचक्रभ्रमप्रमाणं माणिक्यम्, एकत्रग्रथितताराप्र-
करानुकारान्हारान्, उज्ज्वलभांसि वासांसि, सलावण्याः पण्यनारीश्च
स्वयमुपढौकयांचकार ॥ क ॥
प्रथमसमागमेऽप्यप्रमेयप्रेमारम्भरसोल्लासितहृदयः पुनः सोत्क-
र्षहर्षोद्वेगद्गदाक्षरमिदमवादीत् ॥ ख ॥
'आसेतोः कपिकीर्तनाङ्कशिखरादाराच्च विन्ध्यावधे-
रा पूर्वापरसिन्धुसीमविषयस्त्वन्मुद्रया मुद्य्रताम् ।
अद्यास्मद्गृहमागतस्य भवतो जाता विधेया वयं
स्वीकारः क्रियतां किमन्यदपरं प्राणेषु चार्थेषु च ॥ ३ ॥
एवमुपबृंहयति प्रेम, प्रकाशयति प्रियंवदताम्, उद्योतयत्युदारताम्,
दर्शयत्यादरम्, आविर्भावयति सर्वभावम् । भीमभूभुजि नलोऽपि
'सरलस्वभावः स्वच्छार्द्रहृदयोऽयं महानुभावः' इति चिन्तयन् 'अ-
लमलमतिलात्मसर्वस्वोपनयनेन, भवद्दर्शनमेवास्माकमिह सार्णवसुव-
र्णपूर्णवसुमतीलाभादपि परमो लाभः । नहि प्रियंतमदर्शनसुखाद्वित्त-
लाभसुखमतिरिच्यते । नर्चै भवद्भिर्भवेऽप्यैस्माकं परस्वबुद्धिर्नापि
भवच्छरीरेऽप्येनौत्मभावः । किंचान्यदेवंविधसूक्तसूनृतातृतगर्भगीर्भि-
रानन्दयतास्मन्मनो महानुभावेन किं न कृतमभिहितं वा प्रणयोचि-
तम्,' इति ब्रुवाणस्तं बहु मानयामास ॥ ग ॥
एवंविधे च व्यतिकरे वैतालिकः प्रस्तुतपठीत् ॥ घ ॥
इत्यभिधायेति ॥ ( अतिथेः) तस्य राज्ञोऽगर्वः सन्नातिथेयं कुर्वन्भीमभूपो
वारणादिकमुपढौकयांचकार । वारणा निषेधका गजाश्च ॥ क ॥
आसेतोरिति ॥ कपिकीर्तनाङ्कानि शिखराणि यस्येति सेतुविशेषणम् । सेतोः
कपिभिः कृतत्वात् ॥ ३ ॥
१ 'मानोक्तेः'. २ 'रूपेति क्वचिन्नास्ति'. ३ 'माचारस्य तस्याति'. ४ 'वायुवेगांस्तु-
रगान्'; 'अमूल्यं समु'. ५ 'क्रमप्रमाणम्'. ६ 'माणिक्यजातं'. ७ 'उज्ज्वलभासिरसाः
सलावण्याः'. ८ 'श्चायमुप'. ९ 'मुद्रितम्'. १० 'प्रियदर्शन'. ११ 'हि'. १२ 'विम-
वेष्वस्माकं'. १३ 'रेनात्मभावः'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
२०० नलचम्पूः ।
'आपूर्वापरदक्षिणोत्तरककुप्पर्यन्तवेलावना-
दाज्ञां मौलिषु मालिकामिव नृपाः कुर्वन्तु दीर्घायुषोः ।
ब्रह्मस्तम्बविलम्बिकीर्तिलतयोर्विस्तारिलक्ष्मीकयो-
रन्योन्यस्य दिनानि यान्तु युवयोः स्नेहेन सौख्येन च ॥ ४ ॥
एवमुपक्रमाविरुद्धविद्वेद्दालापलीलया परस्परमाश्यानतुहिनशिला-
शकलाकारकपूरपारीपरिकरितताम्बूलार्पणप्रणयेन च परितुष्टपरिज-
नपरिहासगोष्ठ्यां च किमप्यभिनवम्, किमपि पुरातनम्, किमप्यु-
त्पाद्यम्, किमपि यथावस्थितं जल्पाकजनजल्पितं भावयन्तौ तस्थतुः
स्थवीयसीं वेलाम् ॥ क ॥
अनन्तरमनुसरति मध्यभागमम्बरस्यांशुमालिनि नलः 'स्वगृहान-
लंकुर्वन्तु भवन्तः' इति प्रश्रयेण विदर्भेश्वरं विससर्ज ॥ ख ॥
गते च तस्मिन् 'अहो वात्सल्यम्, अहो परमौदार्यम्, अहो लो-
कवृत्तकौशलम्, अहो वाग्विभववैदग्ध्यम्, अहो प्रश्रयोऽस्य विदर्भरा-
जस्य' इति तद्गुणप्रवणाः कथाः कुर्वन्नाप्तजनपरिजनेन सह मुहूर्तम-
वासांचक्रे ॥ ग ॥
चिन्तितवांश्च ।
'अनुगुणघटनेन यद्यपीयं भवति हि हस्तगतेव कार्यसिद्धिः ।
भयतरलभुजंगवक्रवृत्तेस्तदपि न विश्वसिमो वयं विधातुः ॥ ५ ॥
तथाहि ।
अङ्गाः कङ्गेकलिङ्गवङ्गमगधाः सर्वेऽप्यमी पार्थिवा
दिक्पालाश्च मरुत्पतिप्रभृतयः कन्यार्थिनः संगताः ।
नो विद्मः कथमेष्यतीह घटनां कार्य यतस्तत्क्षणा-
न्नानाभङ्गिभिरिन्द्रजालसदृशं दैवं हि चित्रीयते ॥ ६ ॥
अथवा ।
आपूर्वेति ॥ ब्रह्मस्तम्बो ब्रह्माण्डम् ॥ ४ ॥
एवमिति ॥ आश्यानमविलीनं यत्तुहिनं हिमं तस्य शिलाशकलं तदाकारस्य
कर्पूरस्य पारी शकलं तया परिकरितस्य संबद्धस्य ताम्बूलस्यार्पणप्रणयेन । अतिश-
येन स्थूला स्थवीयसी । 'स्थूलदूर-' इत्यादिना सिद्धम् ॥ क ॥
अन्विति ॥ अनुगुणानामनुकूलानां घटनेन संयोजनेन हि स्फुटं सिद्धिर्हस्तग-
तैव भवति । भयेन तरलो लोलः । तरलत्वं चात्र वक्रतातिशयहेतुः ॥ ५ ॥
१ 'विद्वद्गो०' २ 'गोष्ठ्यां च'. ३ 'उत्पाद्यम्' ४ 'भावयन्ताववतस्थतुः'. ५ 'कुम्भ०'.
