सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 233, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 233

सप्तम उच्छ्वासः । २११
लकेनेव कर्णप्रणयिना बालपल्लवेन विराजितवदनाम्, आसन्नमणि-
भित्तिदर्पणसंक्रान्तप्रतिबिम्बतया त्वत्संगमवाञ्छाकृतसंतापसंविभा-
गार्थमिव बहून्यात्मरूपाणि सृजन्तीम्, आसन्नवर्तिनीभिर्वीणादिवि-
नोदविदुषीभिः समानवयोवेषाभिः सखीभिः सरस्वतीमिव सकलवि-
द्याधिदेवताभिरुपास्यमानाम्, उन्मिषत्कुसुमाभरणरमणीयाभिश्चामर-
ग्राहिणीभिर्वनदेवताभिरिव शरीरिणीं वसन्तमासश्रियमुपसेव्यमानाम्,
अनुलेपनपुष्पपाणिभिः प्रसाधिकाभिर्भवानीमिवानेकनाकनायकना-
रीभिराराध्यमानाम्, इतस्ततो निपतन्मण्डनमणिमयूखमञ्जरीजा-
लैच्छलेनामान्तमिव कान्तिरसविसरमुत्सृजन्तीम्, अशेषार्ङ्गावयवेषु
प्रतिबिम्बितैरासन्नचित्रभित्तिरूपकैर्मायाविभिः सुरासुरैरिव विधीय-
मानाश्लेषाम्, अग्रस्थिते पद्मरागमणिदर्पणे कन्दर्पातुरे रागिणि शशि-
नीव करुणयार्पितच्छायाम्, अशेषजगद्विजयास्त्रशालामिव मन्मथस्य,
सङ्केतवसतिमिव समस्तसौन्दर्यगुणानाम्, अधिदेवतामिव सौभाग्यस्य,
विपणिमिव लावण्यस्य, शिल्पसर्वस्वपरिणामरेखामिव विधातुः, अर्न-
न्तसंसाररोहणैकरत्नकन्दलीं दमयन्तीमद्राक्षम् ॥ क ॥
ईक्षणामृतशलाकामवलोक्य च तामतिहर्षविस्मयकौतुकोत्तानित-
चक्षुश्चिन्तितवानहम् ॥ ख ॥
'इयं हि
स्मरराजराजधानी मञ्जनवलभी विलासविहगानाम् ।
शृङ्गाररङ्गशाला हरति न बाला मनः कस्य ॥ २० ॥
अपि च ।
दग्धो विधिर्विधत्ते न सर्वगुणसुन्दरं जनं कमपि ।
इत्यपवादभयादिव हरिणाक्षी वेधसा विहिता ॥ २१ ॥
खण्डशशिनो हि श्रियं ललाटं श्रयति । त्रयाणां सत्त्वरजस्तमसां पुरुषास्त्रिपुरुषाः ।
यथा—'न बाधतेऽस्य त्रिगणः परस्परम्' इत्यत्र त्रयाणां धर्मादीनां गणः । यथा
च चण्डसिंहकृते चण्डिकाचरिते—'प्रियत्रिवर्गश्चकमे सकामम्' इति । कर्मधा-
रयस्तु संज्ञायामेव । मणिदर्पणलक्षणे शशिनि कारुण्यादर्पितप्रतिकृतिमित्यर्थः ।
अवज्ञातो हि रागी म्रियते । संसारो रोहणगिरिः, दमयन्ती च रत्नप्ररोहशला-
का ॥ क ॥
दग्ध इति ॥ दग्धशब्दो निन्दार्थे । दग्धो निन्द्यो विधिः ( यतः ) सर्वगुण-
१ 'सशरीरिणीं'. २ 'नाकिनाय'. ३ 'च्छलेनाङ्गेष्वमान्तमिव'. ४ 'अशेषावयवेषु'.
५ 'उपस्थिते'. ६ 'अनून'. ७ 'अद्राक्षीत् '. ८ 'कामिवावलोक्य'. ९ 'वसतिः'.