सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 222, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 222

२०० नलचम्पूः ।
'आपूर्वापरदक्षिणोत्तरककुप्पर्यन्तवेलावना-
दाज्ञां मौलिषु मालिकामिव नृपाः कुर्वन्तु दीर्घायुषोः ।
ब्रह्मस्तम्बविलम्बिकीर्तिलतयोर्विस्तारिलक्ष्मीकयो-
रन्योन्यस्य दिनानि यान्तु युवयोः स्नेहेन सौख्येन च ॥ ४ ॥
एवमुपक्रमाविरुद्धविद्वेद्दालापलीलया परस्परमाश्यानतुहिनशिला-
शकलाकारकपूरपारीपरिकरितताम्बूलार्पणप्रणयेन च परितुष्टपरिज-
नपरिहासगोष्ठ्यां च किमप्यभिनवम्, किमपि पुरातनम्, किमप्यु-
त्पाद्यम्, किमपि यथावस्थितं जल्पाकजनजल्पितं भावयन्तौ तस्थतुः
स्थवीयसीं वेलाम् ॥ क ॥
अनन्तरमनुसरति मध्यभागमम्बरस्यांशुमालिनि नलः 'स्वगृहान-
लंकुर्वन्तु भवन्तः' इति प्रश्रयेण विदर्भेश्वरं विससर्ज ॥ ख ॥
गते च तस्मिन् 'अहो वात्सल्यम्, अहो परमौदार्यम्, अहो लो-
कवृत्तकौशलम्, अहो वाग्विभववैदग्ध्यम्, अहो प्रश्रयोऽस्य विदर्भरा-
जस्य' इति तद्गुणप्रवणाः कथाः कुर्वन्नाप्तजनपरिजनेन सह मुहूर्तम-
वासांचक्रे ॥ ग ॥
चिन्तितवांश्च ।
'अनुगुणघटनेन यद्यपीयं भवति हि हस्तगतेव कार्यसिद्धिः ।
भयतरलभुजंगवक्रवृत्तेस्तदपि न विश्वसिमो वयं विधातुः ॥ ५ ॥
तथाहि ।
अङ्गाः कङ्गेकलिङ्गवङ्गमगधाः सर्वेऽप्यमी पार्थिवा
दिक्पालाश्च मरुत्पतिप्रभृतयः कन्यार्थिनः संगताः ।
नो विद्मः कथमेष्यतीह घटनां कार्य यतस्तत्क्षणा-
न्नानाभङ्गिभिरिन्द्रजालसदृशं दैवं हि चित्रीयते ॥ ६ ॥
अथवा ।


आपूर्वेति ॥ ब्रह्मस्तम्बो ब्रह्माण्डम् ॥ ४ ॥
एवमिति ॥ आश्यानमविलीनं यत्तुहिनं हिमं तस्य शिलाशकलं तदाकारस्य
कर्पूरस्य पारी शकलं तया परिकरितस्य संबद्धस्य ताम्बूलस्यार्पणप्रणयेन । अतिश-
येन स्थूला स्थवीयसी । 'स्थूलदूर-' इत्यादिना सिद्धम् ॥ क ॥
अन्विति ॥ अनुगुणानामनुकूलानां घटनेन संयोजनेन हि स्फुटं सिद्धिर्हस्तग-
तैव भवति । भयेन तरलो लोलः । तरलत्वं चात्र वक्रतातिशयहेतुः ॥ ५ ॥


१ 'विद्वद्गो०' २ 'गोष्ठ्यां च'. ३ 'उत्पाद्यम्' ४ 'भावयन्ताववतस्थतुः'. ५ 'कुम्भ०'.