सप्तम उच्छ्वासः। २०१
का नाम तत्र चिन्ता प्रभवति पुरुषस्य पौरुषं यत्र ।
वाङ्मनसयोरविषये विधौ च चिन्तान्तरं किमिह¹ ॥ ७ ॥
एवमनेकवितर्कभङ्गे²भाजि भूभुजि, भुजबलशालिषु विसर्जितेषु
सेवकसामन्तेषु, विरलीकृते परितः परिजने, परिहासपेशलालापाङ्ग-
नगोष्ठीप्रक्रमेणातिक्रान्ते स्तोकसमये, भूरिभव्याभरणावरणारमणीय-
रूपाः, काश्चिद्रार्द्रक्रमुकफलॅहस्ताः, काश्चित्कक्षावलम्बितताम्बूलीपत्र-
पिण्डकरण्डकाः, काश्चित्पिहितपट्टांशुकपटलिकापाणयः, काश्चित्काश्मी-
रकरम्बितकस्तूरिकामोदामन्दचन्दनभाञ्जि भाजनानि भजमानाः, का-
श्चिद्देवाननालिकेरजम्बीरबीजपूरकपूरितपात्रीपाणयः काश्चिदसंख्यख-
ण्डखाद्यविशेषानमुल्यर्माङ्गल्यमाल्याभरणानि च सकौतुकमादाय द-
मयन्या प्रहिताः प्रैथमप्रवोधितप्रतीहारसूचिताः प्रविविशुरन्युब्जाः
कुब्जिका वामनिकाश्च ॥ क ॥
प्रविश्य च सविस्मयाः स्मररूपातिशायिनं नरपतिमवलोक्य 'सा-
धु भोः स्वामिनि, साधु । स्थानेऽभिनिविष्टासि, योग्ये जाताग्रहासि,
पात्रे जार्टस्पृहासि, लप्स्यसे जन्मफलम्, अवाप्स्यसि स्त्रीस्वभावभाग्य-
म्, अनुभविव्यसि यौवनसुखानि, मानयिष्यसि संर्सारफलमहोत्स-
वम् । अहो वन्दनीया सा कापि पुरुषरत्नाकरकुक्षिर्जननी, यैस्यां
सकलसंसारनरहारावलीमध्यमहानायकोऽयमुत्पन्नः' इत्यवधारयन्त्यो
मनाङ्नमितमौलिदोलितसीमन्तमुक्ताफलाः 'स्वामिन्नयमस्मदीयः प्रणा-
मः, अन्यापि कापि काचित्प्रणमति' इत्यभिधाय स्मयमानवदनकम
लाः सलीलसवनिपालं प्रणेमुः ॥ ख ॥
का नामेति ॥ यत्र कार्ये पुरुषस्य पौरुषं भवति तत्र का चिन्ता, नैवेत्यर्थः ।
विधौ दैवे पुनव्वाङ्मनसयोरगोचरे किं चिन्तान्तरम्, तदेव प्रमाणमित्यर्थः । अ-
न्तरशब्दो विशेषार्थः । उभयथापि चिन्ता न कार्येति भावः । वाक् च मनश्च वा-
ङ्मनसे । 'अचतुर-' इति सूत्रेण सिद्धम् ॥ ७ ॥
एवमिति ॥ अवानानि सार्द्राणि नालिकेरजम्बीरबीजपूराणि तैः पूरिता या पात्री
सा पाणौ यासाम् । वानं शुष्कं फलम् । न्युब्जा अधोमुख्यः पश्चाद्भञ्जयोगः । दिदृ-
क्षारसेनोर्ध्ववदना इति भावः । एतच्च कुब्जिकादीनां विशेषणम् ॥ क ॥
१ 'चिन्तान्तरं किमप्याह'. २ 'मनेकविध'. ३ 'भङ्गेति क्वचिन्न'. ४ 'फलकहस्ताः';
'फलहस्तकहस्ताः'. ५ 'नारङ्गनादि'. ६ 'मङ्गल्य'. ७ 'प्रथमप्रधावितप्रती'. ८ 'बद्ध-
स्पृहा'. ९ 'स्त्रीसौभाग्यभावभाग्यं'; 'स्त्रीभावभाग्यम्'. १० 'संसारम्'. ११ 'यस्याः'.
२०२ नलचम्पूः ।
अन्योन्यकृतसंबोधनाश्च सहर्षमिदमवोचन् ॥ क ॥
'हंहो हंसि चकोरि चन्द्रवदने चन्द्रप्रभे चन्दने
चम्पे चङ्गि लवङ्गि गौरि कलिके कङ्कोलिके मालति ।
एतं प्राप्त जन्मजीवितफलं लावण्यलक्ष्मीनिधौ
सौभाग्यामृतनिर्झरे नरपतौ निर्वान्तु नेत्राणि वः ॥ ८ ॥
अपिच ।
कुन्दे सुन्दरि चन्दि नन्दनि हले दिष्ट्याद्य वर्धामहे
देव्याः सोऽयमनङ्गसुन्दरवपुः प्राणेश्वरः प्राप्तवान् ।
तस्याः संप्रति यत्कृते कृशतनोः क्रीडावने शाखिनां
दीर्घश्वासमरुद्भिरभिपरुषैर्म्लायन्ति ते पल्लवाः ॥ ९ ॥
अपिच ।
यं श्रुत्वैव मनो भवालसदृशा देव्या धृतोन्मादया
नीयन्ते गृहदीर्घिकातटतरुच्छायाश्रये वासराः ।
प्राप्तः शोणसरोजपत्रनयनो निःशेषसीमन्तिनी-
भ्राम्यन्नेत्रपतत्रिविश्रमतरुः सोऽयं नलो नैषधः' ॥ १० ॥
एवमन्योन्यमभिधाय समीपमुपसृतास्ताः क्षितिपतिस्त्वनुरागतराङ्ग-
तरत्तारकेण सादरं दूरोत्क्षिप्तपक्ष्मणा चक्षुषा संतोषपुञ्जमञ्जूषिका इव,
आनन्दकदलीरिव, अमृतपङ्कपुत्रिका इव, मधुमासविकसितसहका-
रमञ्जरीरिव दमयन्तीप्रेषिताः सस्पृहमवलोकयन् 'इत इत कुशलं त-
त्रभवतीनाम्, उपविशत, गृहीत ताम्बूलम्, आवेदयत भवत्स्वामिनी-
संदेशम्,' इति ससंभ्रमं संभाबयामास ॥ ख ॥
ताश्च 'महानयं प्रसादः' इति ब्रुवाणाः समुपविश्य 'राजाधिराज,
हंहो इति ॥ हंहो इति संबोधने । एत आगच्छत ॥ ८ ॥
कुन्द इति ॥ चन्देरगन्तादाह्लादार्थार्द्गौरादित्वात्ङीष् । वर्धामह इति हर्षाति-
शयोक्तिः ॥ ९ ॥
यं श्रुत्वेति ॥ नेत्राण्येव पतत्रिणः पक्षिणस्तेषां विश्रामतरुः ॥ १० ॥
एवमिति ॥ एवं परस्परमभिधाय समीपं गतास्ताः प्रेमोर्मिंचञ्चत्कनीनिकेन
सादरं दूरोत्क्षिप्तपक्ष्मणा चक्षुषा सस्पृहमवलोकयन् क्षितिपतिः ससंभ्रमम् 'इत
एत-' इत्याद्यालपत् ॥ संतोषपुञ्जमञ्जूषिका इत्यादि तासां विशेषणानि ॥ ख ॥
१ 'एतत्प्राप्तन'; 'एतत्प्राप्त' । २ 'तिः सानुराग' । ३ 'इतश्च इत' । ४ 'स्व' । ५ 'राजाधिराजं' ।
सप्तम उच्छ्वासः । २०३
राजीवदलदीर्घाक्षी क्षेमवार्तां पृच्छति 'न नाम देवस्यापघने घर्मांशुघ-
र्मोर्मिनिर्मितः कोऽपि खेदः समपद्यत, न वा समविषममार्गलङ्घनश्र-
मेण कापि परिमाथिनी परिजनस्य ग्लानिरभूत्, बहूनि दिनानि दे-
वेनाध्वनि विलम्बितम् । इदं च तया प्राणेश्वरस्य प्रियं प्राभृतं प्रहि-
तम्, इदमुक्तम्, इदमेकान्तसंदिष्टम्, इदं प्रकाशप्रश्रयापलीलायितम्,
इति राजानमञ्जसा जजल्पुः ॥ क ॥
सोऽपि स्मरव्यापारकोरकिताभिः शृङ्गाररससेकपल्लविताभिर्मुग्ध-
स्मितांशुमञ्जरिताभिरमृतच्छटाभिरिव वाग्भिः किमपि सरलाभिः, कि-
मपि नर्मोक्तिकुटिलाभिः, किमपि कथयन्, किमपि पृच्छन्, किमपि
संदिशन्, अनु जल्पमनुजल्पितम्, अनु हासमनुहसितम्, अनु सुँभाषितमनुसुभाषितम्, अनु प्रियमनुप्रीतम्, प्रसादप्रदानोद्दीपितोद्दामा-
नुरागास्ताः कुर्वन्नतिचिरमिव गोष्ठीलीलयावतस्थे ॥ ख ॥
'अहो नुँ खल्वस्य नरपतेः, अनश्लीलं शीलम्, अनाहार्यमौदार्यम्,
अवञ्चनं वचनम्, अदैन्यं दानम्, असमयं स्मितम्, अविचारगोचरं
गाम्भीर्यम्' इति भावयन्त्यस्ताश्च कांचिदुचितविनोदैरेतिवाह्य वेलाम्,
अनुभूय किमपि गोष्ठीसुखम्, आख्याय च किंचिदिव दमयन्तीविनो-
द्विलासव्यतिकरम् 'आज्ञापयतु देवोऽस्मान्गमनाय, भवद्वार्तामृत-
पानार्थिनी देवी त्वरिताँऽस्मत्प्रत्यावृत्तिमवेक्षमाणा तिष्ठति' इत्यभिधा-
यानुमँता यथागतमगच्छन् ॥ ग ॥
गतासु च तासु, प्रगल्भं प्रज्ञायाम्, अचरमं वाचि, कुशलं कला-
सु, निपुणं नीतौ, सप्रतिभं सभायाम्, आश्चर्यभूतमाहूय पर्वतकना-
मानं वामनकमुपायनीकृत्य कर्कशकर्कन्धूफलस्थूलोज्ज्वलमुक्तावलीमु-
ताश्चेति ॥ ननामेति । देवस्य, अपघने शरीरे न नामेत्यभ्युपगमगर्भायां पृ-
च्छायाम् । नवेति पक्षान्तरगर्भायाम् ॥ क ॥
सोऽपीति ॥ नल एवमेवं कुर्वन् गोष्ठीविलासेनास्थात् । जल्पितमनुलक्ष्यीकृत्य
जल्पितं कुर्वन् । ता उद्दीपितानुरागाः कुर्वन् इत्येवं कुर्वञ्शब्द उभयत्रापि संब-
ध्यते । 'अनु जल्पमनुजल्पितम्' इति यदा क्वचित्पाठः । तदा अनुजल्पितमिति
क्रियाविशेषणम् । अनुगतं जल्पितं यत्रेति । अनु जल्पमित्यादिषु तु अनुयोगे द्वि-
तीया ॥ ख ॥
१ 'स्वेद'० २ 'सुरहितः' क्वचित्पाठः. ३ 'अनुप्रियमप्रमेयप्रसाद'० ४ 'क्वचिन्न'.
५ 'कांचिदप्यविदितामुचित'० ६ 'त्वरितमस्म'. ७ 'नुमतास्ता'० ८ 'प्रतिभायाम्'.
९ 'मौक्तिकावली'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
२०४ नलचम्पूः ।
रयभव्यभूषणांशुकादिसंमानदानादरपरितोषितेन तेन पुष्कराक्षपुरः-
सरं किंनरमिथुनेन सह दमयन्तीं प्रति प्रेषयामास ॥ क ॥
स्वयं च शाङ्खिकमुखमरुत्पूर्यमाणशङ्खस्वनविभिन्नभांकारिमध्याह्न-
भेरीरवेण निर्यद्रेलाविलासिनीचरणरणाभरणरणन्मणिनूपुरझंकारेण च
निवेद्यमाने मध्याह्नसमये माध्याह्निककरणायोदतिष्ठत् ॥ ख ॥
क्रमेण च निःसृते समस्तसेवकजने, विश्रान्ततूर्यतालगीतासु निर्यात-
नर्तकीविरहखेदादिव मूकीभूतासु नृत्यशालासु, निःशब्दतया सुप्तास्वि-
वार्थिकारिककुटीषु, शून्यतया मध्याह्नातन्द्रीमूर्च्छितेष्विव समस्तमण्ड-
पेषु, संक्रान्तसेवाविलासिनीचरणकुङ्कुमपदपङ्क्तितया विकीर्णविकसि-
तरक्तारविन्द इव प्रकाशमाने राजभवनाङ्गणे, घनं ध्वनन्तीषु भोज-
नावसरशङ्खकाहलासु, प्रधावमानेषु प्रत्यास्वादकजनेषु, परिमृज्यमाना-
स्वतिथिसत्रशालासु, सज्जीक्रियमाणेष्वग्रांशनब्राह्मणेषु, प्रवेश्यमानासु
गोग्रासयोग्यासु कपिलासु पुण्यगवीषु, प्रक्षाल्यमानेषु वायसबलिस्त-
म्भशिखरफलकेषु, बर्हिर्दीयमानेषु, दीनानाथभिक्षुकभैक्ष्यपिण्डेषु, समु-
पलिप्यमानासु भोजनस्थानवेदीषु संचार्यमाणेषु चकोरपञ्जरेषु, निवे-
द्यमाननैवेद्यासु पूज्यराज्याधिदेवतासु, वैश्वदेवानुतिगन्धवाहिनि वहति
विविधान्नपाकपरिमलमनोहरे महानसमरुति, निर्वर्तितमज्जनादिक्रि-
याकलापे भजति भोजनभुवं भूपुजि, वहिः सूपकारकलकलः समुल्ल-
लास ॥ ग ॥
'आज्यं प्राज्यमभिन्नकुन्दकलिकाकल्पश्च शाल्योदनो
धूपामोदमनोहरा शिखरिणि स्वादूनि शाकानि च।
पेयास्वाद्यकवल्यलेह्यबहुलं नानाविधं भुज्यतां
भोज्यं भीममहानृपस्य सुतया संप्रेषितं सैनिकः ॥ ११ ॥
अहो नु खल्वमी मत्स्यैर्मांसैरिवरहितमुदीच्यप्रतीच्यप्राच्यजनाः प्रि-
क्रमेणेति ॥ महानसं पाकस्थानम् ॥ ग ॥
आज्यमिति ॥ अभिन्नकुन्दकलिकया कल्पते मीयते उपमीयते इति याव-
त् । कलेरदन्तात् 'अचो यत्' इति सूत्रेण यत् । केचित्तु पवर्गोपधं पठन्ति ॥११॥
१ 'संतोषिते'. २ 'भांकारि क्वचिन्नास्ति'; 'मध्याह्नभांकारिभेरी'. ३ 'निवेद्यमानम-
ध्याह्नसमयः'. ४ 'कारिकाकुटीषु'. ५ 'विन्दप्रकरे'. ६ 'स्वनन्तीषु'. ७ 'काहलहासु'.
८ 'प्रवाद्यमानेषु'. ९ 'सन'. १० 'क्वचिन्न'. ११ 'क्ष'. १२ 'शुकचकोर'. १३ 'सूपो-
ष्णमनो'. १४ 'मत्स्येति क्वचित्'. १५ 'प्राच्यप्रतीच्य'; 'प्राच्यप्रतीच्यपरिजनाः'.
यसक्तवो भोक्तुमेव न जानन्ति ॥ क ॥
विरलः खलु दाक्षिणात्येषु मांसाशनव्यवहारः ॥ ख ॥
तदाकर्ण्यतां भो नैषधाः ॥ ग ॥
‘आज्यप्राज्यपरोन्नकूरकवलैर्मन्दां विधाय क्षुधां
चातुर्जात कसंस्कृतो नु शनकैरिक्षो रसः पीयताम् ।
संभारस्पृहणीयतेमनरसानास्वाद्य किंचित्ततः
स्निग्धस्तब्धदधिद्रवेण सरसः शाल्योदनो भुज्यताम्’ ॥ १२ ॥
राजा तु प्रतीहार ‘विनिश्चीयतां किमयं बहिः कलकलव्यतिकरः’
इत्यभिधाय तत्कालोयोग्यपरिजनपरिवृतो भोक्तुमुपाविशत् ॥ घ ॥
त्वरितं च गत्वागतश्च स प्रतीहारो विज्ञापयांबभूव ॥ ङ ॥
‘देव, दमयन्त्या प्रहिताः सूपकाराः सैन्यजनम्, आब्राह्मणान्त्य-
जगोपालबालकम्, आकरितुरगवाहनम्, आसामन्तनियुक्तकम्, आ-
स्वाद्यैस्तैस्तैरन्नविशेषैर्भोजयन्ति ॥ च ॥
लग्नाः सर्वतो दृश्यन्ते पर्वताः पक्वान्नस्य, राशयः शाल्योदनस्य,
स्तूपाः सूपस्य, निर्झराः सर्पिषः, सिन्धवो मधुनः, निकराः शर्करायाः,
स्रोतांसि दधिदुग्धयोः, शैलाः शाकानाम्, निपानानि पानकानाम्, कु-
ल्याः फलरसानाम्, कूटाः कषायाम्ललवणतिक्तमधुरोप Reelशानाम्।छ।
एवमकार्पण्यमिच्छया भोजितं सैन्यम् ॥ ज ॥
अपिच ।
भुक्तान्ते घृतदिग्धहस्ततलयोरुद्वर्तनं चन्दनं
पश्चान्नागरखण्डपाण्डुरदलैस्ताम्बूलदानक्रमः ।
एकैकस्य मृणालतन्तुमृदुनी दत्ते ततो वाससी
देव्या किंचिदचिन्त्यमेव भवतः सैन्यातिथेयं कृतम् ॥ १३ ॥
आज्यप्राज्यमिति ॥ ‘त्वगेलापत्रकं चैव त्रिगन्धं च त्रिजातकम्। तदेव मरि-
चैर्युक्तं चातुर्जातकमुच्यते’ तेन संस्कृतः कृतगुणान्तरश्चातुर्जातकसंस्कृतः । स-
रलः सुनिष्पन्नदीर्घतण्डुलपाकजः । अतिक्किन्नतादिदोषरहितश्च । दधिद्रवो वस्त्रगा-
लितं दधि ॥ १२ ॥
भुक्तान्त इति ॥ वनवासदेशोद्भवानि नागवल्लीदलानि नागरैर्विदग्धैर्बन्ध्यन्ते
खण्ड्यन्ते इति नागरखण्डसंज्ञानि ॥ १३ ॥
१ ‘वरान्न’. २ ‘निधाय’. ३ ‘संसार’. ४ ‘सरलः’. ५ ‘शाल्योदनं’. ६ ‘ततः’.
२०६ नलचम्पूः ।
इयं च रसवती देवस्य तया स्वहस्तपल्लवपरिमलनसंस्कृतैः पाकवि-
शेषैरलंकृत्य स्वमुद्रया मुद्रिता प्रहिता' इत्यभिधाय व्यरंसीत् ॥ क ॥
राजा तु मनाक्तरलितशिराः 'सस्मितमहो निरतिशयमुदारगम्भी-
रमुचितव्यवहारहारि लीलायितं तस्याः, स्पृहणीयपरिमलश्चायमपूर्व
इव कोऽपि पाकक्रमः ॥ ख ॥
तथाहि ।
इदमम्लमप्यनम्लास्वादम्, इदमीषत्कषायमपि मधुरतां नीतंम्,
इदमेकरसमप्यनेकरसीकृतम्, इदमतिमृष्टतयाऽमृतमप्यतिशेते, रसे-
वत्यामपि रसवती विदर्भराजात्मजा' इति विभावयंस्तांस्तया प्रहिता-
न्पाकविशेषानादरेणास्वादयामास ॥ ग ॥
चिन्तितवांश्च
'षड्रसाः किल वैद्येषु भरतेऽष्टौ नवापि वा ।
तया तु पद्मपत्राक्ष्या सर्वमेकरसीकृतम् ॥ १४ ॥
तथाहि ।
अग्रस्थामिव चेतसः पुर इव व्यालम्बमानां दृशो-
र्जल्पन्तीमिव रुन्धतीमिव मनाङ्मुग्धं हसन्तीमिव ।
निद्रामुद्रितलोचना अपि वयं तां विश्वरूपायितां
पश्यामो बहिरन्तरे निशि दिवा मार्गेषु गेहेषु च ॥ १५ ॥
एवमवधारयन् अतृप्त इव तया प्रहितेषु स्वहस्तपकर्णाकरसविशे-
षेषु, असंत्तुष्टस्तत्कथायाम्, आचम्य, चन्दनागुरुपरिमलेन पाण्डुरि-
इयं चेति ॥ स्वहस्ताभ्यां परिमलनं यथोचितगन्धद्रव्यक्षेपेण सुरभीकरणम्॥क॥
इदमिति ॥ रसवत्यामपि रसवती रसिका रागिणीति यावत् । तात्पर्यवतीति
च ॥ ग ॥
षडिति ॥ एकरसीकृतमुत्कृष्टस्वादीकृतम् । चमत्कृतत्वात् । आत्मविषये ए-
कानुरागीकृतं वा । यदनेकरसं तत्कथमेकरसीभवेदिति विरोधं पुनरर्थस्तुशब्द उ-
द्भावयति ॥ १४ ॥
तथाहीति ॥ अनेनात्मानुभवसंभावनाद्वारेणैकरसत्वमेव व्यनक्ति ॥
अग्रस्थामिति ॥ विश्वं रूपमस्येति विश्वरूपो हरिः ॥ १५ ॥
एवमिति ॥ उत्तम्भितस्य तत्कालारोपितस्य जङ्गमस्य चित्रकूटाख्यस्यांलि-
ङ्गसौधस्य स्कन्धभूमिमारुह्य तस्यामितस्ततः परिक्रामन्, निकटतरे नदीसंभेदोदके
१ 'तैस्तैः पाक'. २ 'आनीतम्'. ३ 'मिष्टतया'. ४ 'तद्रसव'. ५ 'तांस्तान्'.
६ 'रसेषु'. ७ 'परिमलपाण्डुरित'.
तपाणिपल्लवः, लवङ्गकक्कोलकरम्बितताम्बूलमुत्सत्पर्कपूरपरिमलमादा-
य, विकीर्णविविधकुसुमप्रकरेहारिणि यक्षकर्दमाच्छछटोच्छोटितपर्य-
न्तभित्तिभागे लम्वितप्रलम्बजाम्बूनदपद्मदाम्नि धूपधूमामोदिनि चूर्णि-
तकर्पूररजुरेखाभाजि भोजनानन्तरमपरेऽपराह्नविनोदमण्डपे मनागिव-
श्रम्य रणरणकाक्रान्तहृदयो दूरदिगन्तालोकनकुतूहलितः सैरित्तीरो-
त्तम्भिताभ्रंलिहसौधस्कन्धभूमिमारुह्य च तस्यामूर्ध्व एव ध्रियमाणमा-
यूरातपत्रयुगलः, सलीलालसपदैरितस्ततः परिक्रामन्, नेदीयसि सरि-
त्संगमाम्भसि मध्याह्नमखिलमवगाहनसुखमनुभूय तीरमुत्तीर्णासु
तिमिरशङ्कया कृतदूरचङ्क्रमणेअश्वकवाकचक्रवालैराकुलमवैलौक्यमाना-
सु, पुलिनपांसुविहरणविरामे विकसितविविधवीरुन्धि रोधांसि रद-
न्तीषु दन्तिपङ्क्तिषु दत्तदृष्टिः, विरलनलिनीपत्रान्तरालसुप्रोत्थितस्य,
किंचिद्देवाञ्चितचटुलचञ्चोः, चरतः, चटुलचञ्चरीकिणि विकचकम-
लवने, राजहंसकुलकलापस्य करिकलभदन्तदण्डपाण्डुबिसकाण्डभङ्ग-
टंकारानार्णयन्, अपराह्नमज्जनागताभिः कुण्डिनपुरपुरंधिभिराश्च-
र्यरसोर्मिमुषितनिमेषैर्निष्कम्यनीलोत्पलपलाशलीलायमानैर्नेत्रपुटैरापी-
यमानमुखेन्दुद्युतिः, दर्शिततरङ्गभ्रूमङ्गया, दूरोच्छलद्बालशफरीछलेन
विस्फारितविलोचनया, सरित्संगमसलिलाधिदेवतयापि विलोक्यमा-
नरूपसंपत्तिरिव, क्षणमविरलचलच्चञ्चरीकचक्रचुम्बिताम्बुरुहासु क्री-
डाकमलसरसीषु, क्षणमुपान्तपङ्कीभूतमञ्जरितसहकारराजिषु स्मरैर्वा-
जिवाह्यालीषु, क्षणमुन्मिषत्कुसुममनौहरितरुलतारमणीयासु भवनो-
कृतजलक्रीडासु, तमोभ्रान्त्या चक्रैराकुलमालोक्यमानासु, कृतधूलीस्नानासु, तटीः
पाटयन्तीषु दन्तिपङ्क्तिषु न्यस्तदृष्टिः, वने चरतो हंसवृन्दस्य बिसभङ्गरवाञ्शृण्वन्,
कुण्डिनस्त्रीभिर्दृश्यमानमुखेन्दुश्रीः, उच्छलच्छफरीछलविलोकतिया जलदेवतया वी-
क्ष्यमाणरूपसंपदिव, क्षणमेकं सरसीषु क्षणं चूतालीषु क्षणं गृहालीषु क्षणमवरोध-
भवनपङ्क्तिषु क्षणं पुरपद्धतिषु विश्रान्तनेत्रो नलश्चिरमस्थात् । सादरेक्षणं नेत्रपा-
नम् । तच्च पत्रपुटैर्यदुक्तमिति नेत्रपुटैरापीयमानेत्युक्तम् । कण्टकादिदोषरहितासु त-
रुराजिराजितासु च भूमिषु वाहवाहना । तथा च- 'रम्य समतला लोष्टकीलकण्ट-
कवजिता । वाह्याली भूमिरम्यर्थंतरुराजिविराजिता' इति । एतदेव पङ्कीभूतेत्यादि-
१ 'प्रकरप्रकारहारि'. २ 'छटाच्छोटित'. ३ 'सरित्तीरोत्तंसिता'. ४ 'मारुरुह',
'आरुह्य च'. ५ 'क्रियमा'. ६ 'पत्रमण्डलः'. ७ 'मालोक्यमा'. ८ 'वनान्तराल'.
९ 'किंचिदिवा'. १० 'क्षणं वाजिवा'. ११ 'मनोहारिणीषु तरलितरमणीषु; 'तरलत्तार-
मणीयासु'.
द्यानमालासु, क्षणमुत्पतत्पताकापटपल्लवराजितासु भीमभूपालान्तः-
पुरप्रासादपङ्क्तिषु, क्षणमवकीर्णकुसुमरङ्गावलीरम्यास नगरवीथीषु वि-
श्रान्तविलोचनश्चिरमवतस्थे ॥ क ॥
चिन्तितवांश्च ।
'नोद्याने न तरङ्गिणीपरिसरे नो रम्यहर्म्ये न वा
पुष्यत्पुष्करगर्भगुञ्जदलिषु क्रीडातडागेष्वपि ।
वात्याघूर्णितशीर्णपर्णतरला दृष्टिर्मदीयाधुना
लुब्धलुब्धकभीषितेव हरिणी श्रान्तापि विश्राम्यति ॥ १६ ॥
अपिच ।
न गम्यो मन्त्राणां न च भवति भेषज्यविषयो
न चापि प्रध्वंसं व्रजति विहितैः शान्तिकशतैः ।
भ्रमावेशादङ्गे कमपि विदधदङ्गमसमं
स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ॥ १७ ॥
किंचान्यदद्भुतम् ।
पौष्पाः पञ्चशराः शरासनमपि ज्याशून्यमिक्षोर्लता
जेतव्यं जगतां त्रयं प्रतिदिनं जेताप्यनङ्गः किल ।
इत्याश्चर्यपरंपराघटनया चेतश्चमत्कारय-
न्व्यापारः सुतरां विचारपदवींवन्ध्यो विधेर्वन्द्यताम् ॥ १८ ॥
एवमनेकविधवितर्केतरलितहृदये कुण्डिननगरवीथीविश्रान्तदृशि
शनैरान्दोलितमल्लिकाक्षपल्लवस्य मृदुतरतरङ्गितसरितः कमलवनवायोः
समर्पितवपुषि निषधभूमूजि, भुजंगनिर्मोकधवले वसानो वाससी,
नोक्तम् । हिङ्गुलहरितालादिविचित्रवर्णकवचित्रहेतुत्वात्कुसुमान्येव रङ्गावली विचित्र-
वर्णकुसुमभक्तिः ॥ क ॥
नोद्यानेति ॥ विश्राम्यतीति प्रत्येकं योज्यम् ॥ १६ ॥
न गम्य इति ॥ भ्रमः संदेहः । स चात्र दमयन्तीलोभविषयः ॥ १७ ॥
पौष्पा इति ॥ अत्र प्रथमोऽपिपादः शरासनस्य ज्याशून्यस्य शरापेक्षया
द्वितीयश्च जेतुरनङ्गस्य प्रतिदिनजेतव्यजगत्त्रयापेक्षया वैषम्यव्यञ्जकः ॥ १८ ॥
एवमिति ॥ मल्लिकाक्षो हंसविशेषः । चिरदृष्टस्यापि पर्वतकानाम्रो वामनस्या-
१ 'प्रासादपदपङ्क्तिषु'. २ 'हर्म्येषु वा, हर्म्येऽपि वा'. ३ 'भायितेव; भापितेव'.
४ 'विन्ध्यो' । ५ 'उन्मथित' । ६ 'पल्लवस्पर्शमृदुतर' ।
सप्तम उच्छ्वासः । २०९
रणन्मणिकंकणैराकर्पूरं पूरितप्रकोष्ठः श्रीखण्डपिण्डपाण्डुरिततनुरपूर्व
इव पर्वतकः प्रतीहारसूचितः प्रविवेश ॥ क ॥
प्रविश्य च प्रकटितप्रणयप्रणामः प्रभुणा सविस्मयस्मितहुंकारेणा-
र्भिभाषितः स्तोकान्नमितभ्रूसंज्ञया विज्ञापयितुमारेभे ॥ ख ॥
'देव, श्रूयताम् । इतो गतवानहम् । अनन्तरमतिशयितस्वर्गा-
न्मार्गाननेकविधचर्चाचारूणि चत्वराणि विलङ्घ्य, विहितमनःप्रसादा-
न्प्रासादानवलोकयन्, इतस्ततः सस्मितस्मरालसचलेलाविलासि-
नीविकारकूणितकोणेक्षणाक्षिप्तहृदयः, सेवाविरामनिःसरत्सामन्तसं-
कुलम्, अविरलगलन्मधुमञ्जरीपुञ्जपिञ्जरितसरसहकारवननिकुञ्ज-
पुञ्जितपुंस्कोकिलकुलकलरवरमणीयोद्यानमालावलयितम्, उपान्त-
कृतमणिमन्दुरामन्दिरनिबद्धस्निग्धपोषोत्कर्षहर्षहेषितराजवल्लभतुरं-
गम्, उत्तुङ्गशृङ्गसंगतमङ्गलध्वजम्, अङ्गणोत्सङ्गरङ्गतक्रीडाकुरङ्गवि-
हंगम्, अभग्नाङ्गरक्षिरक्षितकक्षान्तररममाणराजकुमारकम्, अतिसू-
क्ष्ममुक्ताफलरचिततरङ्गरम्यरङ्गरेखाराजिराजिताजिरं राजभवनमवि-
शम् ॥ ग ॥
अतिमनोहारिणि यत्र सुपुष्करमालानि क्रीडावापीपयांसि नागयूथं
च, सारवाणि लीलोद्यानसारसमिथुनानि सेवककविवृन्दं च, विल-
म्बितानि काञ्चनकुङ्कुमदामानि गीतं च, अनलसङ्गानि लक्षप्रदीपव-
र्तिमुखानि प्रेक्षणकं च ॥ घ ॥
पूर्वत्वमिह पूर्वमभूषितस्य संप्रति पारितोषकभूषणभूषितत्वादितोदन्तप्रश्नतात्प-
र्याद्वा ॥ क ॥
देव श्रूयतामिति ॥ मार्गॉश्चत्वराणि च विलङ्घ्य, प्रासादान्पश्यन्, इंदं रा-
जभवनमविशामिति संबन्धः । चर्चा गन्धोदकसेचनपुष्पप्रकारादिवातार्बशात्प्रस्तावा-
न्रलप्रवेशादिलक्षणा चामुण्डापि । मणिमन्दुरेत्यत्र षष्ठीसमासः ॥ ग ॥
अतीति ॥ यत्र राजभवने । सुपद्मश्रेणीनि पयांसि । यूथं च सुष्ठु पुष्करं
शुण्डाग्रं यस्य तथोक्तम् । आलानमर्गलनस्तम्भोस्यास्तीति । तथा सह आरवैः सार-
वाणि । वृन्दं च सारोत्कृष्टा वागिर्यस्य तथाविधम् । विशेषेण लम्बितानि लम्बाय-
मानीकृतानि । गीतं च स्वरकृतविलम्बोपेतं तानोपेतं च । अनलेन ज्वालालक्षणेन
सङ्गो येषाम् । प्रेक्षणकं च नालसमनलसमोजखि । उच्चैः स्थाने गीयमानत्वात् ।
तथा गानमस्यास्तीति । इनिः । लक्षसंख्यद्रव्यपतीनां हि वेश्मसु यावल्लक्षं दीपा
ज्वाल्यन्ते इति ख्यातिः ॥ घ ॥
१ 'आभिभूषित'. २ 'स्तोको'. ३ 'हेपितोत्कर्षहर्षितराज'. ४ 'मयूरध्वज'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
२१० नलचम्पूः ।
किं बहुना ।
सुस्थितेतजोराशेर्लक्ष्मीजनकस्य रत्ननिलयस्य ।
तस्योपरि प्लवन्ते वार्थेरिव वर्णकाः सर्वे ॥ १९ ॥
तत्र च चलत्कञ्चुकिसंकुलं पातालमिवान्तःपुरममन्तालयं प्रविश्य
विविधकुसुम संपत्संपन्नपुण्यपादपपरिकारिताङ्गणवापीपरिसरचलचक्र-
वाके चन्द्रशालाशालिनि, शैलूष इवानेकभूमिकाभाजि, धनंजय
इव सुभद्रान्विते, कुरुवंशाख्यान इव चारुचित्रविचित्रभित्तिभाजि,
तुहिनाचलोच्चकूटायमाने सुधाधवलस्कन्धे धाम्नि ध्वजावलीविलै-
सत्सप्तसप्तिसप्तौ सप्तमभूमिकायाम्, इतोमुखवातायने निविष्टाम्,
इतो गतास्तोः कुब्जवामनकन्यास्तवद्वार्ताव्यतिकरैर्विनोदारम्भिणीः
संभाषयन्तीम्, अनवरततरललोचनालोकनैरनीलोत्पलोपहारमिव त्व-
दधिष्ठितायै दिशे दिशन्तीम्, उत्तरीयांशुकस्याच्छतया दृश्यमा-
नमदनबाणव्रणकिणानुकारिकस्तूरिकापङ्कपत्नलताङ्कितकुचकलशश्रि-
यम्, अष्टमीशशाङ्कशकलशोभाभाजि ललाटपट्टे स्मरैपरवश-
त्रिपुरुवैरिव 'ममेयं ममेयं ममेयम्' इति संहर्षात्कृतं स्ववर्णा-
नुकारिस्वीकारचिह्नमिव कुङ्कुममृगमदमलयजरसरचितत्रिपुण्ड्रकरेखा-
त्रितयमुद्वहन्तीम्, आलोहितेन चे त्वद्वार्तामृतपानबालप्रवालप्रणा-
सुस्थितेति ॥ तेजोराशिश्चैडवानलः प्रतापचयश्च । लक्ष्मीर्विष्णुपत्नी शोभा
च । तथाभूतस्य तस्य सागरोपमस्योपरि वर्णकाः स्तोतारः प्लवन्ते तरन्ति । अप-
रिच्छिन्नगुणत्वादलब्धमध्या बाह्यमेव वर्णयन्तीति भावः । वारो जलानि धीयन्ते-
ऽस्मिन्निति वार्धिः ॥ १९ ॥
तत्र चेति ॥ कञ्चुकितो महल्लका उरगाश्च । ( बहुनिलयं शेषनिलयं च ।)
प्रविश्य ईदृग्विधे धाम्नि गृहे, सप्तमभूमिका सप्तमकक्षः, तत्र स्थिते इतोमुखे एव
हस्तादिसंकेतकथिते एव, वातायने गवाक्षे, निविष्टामसीनां, दमयन्तीमद्राक्षमिति
संबन्धः । चन्द्रशाला शिरोगृहम् । शैलूषो नटः । भूमिका गृहकक्षणा वेषधारणं च ।
शोभनानि भद्राणि गृहावयवविशेषास्तैरन्विते । पक्षे सुभद्रार्जुनपत्नी । चारुचित्रेण
विचित्रा भित्तिर्भजते । अन्यत्र चित्रविचित्रौ शान्तनुसुतौ । तौ च कुरुवंश्यानां
भित्तिभूतौ । तत्कलत्राभ्यामम्बिकाम्बालिकाभ्यां पाण्डुधृतराष्ट्रयोरुत्पन्नत्वात् । तथा
ल्माः सप्तसप्तेरादित्यस्य सप्तयोऽश्वा यत्र तस्मिन् । अष्टमी शशाङ्कशकलेति ।
१ 'अनन्तमयं पातालमिव तदन्तःपुरं प्राविशम्'. २ 'चक्रवाकचक्रवाले'.
३ 'विलसत्सप्त'. ४ 'सप्तभूमि'. ५ 'तास्ताः'. ६ 'व्यतिकरे'. ७ 'स्मरबाणपरवश'.
८ 'ममेयमिति संहर्षा'. ९ 'इति कल्पितम् अस्माभिः'. १० 'द्वार्ता...
सप्तम उच्छ्वासः । २११
लकेनेव कर्णप्रणयिना बालपल्लवेन विराजितवदनाम्, आसन्नमणि-
भित्तिदर्पणसंक्रान्तप्रतिबिम्बतया त्वत्संगमवाञ्छाकृतसंतापसंविभा-
गार्थमिव बहून्यात्मरूपाणि सृजन्तीम्, आसन्नवर्तिनीभिर्वीणादिवि-
नोदविदुषीभिः समानवयोवेषाभिः सखीभिः सरस्वतीमिव सकलवि-
द्याधिदेवताभिरुपास्यमानाम्, उन्मिषत्कुसुमाभरणरमणीयाभिश्चामर-
ग्राहिणीभिर्वनदेवताभिरिव शरीरिणीं वसन्तमासश्रियमुपसेव्यमानाम्,
अनुलेपनपुष्पपाणिभिः प्रसाधिकाभिर्भवानीमिवानेकनाकनायकना-
रीभिराराध्यमानाम्, इतस्ततो निपतन्मण्डनमणिमयूखमञ्जरीजा-
लैच्छलेनामान्तमिव कान्तिरसविसरमुत्सृजन्तीम्, अशेषार्ङ्गावयवेषु
प्रतिबिम्बितैरासन्नचित्रभित्तिरूपकैर्मायाविभिः सुरासुरैरिव विधीय-
मानाश्लेषाम्, अग्रस्थिते पद्मरागमणिदर्पणे कन्दर्पातुरे रागिणि शशि-
नीव करुणयार्पितच्छायाम्, अशेषजगद्विजयास्त्रशालामिव मन्मथस्य,
सङ्केतवसतिमिव समस्तसौन्दर्यगुणानाम्, अधिदेवतामिव सौभाग्यस्य,
विपणिमिव लावण्यस्य, शिल्पसर्वस्वपरिणामरेखामिव विधातुः, अर्न-
न्तसंसाररोहणैकरत्नकन्दलीं दमयन्तीमद्राक्षम् ॥ क ॥
ईक्षणामृतशलाकामवलोक्य च तामतिहर्षविस्मयकौतुकोत्तानित-
चक्षुश्चिन्तितवानहम् ॥ ख ॥
'इयं हि
स्मरराजराजधानी मञ्जनवलभी विलासविहगानाम् ।
शृङ्गाररङ्गशाला हरति न बाला मनः कस्य ॥ २० ॥
अपि च ।
दग्धो विधिर्विधत्ते न सर्वगुणसुन्दरं जनं कमपि ।
इत्यपवादभयादिव हरिणाक्षी वेधसा विहिता ॥ २१ ॥
खण्डशशिनो हि श्रियं ललाटं श्रयति । त्रयाणां सत्त्वरजस्तमसां पुरुषास्त्रिपुरुषाः ।
यथा—'न बाधतेऽस्य त्रिगणः परस्परम्' इत्यत्र त्रयाणां धर्मादीनां गणः । यथा
च चण्डसिंहकृते चण्डिकाचरिते—'प्रियत्रिवर्गश्चकमे सकामम्' इति । कर्मधा-
रयस्तु संज्ञायामेव । मणिदर्पणलक्षणे शशिनि कारुण्यादर्पितप्रतिकृतिमित्यर्थः ।
अवज्ञातो हि रागी म्रियते । संसारो रोहणगिरिः, दमयन्ती च रत्नप्ररोहशला-
का ॥ क ॥
दग्ध इति ॥ दग्धशब्दो निन्दार्थे । दग्धो निन्द्यो विधिः ( यतः ) सर्वगुण-
१ 'सशरीरिणीं'. २ 'नाकिनाय'. ३ 'च्छलेनाङ्गेष्वमान्तमिव'. ४ 'अशेषावयवेषु'.
५ 'उपस्थिते'. ६ 'अनून'. ७ 'अद्राक्षीत् '. ८ 'कामिवावलोक्य'. ९ 'वसतिः'.
२१२ नलचम्पूः ।
किं चान्यत् ।
लावण्यपुण्यपरमाणुदलं तदन्य-
दन्यः स चापि निपुणः खलु कोऽपि वेधाः ।
येनाद्भुता कृतिरियं विहिता विशिष्ट-
कार्येण कारणविशेषगुणोऽनुमेयः ॥ २२ ॥'
एवं वितर्कयन्तं सापि मां पुष्कराक्षसूचितमुचितसंभ्रमेण मना-
ग्वलितकंधराकदलीकम्पितकर्णोत्पलमैवलोक्य स्वागतप्रश्नानन्तरम्
'अहो बहोः कालादभूतसुप्रभातमद्योद्द्योतितमिव तमस्काण्डपिण्डीकृतं
कुण्डिनम्, अकाण्डाडम्बरितवसन्तविकासोत्सव इवाभवत्सरित्संग-
मोपकण्ठवनविभागः, चिरात्संपन्ना सलक्षणा दक्षिणा दिगियम्, उन्नि-
द्रित इव सह्याद्रिः, अमृतद्रवार्द्रित इवोज्जीवितोऽयं जनः' इत्यभिधाय
'पर्वतक, कच्चित्कुशली परबलदलदावानलो नलः' इति स्मितमुग्धम-
धुरया गिरा समभाषत ॥ क ॥
अहमपि प्रणम्य यथोचितमनन्तरमतिवरितसखीजनोपनीतमास-
नमध्यास्य देवेन प्रहितानि तान्याभरणोपायनान्युपानैषम् ॥ ख ॥
आदरेण तया गृहीतेषु तेषु, बहुमते मयि, प्रक्रान्ते त्वद्गुणग्रहणगो-
परिपूर्णं कमपि जनं न विधत्ते इति योऽसावपवादः । तद्द्यादिव 'तेनासौ सुन्दरी
विहिता' तेन विधिना अपवादोद्विग्नेन । असाविति । साक्षाद्दृष्टा । सुन्दरीति । समग्र-
गुणसौन्दर्योपेता । अतस्तस्यां सृष्टायां स्रष्टुरपवादो न भविष्यतीति । 'हरिणाक्षी'
इति पाठस्तु अक्षिमात्रसौन्दर्यार्थो न समग्रगुणसुन्दरतां वक्तीत्युपलक्षणपरतया
निर्वाह्यः ॥ २१ ॥
लावण्येति । येन निरुपमलावण्यदलपाटवेन वेधा दमयन्तीं सृष्टवान् । तद्द-
लपाटवमन्यत् । वेधाश्च । दलपाटवं वेधाश्च जगन्निर्माणविलक्षणावित्यर्थः । तद्द्व-
यमपि विशेषयन्नाह—येनेत्यादि ॥ येन दलपाटवेन वेधसा चेति ज्ञेयम् । तत्रार्थे
हेतुमाह—विशिष्टेत्यादि ॥ २२ ॥
एवमिति ॥ 'सरराज-' इत्यादिपद्यत्रयेणैवमूहमानं पुष्कराक्षेण निवेदितं
मां 'हे पर्वतक कच्चित्कुशली परसैन्यदावानलो नलः' इति वचनेन दमयन्ती
संभाषितवती । दावानलोपमानेन आत्मनोऽपि विरहसंतापहेतुत्वं नलस्य व्यनक्ति ।
मनाग्वलितेत्याद्यवलोकनक्रियाविशेषणम् ॥ क ॥
१ 'इदं क्वचिन्न' . २ 'एवं हि तर्कयन्तं' . ३ 'मालोक्य' . ४ 'इवोज्जितो' . ५ 'सप-
रितोषमादरेणेव; आदरेण च' . ६ 'त्वद्गुणगोष्ठीम्य'.
सप्तम उच्छ्वासः । २१३
ष्ठीव्यतिकरे, नर्मसुखालापलीलयातिक्रामति स्तोककालकलापे, पुष्क-
राक्षोऽप्यभाषत ॥ क ॥
‘देवि१, विज्ञापयामि यद्यभयम् ॥ ख ॥
एवमनुश्रुतमस्माभिः ‘किल सकलनाकिनायकपुरंदरपुरःसराः स-
र्वेऽपि लोकपालास्त्वामभिलषन्तोऽन्तःकरणारण्यलभ्रमदनदावानला-
नलमायान्तमभ्यर्थितवन्तः यथा महानुभावा भवन्ति हि भवादृशोः
परोपकारव्रतधर्माणः, तदेष प्रार्थ्यसे स्वप्रयोजननिरपेक्षेण त्वयास्मदर्थे
दमयन्ती वरणीया, इति’ ॥ ग ॥
तदेवि, देवदूतकार्येणागतो निषेधेश्वरः ॥ घ ॥
पृच्छतु वा देवी पर्वतकम्’ ॥ ङ ॥
इति श्रुत्वा पुष्कराक्षभाषितम्, ईषद्विषाद्विलक्षस्मितस्मेरां दृशं
मयि साचि संचारितवती ॥ ॥ च ॥
मयापि संवादिते पुष्कराक्षवचने तस्मिन्, आकस्मिककठोरका-
ष्ठप्रहारव्यथामिवानुभवन्ती, विन्दतु वीणाक्वणो माधुर्यमितीव प्रतिप-
न्नमौनव्रता, लभेतां कर्णोत्पले परभागमितीव मुकुलितनयना, प्राप्नोतु
शोभां मुक्तावलीदीप्तिजालमितीव मुक्तस्मिता, गच्छतु छायां कण्ठा-
वलम्बिनी चम्पकमालेयमितीवाङ्गीकृतवैवर्ण्या, लभतां लीलकमल-
मिदं सौभाग्यमितीवोच्छ्वसितवदना, सा क्षणमभूत् ॥ छ ॥
तत्र च व्यतिकरे
विगलितविलासम्परसमाकस्मिकजातभङ्गशृङ्गारम् ।
मूकितमिव मूर्च्छितमिव मुद्रितमिव भवनमिदमासीत् ॥ २३ ॥
राजा तु ‘पर्वतक, ततस्ततः’ ॥ ज ॥
पर्वतकोऽपि ‘देव, श्रूयताम् ॥ झ ॥
अतः परम्
ईषन्निःसृतकुन्दकुङ्गलसहग्दन्तप्रभामञ्जरी
रोचिष्णुस्मितमन्थरां मयि दृशं संचारयन्ती मनाक् ।
अस्यन्ती करपद्मभृङ्गमधरे बन्धूकबुद्ध्यागतं
वारंवारमकम्पयत्तचलितस्तोकावतंसं शिरः ॥ २४ ॥
ततः परम् । वारितवारविलासिनीचाटुवचनक्रमम्, आकस्मिक-
विस्मयविस्तृतस्मितविलासम्, अतनुतुहिनाहतनवनलिनदलदीनदीर्घ-
१ ‘देव विज्ञापयसि’. २ ‘भवादृशः’.
२१४ नलचम्पूः ।
क्षणम्, उष्णसरलश्वासारम्भविषमविषादविच्छायिताननेन्दुद्युति,
तस्याः स्थानकमवलोक्य सखेदं सखीजनेन 'देवि, भवन्निःश्वासपवनप-
रंपरया पर्यस्त इवास्ताचलहस्तावलम्बनमयमाश्रयति भगवान्भानुः,
इयं च सौभाग्यशालिनि नले निलीनचित्तायास्तव लोकपालपार्थिव-
प्रार्थनाव्यतिकरमिममाकर्ण्य लज्जितेव पिहितश्रवणा दूरे भवति वास-
रश्रीः, इमानि निश्चलनिलीनमधुपनिपीयमानगर्भमधूनि संकोचयन्ति
लोचनानीव कमलानि, संविभागीकृतविषादा इव विलासवयस्याः
सरसीसरोरुहिण्यः, इमाश्च 'कथमस्मत्पतयो मनुष्यकन्यकां कामयन्ते'
इतीर्ष्याशोकवशादिव दिशः श्यामायन्ते, तत्प्रेष्यतामयं पर्वतकः' इत्य-
भिधीयमाना कथंकथमपि चिन्तान्तरायतिरस्कृतालापमीषदुन्नमय्य
मुखं समुल्लसदशोकपल्लवानुकारि करतलमुत्तानीकृत्य मामविस्मरणी-
यसंमानदानावसाने व्यसर्जयत् ॥ क ॥
विसर्जितश्च तया तत्कालमाविर्भवद्विषादवशसंपन्नमौनया न पुनः
संभाषितोऽस्मि, न वीक्षितोऽस्मि, न पृष्टम्, न संदिष्टं किमपि, केवलं
चलन्नेत्रविभागप्रान्ततरत्तारया दृष्टया समवलोक्य समुत्तानितकरक-
मलसंज्ञयैव कथमपि संप्रेषितः 'कष्टम्' इति चिन्तयन्नलसालसैरसम-
ञ्जसपातिभिः पश्चिममुखैरिव पादैरिहायातवान् ॥ ख ॥
तदेव दमयन्ती देवदूतकार्याङ्गीकरणव्यतिकरमिममाकर्ण्य परं
विषादमापद्यत ॥ ग ॥
अन्यच्च । मन्ये च ।
परिम्लानच्छायाविरहितसनिद्रद्रुमवनं
पतत्पक्षीभूतध्वनितशकुनोन्नादितनभः ।
वियोगव्याकूतादुपनदि रुदच्चक्रमिथुनं
विषीदन्त्यां देव्यामिदमपि विषण्णं जगदभूत् ॥ २५ ॥
इत्यभिधाय स्थिते पर्वतके तत्कालोचितमिममेवार्थं समर्थयन्नवस-
रपाठकः पपाठ ॥ घ ॥
ततः परमिति ॥ तस्याः स्थानकमवस्था । लज्जितेव पिहितश्रवणा । श्रवणं
नक्षत्रं श्रोत्रं च ॥ क ॥
-----------------------------------------------------------------
१ 'लोकपालपार्थिवयोः'. २ 'इमान्याश्चर्यनिश्चल'. ३ 'सरसीषु'. ४ 'उन्नम्य'.
५ 'पल्लवाकारि'. ६ 'सानेऽपि न किंचिदवादीत् व्यसर्जयच्च'. ७ 'दृशा'. ८ 'लालसै-
रिव'. ९ 'रिहाहमागतवान्'. १० 'व्याघाता'.
सप्तम उच्छ्वासः। २१५
'कन्यामन्यानुरक्तां कथममृतभुजो मानुषीं कामयन्ते
तन्वङ्गीः सस्मितास्याः स्मरविवशदृशो नाकनारीर्विहाय।
वक्तुं खेदादिवैतद्दिनपतिरधिकं व्रीडयैवावनम्रः
कोपेनेवारुणांशुः प्रविशति वरुणस्यालयं पश्चिमाब्धिम् ॥२६॥'
राजा तु तदाकर्णयन्, अवतीर्य सौधशिखरतलाल्लीलापदप्रचारेण
संध्यावन्दनैविधिरामोपविष्टजैपदद्विजजनसनाथसैकते सरित्संगमे
संध्याह्निकमकरोत् ॥ क ॥
ततश्च पश्चिमायां दिशि स्फुरति संध्यारागे, रुधिरासवपिपासया
कालवेतालमण्डलीव प्रधावमाना, त्रिभिः स्रोतोभिः प्रवृत्तया गङ्गया
सह संघर्षादिवानैकैः स्रोतसां सहस्रैर्गगनतलमिव प्लावयन्ती कालि-
न्दीव, व्यजृम्भत तिमिरपटलपङ्क्तिः ॥ ख ॥
अनन्तरं च चन्द्रमसा गर्भिणी पौरंदरी दिक्केतकीपुष्पपत्रपाण्डि-
मानमंगमत् ॥ ग ॥
उल्लास चै चण्डतरमारुतान्दोलितोदयाद्रिद्रुमकुसुमकिंजल्करेणु-
राजिरिव कपिशा शशाङ्कद्युतिः ॥ घ ॥
अथ क्रमेण पूर्वपयोधिपुलिनाद्राजहंस इव गगनमन्दाकिनी मुच्च-
लितः, केसरिकिशोर इवोदयगिरिगुहागह्वरात्तिमिरकरियूथपृष्ठलग्नः,
स्फटिकमयः पूर्णकुम्भ इव जगद्विजयप्रस्थानस्थितस्य मङ्गलाय मकर-
कतोः केनापि सज्जीकृतः, श्रीखण्डपिण्ड इव मण्डनाय माहेन्द्रदिशा
हस्तश्लेषोपलालितः, शङ्खिकापुष्पस्तबक इव गगनश्रिया श्रवणे संयो-
जितः, कुम्भ इवैकः प्राचीवनविहारिसुरकरीन्द्रस्य प्रकटतां गतः,
वासरविरामवल्लीमुल्लय कन्द इवोद्धतो निशाशवरिकया, पाण्डुपुष्पा-
क्षतगुञ्जापुञ्ज इव सिद्धवधूभिरुदयाचलंचतुष्पथे विरचितः, गण्ड-
शैल इव कैलासशिखराल्लुठित्वागतः, सीमन्तमौक्तिकमिव पूर्वदि-
ङ्मुखस्य, सितातपत्रमिव पूर्वाशाधिपतेः पुरंदरस्य, क्रीडामौक्ति-
कन्यामन्येति ॥ 'वक्तुं खेदात्' इत्यस्योपयोगि 'वरुणस्यालयम्' इति । वाचो
हि श्रोतारमपेक्षन्ते ॥ २६ ॥
अनन्तरमिति ॥ गर्भिणी हि केतकपत्रवत्पाण्डुतां धत्ते ॥ ग ॥
अथेति ॥ वनगहने हि विचरतः करिणः प्रायेणैक एव कुम्भस्थलविभागो
१ 'गाङ्गः'. २ 'विधीति क्वचित्'. ३ 'नृपद्विज'. ४ 'मगात्'. ५ 'प्रचण्ड'.
६ 'यूथशङ्कया'. ७ 'माहेन्द्रदिशा'. ८ 'पुष्प इव'. ९ 'गच्छतः'. १० 'चलचलच्चतुः'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA