सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary

आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा

DevanagariSanskritpublished176 पृष्ठ

अथ स्यात् — यद्यपि जन्ममरणयोरेकीभावेन वा नानाभावेन वा नास्ति सिद्धिः, तथापि
विद्येते एव संभवविभवौ, वाच्यत्वात्, विज्ञानवत्, इति । उच्यते । यदि वाच्यत्वेन अनयोः
सिद्धिरिष्यते, वन्ध्यापुत्रस्यापि इष्यताम् ॥
अपि च —
सहान्योन्येन वा सिद्धिर्विनान्योन्येन वा ययोः ।
न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते ॥ ६ ॥
सहभावासहभावरहितं नास्ति पक्षान्तरं यतः संभवविभवयोः सिद्धिः स्यात् । अवाच्यतया
सिद्धिर्भविष्यतीति चेत्, केयमवाच्यता नाम ? यदि मिश्रीभावः, सोऽनुपपन्नः, पृथक्पृथगसिद्धयो-
र्मिश्रीभावाभावात् । अनिर्धार्यमाणस्वरूपत्वात् वन्ध्यापुत्रश्यामगौरतादिवन्न स्तस्तः एव संभवविभवाविति ।
यदा चैवं संभवविभवौ न स्तः, तदा तद्धेतुरपि कालो नास्तीति सिद्धम् ॥ ६ ॥
किं चान्यत् — इहेमौ संभवविभवौ परिकल्प्यमानौ क्षयधर्मिणे वा भावस्य परिकल्प्येयाता-
मक्षयधर्मिणे वा ? उभयथा च नोपपद्यते इति प्रतिपादयन्नाह —
क्षयस्य संभवो नास्ति नाक्षयस्यापि संभवः ।
क्षयस्य विभवो नास्ति विभवो नाक्षयस्य च ॥ ७ ॥
तत्र क्षयस्य क्षयलक्षणस्य भावस्य विरोधिधर्मसद्भावात् संभवो न युक्तः । अक्षयस्यापि
भावलक्षणवियुक्तत्वात् खरविषाणस्येव संभवो न युक्तः । एवं क्षयस्य विभवो नास्ति । क्षयधर्मो हि
अविद्यमानः, तस्य निराश्रयो विभवो न युक्तः । तथा विभवो नाक्षयस्य च । अक्षयधर्मो हि
भावाभावलक्षणविलक्षणः । तस्य अविद्यमानस्य कुतो विभवो भविष्यति ? यौ च संभवविभवौ न
क्षयधर्मिणे नाक्षयधर्मिणो भावस्य संभवतः, तौ न संभवतः । इति न स्तः संभवविभवौ ॥ ७ ॥
अत्राह — विद्येते एव भावानां संभवविभवौ, तदाश्रयधर्मिसद्भावात् । इह भावाश्रयौ
संभवविभवौ, स च तावद् भावोऽस्ति, तत्सद्भावात् तदाश्रितावपि धर्मौ भविष्यतः इति । उच्यते ।
स्यातां भावाश्रितावेतौ धर्मौ, यदि भावः स्यात् । यदा तु भावो नास्ति, तदा —
संभवो विभवश्चैव विना भावं न विद्यते ।
कस्मात्पुनर्भावो नास्तीति चेत्, यस्मात् —
संभवं विभवं चैव विना भावो न विद्यते ॥ ८ ॥
भावस्य हि लक्षणभूतौ संभवविभवौ, तौ च स्वरूपतो न स्तः इति प्रतिषिद्धौ । यदा
च तौ भावतः प्रतिषिद्धौ, तदा भावलक्षणं संभवं विभवं च विना कुतो भावलक्षणविलक्षणो
भावो भविष्यति ? भावं च विना न स्तः संभवविभवौ ॥
अपरे तु पूर्वार्धं पश्चिमं कृत्वा व्याचक्षते । स्तः एव संभवविभवौ, भावधर्मत्वात् । इह
यन्नास्ति, न तस्यास्ति भावधर्मत्वम्, तद्यथा मण्डूकजटाशिरोमणेः । भावधर्मौ च संभवविभवौ,
१ Mss. अनिर्धार्यमाणे for ˚माणौ. २ Mss. नाक्षयं for क्षयं. ३ Mss. भावधर्मित्वात् for ˚धर्मत्वात् which is confirmed by T.
तस्मात् स्तः एव तौ इति । यदि कस्यचित् परमार्थतः संभवविभवौ स्याताम्, स भाव इति युक्तं
स्यादभिधातुम् । तौ च न स्तः, इति
संभवं विभवं चैव विना भावो न विद्यते ।
भावस्य संभवविभवसत्त्वे विद्यमानत्वात्, इति भावः । तदसत्त्वे च हेतोरासिद्धार्थता । तथा—
संभवो विभवश्चैव विना भावं न विद्यते ॥
आश्रयस्याभावादाश्रितस्य असिद्धिः इत्यभिसंधिरिति ॥ ८ ॥
किं चान्यत् — इहेमौ संभवविभवौ परिकल्प्यमानौ शून्यस्य वा भावस्य परिकल्प्येयाता-
मशून्यस्य वा ? उभयथा च नोपपद्यते इति प्रतिपादयन्नाह —
संभवो विभवश्चैव न शून्यस्योपपद्यते ।
अविद्यमानाश्रयत्वादाकाशचित्रवदित्यभिप्रायः । तथा—
संभवो विभवश्चैव नाशून्यस्योपपद्यते ॥ ९ ॥
अशून्यस्य असत्त्वात् निराश्रयौ संभवविभवौ नोपपद्यतः ॥ ९ ॥
किं चान्यत् — इह यदि संभवविभवौ स्याताम्, तौ एकत्वेन वा स्यातामन्यत्वेन वा ?
उभयथा च नोपपद्यते इत्याह —
संभवो विभवश्चैव नैक इत्युपपद्यते ।
परस्परविरुद्धयोरालोकान्धकारयोरिवैकत्वानुपपत्तेः ।
संभवो विभवश्चैव न नानेत्युपपद्यते ॥ १० ॥
उभयोः परस्परमव्यभिचारित्वात् । न हि संभवरहितस्य विनाशः, न विभवरहितस्य
संभवो दृष्ट इति । एवमुभयोः परस्परमव्यभिचारित्वात्
संभवो विभवश्चैव न नानेत्युपपद्यते ॥
अथ स्यात् — किमनया सूक्ष्मक्षिकया ? आगोपालाङ्गनादिको हि जनः यस्मात् संभवं
विभवं च पश्यति, तस्मात् स्तः संभवविभवौ । न हि अविद्यमानो वन्ध्यातनयः शक्यो द्रष्टुमिति ।
एवमपि —
दृश्यते संभवश्चैव विभवश्चैव ते भवेत् ।
उच्यते । अनैकान्तिकमेतत् । न हि यद् यद् लोकेनोपलभ्यते तस्य तस्य अस्तित्वम् ।
तथा हि आगोपालाङ्गनादिको जनो गन्धर्वनगरमायास्वप्नालातचक्रमरीचिकासलिलादिकमविद्यमान-
मपि पश्यति इन्द्रियोपघातात्, एवमिमावपि संभवविभवौ असन्तौ मोहादेव पश्यतीत्याह —
दृश्यते संभवश्चैव मोहाद्विभव एव च ॥ ११ ॥
अथ कस्मात् पुनरेतदेवं निश्चीयते — अविद्यमानस्वरूपाविमौ संभवविभवौ मोहादेव
बाललोकेन दृश्येते इति । युक्त्या ह्येतदेवं निश्चीयते । का पुनरत्र युक्तिः ? इह यदि कश्चिद् भावो
नाम भवेत्, नियतं स भावाद्वा जायेत अभावाद्वा । तथा यदि अभावो नाम कश्चित्, सोऽपि
भावाद्वा जायेत अभावाद्वा । उभयथा च उभयोरप्यसंभवः इत्याह—
१ T reads तत्रोच्यते before यदि. २ T seems to enlarge the text after
इन्द्रियोपघातात्.

the book or "नोत्पद्येत"? It looks like 'नोत्पद्येत' where the त् is tiny, or 'नोपद्येत'. Let's transcribe faithfully as printed: "नोत्पद्येत" or "नोपद्येत" (I will look closely: there is a tiny mark above the left shoulder of प, making it त्प, but let's check).
Wait, look at line 19: "व्ययस्यानुत्पत्तेर्हेतुरुच्छेदः प्रसज्यते ॥ १६ ॥"
Line 22: "स्वभावानुपपन्नत्वात् सर्वधर्माणाम् ।"
Line 25: "[म० शा० - १८.१०]" (Wait, is it १८.१० or १५.१०? It says १५.१०! Let's check: प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् । न चान्यदपि तत्तस्मान्नोच्छिन्नो नापि शाश्वतम् ॥ That is MMK 18.10? No, MMK 18.10 is: यत्प्रतीत्य समुत्पन्नं न तत् तावत्तदेव तत् । न चान्यत्तन्न चोच्छिन्नं नापि शाश्वतमित्यतः ॥ Wait, what chapter is that? In MMK chapter 18, verse 10 is indeed "प्रतीत्य यद्यद्भवति...". Wait, does it say १५.१० or १८.१०? It says १८.१०, look

पृष्ठम् १८४ [२१. १७-

किं चान्यत् —
निर्वाणकाले चोच्छेदः प्रशमाद्भवसंततेः ॥ १७ ॥
यद्यपि हेतुफलयोरुदयव्ययसंतानप्रवृत्त्या शाश्वतोच्छेददर्शनप्रसङ्गः परिह्रियते, तथापि
यत्रास्य संतानस्य पुनरप्रवृत्तिः, तत्र निर्वाणे नियतमुच्छेददर्शनमापद्यते । उच्छेददर्शनं च
प्रहातव्यमित्युक्तं भगवता । एवंविधमुच्छेददर्शनं न भविष्यतीति चेत्, अन्यदपि किमर्थं भवतां
भविष्यतीति भावविच्छेदादालम्बनत्वात्, निर्वाणकाले भावविच्छेदादालम्बनवदित्यभिप्रायः ॥
यच्चोक्तम् —
उदयव्ययसंतानः फलहेतोर्भवः स हि ।
इति, तदपि नोपपद्यते । कथं कृत्वा ? इह हि चरमो भवो निवृत्तिक्षणः, प्रथमो
गतिप्रतिसंधिलक्षणः । तत्र चरमो भवो निरुध्यमानो हेतुत्वेनावतिष्ठते । उपपत्तिक्षणस्तु प्रथमो
भवः फलरूपत्वेन व्यवतिष्ठते । अनयोश्च भवयोः संसार इति संज्ञा कृता ॥ १७ ॥
अत्र च इदं विचार्यते — य एष प्रथमो भवः फलरूपत्वेन व्यवस्थाप्यते, स किं चरमे भवे
निरुद्धे उपजायते, अथानिरुद्धे, उत निरुध्यमाने, यतो हेतुफलानुप्रबन्धात् संसारः स्यात् ? सर्वथा च
विचार्यमाणे न संभवतीति प्रतिपादयन्नाह —
चरमे न निरुद्धे च प्रथमो युज्यते भवः ।
चरमे नानिरुद्धे च प्रथमो युज्यते भवः ॥ १८ ॥
तत्र यदि चरमे भवे निरुद्धे प्रथमो भवो जायते इति परिकल्प्यते, तदा निर्हेतुकः
स्यात् । दहनदग्धबीजादपि अङ्कुरोदयः स्यात् । न चैतदिष्टम् । तस्माच्चरमे निरुद्धे प्रथमो
भवो न युज्यते ॥
इदानीमनिरुद्धेऽपि चरमे भवे प्रथमो भवो न युज्यते । यदि स्यात्, निर्हेतुकः स्यात्,
द्विरूपता च एकस्य सत्त्वस्य स्यात्, अपूर्वसत्त्वप्रादुर्भावश्च, पूर्वस्य च नित्यता स्यात्, अविनष्टे
च बीजे अङ्कुरोदयः स्यात् । न चैतदेवमिष्टमिति । अतः —
चरमे नानिरुद्धे च प्रथमो युज्यते भवः ।
इति स्थितम् ॥ १८ ॥
इदानीं निरुध्यमानेऽपि चरमे भवे प्रथमो भवो यथा नोपपद्यते तथा प्रतिपादयन्नाह —
निरुध्यमाने चरमे प्रथमो यदि जायते ।
निरुध्यमान एकः स्याज्जायमानोऽपरो भवेत् ॥ १९ ॥
तत्र निरुध्यमानो वर्तमानो वर्तमानप्रत्ययान्तवाच्यत्वात्, जायते इत्यपि वर्तमान एवोच्यते
वर्तमानशब्दवाच्यत्वात् । अथवा निरुध्यमानो निरोधक्रियाकारकः । यथापि जायते, असावपि
जनिक्रियाकारकः, तौ च एककालावध्रियमाणौ यौगपद्येनैव स्तः । ततश्च निरुध्यमानः एको भवः
स्यात्, जायमानश्चापर इति यौगपद्येनैव द्वौ भवौ प्राप्नुतः । न चैकस्य युगपद् द्वौ भवौ
संभवतः इत्ययुक्तमेतत् ॥ १९ ॥


१ Mss. गतिवृत्तिलक्षणः for निवृत्ति° which is confirmed by T.


पृष्ठम् १८५ [-२१. २१]

तदेवं यथोक्तेन विचारक्रमेण —
न चेन्निरुध्यमानश्च जायमानश्च युज्यते ।
सार्धं च म्रियते येषु तेषु स्कन्धेषु जायते ॥ २० ॥
चशब्दः समुच्चयार्थः । पृथक्पृथक् चेति एतत्संनिधापयति । यदा एवं यथोदितन्यायेन
निरुद्धे चरमे प्रथमो भवो न संभवति, अनिरुद्धेऽपि चरमे प्रथमो भवो न संभवति, सार्धं
चैकस्मिंश्च काले चरमेन भवेन सह प्रथमो भवो न संभवति, तत् किमिदानीं येषु एव स्कन्धेषु
म्रियते तेषु एव जायते इति स्यात् । येषु स्कन्धेषु स्थितो म्रियते, तेष्वेव जायते इति अत्यन्त-
विरुद्धमेतत् । न हि म्रियमाणो जायते इति दृष्टम् ॥ २० ॥
तत् —
एवं त्रिष्वपि कालेषु न युक्ता
भवदभिमता
भवसंततिः ।
चरमे भवे निरुद्धेऽनिरुद्धे निरुध्यमाने यस्मात् प्रथमो भवो न संभवति, तस्मात् त्रिष्वपि
कालेषु भवसंततिर्नास्ति ।
त्रिषु कालेषु या नास्ति सा कथं भवसंततिः ॥ २१ ॥
या च इदानीं त्रिषु कालेषु नास्ति, कुतः सा अन्येनात्मना भविष्यतीति सर्वथा नास्ति
भवन्मता भवसंततिः । ततश्च यदुक्तम् —
उदयव्ययसंतानः फलहेतोर्भवः स हि ।
इति, तन्न युक्तम् । ततश्च भावाभ्युपगमे सति स एव शाश्वतोच्छेदवादप्रसङ्गो दुर्निवारो भवताम्,
इत्यतो नास्त्येव भावानां स्वभावत उत्पत्तिरिति सिद्धम् । यथोक्तमार्यसमाधिराजभट्टारके —
* * * *
तथा —
बीजस्य सतो यथाङ्कुरो
न च यो बीजु स चैव अङ्कुरो ।
न च अन्यु ततो न चैव त-
देवमनुच्छेद अशाश्वत धर्मता ॥
मुद्रात्प्रतिमुद्र दृश्यते
मुद्रसंक्रान्ति न चोपलभ्यते ।
न च तत्र न चैव सान्यतो
**एवं संस्कार अनुच्छेदाशाश्व

पृष्ठम् १८६

१८६ मध्यमशास्त्रे [ २१.२१-
अत एवोक्तमार्यनागार्जुनपादैः
स्वाध्यायदिपमुद्रादर्पणघोषार्ककान्तबीजाद्यैः ।
स्कन्धप्रतिसंधिरसंक्रमश्च विद्भिद्ववधार्यौ ॥ इति ।
तथा भगवान्—
जायते च्यवते चापि न च जातिर्न च च्युतिः ।
यस्य विजानत एष समाधिर्नास्य दुर्लभः ॥ इति ।
तथा—
सूसुखिता सद ते नर लोके
येहि अचिन्तिय जातिमि धर्माः ।
न च धर्म अधर्म विकल्पो
चित्तपपञ्च विभावित सर्वे ॥
भाव अभाव विभावयि ज्ञानं
सर्वमचिन्तयि सर्वमभूतम् ।
ये पुन चित्तवशानुग बाला-
स्ते दुखिता भवकोटिशतेषु ॥
योऽपि च चिन्तयि शून्यकधर्मान्
सोऽपि कुमार्र्गपपन्नकु बालः ।
अक्षर कीर्तित शून्यक धर्मा-
स्ते च अनक्षर अक्षर उक्ताः ॥
शान्त प्रशान्त य चिन्तयि धर्मान्
सोऽपि च चित्तु न जातु न भूतैः ।
चित्तवितर्कण सर्व पपञ्चाः
सूक्ष्म अचिन्तिय बुध्यथ धर्मान् ॥
इति ॥ २१ ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
संभवविभवपरीक्षा नाम एकविंशतितमं प्रकरणम् ॥
१ The source of this stanza is not known. It is also omitted in T here as
well as in Chapter xxvi.


पृष्ठम् १८७

२२
तथागतपरीक्षा द्वाविंशतितमं प्रकरणम् ।
अत्राह — विद्यत एव भवसंततिः, तथागतसद्भावात् । इह हि भगवता महाकरुणोपाय-
प्रज्ञाद्वयधौरिणा सकलत्रैधातुकाशेषसत्त्वजात्यादिदुःखव्युपशमैकमनसा त्रिभिः कल्पासंख्येयैः सप्तभिर्वा
नैरन्तर्यक्रमेणोध्वच्छता तैस्तैर्निरतिशयैरतिविचित्रैः पुण्यक्रियाप्रारम्भैः सकलजगद्धितोद्यतैकक्रिया-
लक्षणैः प्रियैकपुत्रादप्यधिकतरनिरवशेषजगदनुग्रहत्तत्परेण महाकरुणापरवशेन तत्रतत्रोपपत्त्यायतने
क्षितिसलिलज्वलनपवनसाधारणभैषज्यमहामहीरुहवज्जनानां स्वेच्छात्त उपभोग्यतामात्मानमुपगमयता

[पृष्ठम् १८८]

भवेदिति, तदिहापि योज्यम्,
स बुद्धो यो ह्युपादानमेकत्वं कर्तृकर्मणोः ।
भवेदिति । तथा -
आत्मा स्कन्धा यदि भवेदुदयव्ययभाग्भवेत् ।
[म० शा० - १८.१]
इत्युक्तम्, तदिहापि योज्यम्,
बुद्धः स्कन्धा यदि भवेदुदयव्ययभाग्भवेत् । इति ।
एवं तावत् स्कन्धा न तथागतः ॥ इदानीं नान्यः स्कन्धेभ्यस्तथागत इति । किं
कारणम् ? उक्तं हि-
अन्यश्चेदिन्धनादग्निर्इन्धनादप्युते भवेत् ।
[म० शा० - १०.१]
तथा-
परत्र निरपेक्षत्वात्प्रदीपनहेतुकः ।
पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति ॥ इति,
[म० शा० - १०.२]
तथा इहापि योज्यम्,
बुद्धोऽन्यश्चेदुपादानादुपादानं विना भवेत् ।
तथा-
परत्र निरपेक्षत्वादन्उपादानहेतुकः ।
पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति ॥
तथा-
स्कन्धेभ्योऽन्यो यदि भवेद्भवेत्स्कन्धलक्षणः । इति ।
अन्यत्वाभावाच्च स्कन्धादीनां तथागतस्य च, तथागते स्कन्धा नोपपद्यन्ते ॥
नापि स्कन्धेषु तथागत इति उपपद्यते । उक्तं चैतन्मध्यमकावतारे पक्षद्वयव्याख्यानम् -
स्कन्धेष्वात्मा विद्यते नैव चामी
सन्ति स्कन्धा आत्मनीतीह यस्मात्।
सत्यन्यत्वे स्यादियं कल्पना वै
तच्चान्यत्वं नास्त्यतः कल्पनैषा ॥
[मध्यमकावतार - ६०१४२]
स्कन्धवानपि तथागतो यथा न भवति, तथा तत्रैवोक्तम्-
इष्टो नात्मा रूपवान्नास्ति यस्मा-
दात्मा वत्त्वार्थोपयोगो हि नातः ।


[पृष्ठम् १८९]

भेदे गोमान् रूपवानन्यमेदे
तत्त्वान्यत्वेऽरूपतो नात्मनः स्तः ॥
[मध्यमकावतार - ६०१४३]
तत्त्वान्यत्वपक्षे एव तु पञ्चापि पक्षा अन्तर्गता वस्तुतः । सकायदृष्टिवृत्त्यपेक्षया तु पञ्च
पक्षाः समुपवर्ण्यन्ते आचार्येणेति विज्ञेयम् । यथैवं स्कन्धेषु पञ्चधा विचार्यमाणो नास्ति तथागतः,
स केनान्येन आत्मना भविष्यतीति, सर्वथा न संभवत्येव तथागत इति भावस्वभावादपश्यन्त
आचार्यपादाः प्राहुः - कतमोऽत्र तथागत इति । नास्त्येव स कश्चित् सकलत्रैलोक्यवस्तुविपश्विद्भाव-
स्वभाव इत्यभिप्रायः । तथागताभावाच्च भवसंततिरपि द्रव्यैसंततिर्नास्तीति सिद्धम् ॥ १ ॥
अत्रैके वदन्ति - नैव हि स्कन्धास्तथागत इति ब्रूमः, यथोक्तदोषप्रसङ्गात् । नापि
स्कन्धव्यतिरिक्तः । नापि तथागते अनास्रवान् स्कन्धान् वर्णयामः, हिमवति पर्वते इव तरुखण्डम् ।
नापि स्कन्धेषु, तरुखण्डे इव सिंहम् । नापि स्कन्धवन्तं वर्णयामः, लक्षणवन्तमिव चक्रवर्तिनम्,
एकत्वान्यत्वानभ्युपगमादेव । किं तर्हि स्कन्धानमलानूपादाय तत्त्वान्यत्वाद्यवाच्यं तथागतं व्यव-
स्थापयामः । तस्मान्नायं विधिरस्माकं बाधक इति । अत्रोच्यते -
बुद्धः स्कन्धानुपादाय यदि नास्ति स्वभावतः ।
स्वभावतश्च यो नास्ति कुतः स परभावतः ॥ २ ॥
यदि हि बुद्धो भगवानमलान् स्कन्धानुपादाय तत्त्वान्यत्वेनावक्तव्यः प्रज्ञप्यते, न
तर्हि स्वभावतः सोऽस्तीति व्यक्तमापद्यते, प्रतिबिम्बवदुपादाय प्रज्ञायमानत्वात् । यश्च इदानीं
स्वभावतो नास्ति आत्मीयेन स्वरूपेण, स कथमविद्यमानः स्वभावतः स्कन्धानुपादाय परभावतो
भविष्यतीति ? न हि अविद्यमानो वन्ध्यातनयः परभावमपेक्ष्य भवतीति युज्यते ॥ २ ॥
अथ स्यात्-यथैव हि प्रतिबिम्बकं स्वभावतोऽसंविद्यमानमपि परभावं मुखादर्शादिकमपेक्ष्य
भवति, एवं च तथागतोऽपि स्वभावतोऽसंविद्यमानः अनास्रवान् पञ्च स्कन्धानुपादाय परभावतो
भविष्यतीति, एवमपि-
प्रतीत्य परभावं यः सोऽनात्मेत्युपपद्यते ।
यश्चानात्मा स च कथं भविष्यति तथागतः ॥ ३ ॥
यदि प्रतिबिम्बवत् परभावं प्रतीत्य तथागतः इष्यते, एवं सति प्रतिबिम्बवदेव स तथा-
गतो

१९० मध्यमशास्त्रे [ २२. ४-
यदि नास्ति स्वभावश्च परभावः कथं भवेत्।
यदा चैवं स्वभावपरभावौ न स्तः, तदा
स्वभावपरभावाभ्यामृते कः स तथागतः ॥४॥
पदार्थो हि भवन् स्वभावो भवेत्, परभावो वा । ताभ्यां तु विना कोऽसौ अपरः
पदार्थोऽस्ति, यस्तथागत इति व्यवस्थाप्यते ? तस्मान्नास्ति स्वभावतस्तथागत इति ॥ ४ ॥
B 438 किं चान्यत् -
स्कन्धान् यद्यनुपादाय भवेत्कश्चित्तथागतः ।
स इदानीमुपादाद्युपादाय ततो भवेत् ॥ ५॥
यदि मन्यसे – स्कन्धेभ्यस्तस्यान्यत्वेन अवक्तव्यस्तथागतः स्कन्धानुपादाय प्रज्ञप्यते इति,
10 तत् कदा युज्यते ? यदि स्कन्धाननुपादाय अगृहीत्वा पूर्वं कश्चित्तथागतो नाम भवेत्, स
स्कन्धानुपादद्यात् । व्यतिरिक्त एव हि पूर्वसिद्धो धनाद् देवदत्तो धनस्योपादानं कुरुते, तद्वदेतान्
स्कन्धाननुपादाय यदि कश्चित् तथागतः स्यात्, स इदानीं स्कन्धानुपादद्यात्, ततश्च तान्
स्कन्धानुपादाय ततो भवेत् ॥ ५ ॥
विचार्यमाणस्तु सर्वथा -
15 स्कन्धांश्चाप्यनुपादाय नास्ति कश्चित्तथागतः ।
निर्हेतुकत्वप्रसङ्गात् ।
यश्च नास्त्यनुपादाय स उपादास्यते कथम् ॥ ६ ॥
अविद्यमानत्वादित्यभिप्रायः । यदा चैवं न किंचिदुपादत्ते, तदा स्कन्धानुपादाय
तथागतो नाम भविष्यतीति नोपपद्यते ॥ ६ ॥
20 यदा चैवं तथागतः उपादानात्पूर्वमविद्यमानत्वात् न किंचिदुपादत्ते, तदा तदुपादानस्यापि
केनचिदपि अनुपादीयमानस्य उपादानत्वं न संभवत्येवेति प्रतिपादयन्नाह –
B 439 न भवत्यनुपादात्तमुपादानं च किंचन ।
यदा चैवमुपादानं केनचिदप्यनुपादीयमानत्वादुपादानं न भवतीति, तदा उपादानाभावा-
दुपादातापि कश्चिन्नास्तीति प्रतिपादयन्नाह –
25 न चास्ति निरुपादानः कथंचन तथागतः ॥ ७॥
इति ॥ ७ ॥
तदेवं यथोपादितन्यायेन—
तत्त्वान्यत्वेन यो नास्ति मृग्यमाणश्च पञ्चधा ।
उपादानेन स कथं प्रज्ञप्येत तथागतः ॥ ८॥
30 यो हि तथागतो विचार्यमाणो मृग्यमाणः तत्त्वेन स्कन्धेभ्य एकत्वेन नास्ति, अन्यत्वेन
स्कन्धेभ्यः पृथक्त्वेन च यो नास्ति, एवं तत्त्वान्यत्वास्तत्वादाधाराधेयतद्वत्पक्षपञ्चप्रकारैर्मृग्यमाणो
१ Mss. अनुपादातं for अनुपादत्तं. २ P प्रज्ञायते for प्रज्ञप्येत.

[Page 191]
-२२. १०] तथागतपरीक्षा द्वाविंशतितमं प्रकरणम् । १९१
यो नास्ति, स कथमत्यन्तोऽसंविद्यमानस्तथागतः उपादानेन शक्यः प्रज्ञपयितुम् ? इत्यतोऽपि
नास्ति तथागतो नाम स्वभावतः ॥ ८ ॥
न केवलमनेन विचारेण तथागत एव नास्ति,
यदपीदमुपादानं तत्स्वभावान्न विद्यते ।
यदपि इदमुपादानं रूपवेदनासंज्ञासंस्कारविज्ञानाख्यं स्कन्धपञ्चकम्, तदपि स्वभावेन न 5 B 440
विद्यते, प्रतीत्यसमुत्पन्नत्वात्, स्कन्धपरीक्षायां च [ म० शा० ४ ] विस्तरेण प्रतिषिद्धत्वात् ॥
अथापि स्यात् - यद्यपि स्वभावतः उपादानं नास्ति, तथापि हेतुप्रत्ययात्मकात् परभावा-
द्भविष्यतीति, तदपि नोपपद्यते इति प्रतिपादयन्नाह-
स्वभावतश्च यन्नास्ति कुतस्तत्परभावतः ॥ ९ ॥
न हि वन्ध्यासूनुः स्वभावतोऽसंविद्यमानः शक्यः परभावेन प्रज्ञपयितुमिति । अतः 10
उपादानमपि नास्ति ॥
अथवा-
यदपीदमुपादानं तत्स्वभावान्न विद्यते ।
उपादातुसापेक्षत्वादुपादातुर्निरपेक्षस्य च उपादानत्वाभावान्नास्ति स्वभावसिद्धमुपादानम् ।
अथ यद्यपि उपादातुर्निरपेक्षमुपादानं स्वभावसिद्धं न संभवति, एवं तदुपादात्रपेक्षमेव भवत्विति । 15
उच्यते । एवमपि -
स्वभावतश्च यन्नास्ति कुतस्तत्परभावतः ॥
स्वभावतो यदुपादानं न सिद्धम्, तदविद्यमानस्वभावं कथमुपादातुः परभावतो भविष्य-
तीति । तस्मादुपादानमपि नास्तीति ॥ ९ ॥
इदानीं यथाप्रसाधितमेवार्थमुपदर्शयन्नाह-
20 एवं शून्यमुपादानमुपादाता च सर्वशः ।
सर्वेण प्रकारेण विचार्यमाणं शून्यमुपादानं निःस्वभावम्, उपादाता च शून्यः स्वभाव-
रहितः । तेनेदानीमुपादानेन -
प्रज्ञप्यते च शून्येन कथं शून्यस्तथागतः ॥ १० ॥ B 441
नैव तत्संभवति यदविद्यमानेन अविद्यमानस्य तथागतस्य प्रज्ञप्तिः स्यादिति । तस्मात् 25
स्कन्धानुपादाय तथागतः प्रज्ञप्यते इति नोपपद्यते ॥
अत्राहुः – अहो बत हता प्रत्याशा अस्माकम्, ये हि नाम वयं स्वविकल्पविकल्पिता-
तिकठिनकुदर्शनमोहुलालताजालावबद्धेषु निर्वाणपुरम्यविपरीतमार्गमगनपरिश्रेष्ठेषु अनतिक्रान्त-
संसाराटवीकान्तारदुर्गेषु कणभक्षाक्षपाददिगम्बरजैमिनिनैयायिकप्रभृतिषु तीर्थंकरेपु अविपरीत-
स्वर्गापवर्गमार्गोपदेशाभिमानिषु स्पृहां परित्यज्य निरवशेषान्यतीर्थ्यमतान्धकारोपघातकं स्वर्गाप- 30
वर्गानुगम्यविपरीतमार्गसंप्रकाशकं सद्धर्मदेशनातिपटुतरकिरणप्रतारेणेशाशामुखं विविधविनेय-
१ Mss. ०मारुता०; Dhammapada reads मालुवा.

१९२ मध्यमशास्त्रे [२२. १०-
जनमतिमलकल्लुलविबोधनतत्परं यथावदवस्थितपदार्थतत्त्वार्थभाजनानाममलैकचक्षुर्भूतं सकल-
जगच्छरणभूतमद्वितीयं दशबलवैशारद्यावेणिकबुद्धधर्मामलमण्डलं महोयानमहानयसारथिवरं सप्त-
बोध्यङ्गोत्तुङ्गतुरंगपदात्तियोजितं सकलत्रिभुवनजनजातिजरामरणसंसारकान्तारसरिदुच्छोषणतत्परं
चतुरसममारारातिसमरशरसंप्रातविजयिनं संकलजगदसद्ग्राहराहुग्रहविग्रहोदग्रहानिरासिनं तथागत-
सवितारमज्ञानघनगहनान्धकारनिराकरणाय मोक्षार्थिनोऽनुत्तरसम्यक्संबोध्यर्थिनः शरणं प्रतिपन्नाः,
तस्य च त्वया -
एवं शून्यमुपादानमुपादाता च सर्वशः ।
प्रज्ञप्यते च शून्येन कथं शून्यस्तथागतः ॥
इत्यादिना स्वभावतोऽसत्त्वं ब्रुवता भवता अस्माकं मोक्षप्रत्याशा अनुत्तरसम्यक्संबोध्यागामा-
[L1

पृष्ठम् १९४

B 446 रथचक्रवद् भ्रमति सर्वजगत्
तिर्यक्षु प्रेतनिरयेषु गताः।
मूढा अदेशिक अनायगताः
तेषां प्रदर्शयसि मार्गवरम् ॥ इति ।
सर्वास्वेताः कल्पना निष्प्रपञ्चे तथागते न संभवन्ति ॥ ११ ॥
न च केवलं शून्यत्वादिकमेव चतुष्टयं तथागते न संभवति, अपि च —
शाश्वताशाश्वताद्या कुतः शान्ते चतुष्टयम् ।
अन्तानन्तादि चाप्यत्र कुन्तः शान्ते चतुष्टयम् ॥ १२ ॥
इह चतुर्दश अव्याकृतवस्तूनि भगवता निर्दिष्टानि । तद्यथा—शाश्वतो लोकः, अशाश्वतो
लोकः, शाश्वतश्च अशाश्वतश्च लोकः, नैव शाश्वतो नाशाश्वतश्च लोकः, इति चतुष्टयम् ।
अन्तवान् लोकः, अनन्तवान् लोकः, अन्तवांश्च अनन्तवांश्च लोकः, नैव अन्तवान् न अनन्त-
वांश्च लोकः, इति द्वितीयम् । भवति तथागतः परं मरणात्, न भवति तथागतः परं मरणात्,
भवति च न भवति च तथागतः परं मरणात्, नैव भवति न न भवति च तथागतः परं
मरणात्, इति तृतीयम् । स जीवस्तच्छरीरम्, अन्यो जीवोऽन्यच्छरीरम्, इति । तान्येतानि
चतुर्दश वस्तूनि अव्याकृतत्वादव्याकृतवस्तूनि इत्युच्यन्ते । तत्र यथोपवर्णितेन न्यायेन यथा
शून्यत्वादिकं चतुष्टयं प्रकृत्या शान्ते निःस्वभावे तथागते न संभवति, एवं शाश्वताशाश्वतादिक-
मपि चतुष्टयमत्र न संभवति । असंभवदेव च चतुष्टयं वन्ध्यापुत्रस्य श्यामगौरत्वादिवत् न
B 447 व्याकृतं भगवता लोकस्य । यथा च एतच्चतुष्टयं तथागते न संभवति, एवमन्तानन्तादिकमपि
शान्ते तथागते न संभवति ॥ १२ ॥
इदानीं भवति तथागतः परं मरणात् इत्यादिकस्यापि कल्पनाचतुष्टयस्य प्रवृत्त्यसंभव-
मुद्भावयन्नाह —
येन ग्राहो गृहीतस्तु घनोऽस्तीति तथागतः ।
नास्तीति स विकल्पयन्निर्वृतस्यापि कल्पयेत् ॥ १३ ॥
येन हि घनेतरॊ महताभिनिवेशेन अस्ति तथागतः इति ग्राहो गृहीतः, परिकल्प
उत्पादितः, सः नियतं परिनिर्वृते तथागते, न भवति तथागतः परं मरणात्, मरणादुत्तरकालं
न भवति, उच्छिन्नस्तथागतः, न संविद्यते, इति परिकल्पयेत् । तस्य एवं विकल्पयतः स्याद्
दृष्टिकृतम् ॥ १३ ॥
यस्य तु न कस्यांचिद्व्यवस्थायां स्वभावशून्यत्वात् तथागतस्य अस्तित्वनास्तित्वम्,
तस्य पक्षे —
स्वभावतश्च शून्येऽस्मिंश्चिन्ता नैवोपपद्यते ।
परं निरोधाद्भवति बुद्धो न भवतीति वा ॥ १४ ॥
आकाशे चित्ररूपकल्पादिवत् कल्पना नास्तीत्यभिप्रायः ॥ १४ ॥


^१ T om. घनतरो.


पृष्ठम् १९५

तदेवं प्रकृतिशान्ते निःस्वभावे तथागते सर्वप्रपञ्चातीते मन्दबुद्धितया शाश्वताशाश्वता-
दिकया नित्यानित्यास्तिनास्तिशून्याशून्यसर्वज्ञासर्वज्ञादिकया कल्पनया — B 448
प्रपञ्चयन्ति ये बुद्धं प्रपञ्चातीतमव्ययम् ।
ते प्रपञ्चहताः सर्वे न पश्यन्ति तथागतम् ॥ १५ ॥
वस्तुनिबन्धना हि प्रपञ्चाः स्युः, अवस्तुकश्च तथागतः। कुतः प्रपञ्चानां प्रवृत्तिसंभव इति ? ५
अतः प्रपञ्चातीतस्तथागतः। अनुत्पादस्वभावत्वाच्च स्वभावान्तरागमनादव्ययः। तमित्थंविधं तथागतं
स्वोत्प्रेक्षितमिथ्यापरिकल्पमलमलिनमानसतया विविधैरद्भुतैः परिकल्पविशेषैः ये बुद्धं भगवन्तं
प्रपञ्चयन्ति, ते स्वकैरैव प्रपञ्चैर्हताः सन्तः तथागतगुणसमुद्रैरत्यन्तपरोक्षवर्तिनो भवन्ति । ततश्च
शत्रुभूताः एतस्मिन् प्रवचने न पश्यन्ति तथागतं जात्यन्धा इवादित्यम् । अत एवाह भगवान्— १०
ये मां रूपेण अद्राक्षुर्यै मां घोषेण अन्वयुः ।
मिथ्याप्रहाणप्रसृता न मां द्रक्ष्यन्ति ते जनाः ॥
धर्मतो बुद्धा द्रष्टव्या धर्मकाया हि नायकाः ।
धर्मता चाप्यविज्ञेया न सा शक्या विजानितुम् ॥
[ वज्रच्छेदिका-४३ ] १५
इति ॥ १५ ॥
तदत्र तथागतपरीक्षायां सत्त्वलोकः सकलः ससुरासुरनरादिः परीक्षितः । यथा चायं
सत्त्वलोको निःस्वभावः, तथा भाजनलोकस्यापि वायुमण्डलादेरकनिष्ठवितानभवनपर्यन्तस्य
निःस्वाभाव्यमुद्भावयन्नाह—
तथागतो यत्स्वभावस्तत्स्वभावमिदं जगत् ।
इदं जगदिति अयं भाजनलोक इत्यर्थः । किंस्वभावस्तथागतः पुनरित्याह— २० B 449
तथागतो निःस्वभावो निःस्वभावमिदं जगत् ॥ १६ ॥
इति । यथा च जगतो निःस्वाभाव्यम्, तथा प्रत्ययपरीक्षादिभिः प्रतिपादितम् । अत
एवोक्तं सूत्रे —
अनुपादधर्मः सततं तथागतः २५
सर्वे च धर्माः सुगतेन सादृशाः ।
निमित्तग्राहेण तु बालबुद्धयः
असत्सु धर्मेषु चरन्ति लोके ॥
तथागतो हि प्रतिबिम्बभूतः
कुशलस्य धर्मस्य अनास्रवस्य ।
नैवात्र तथता न तथागतोऽस्ति ३०
बिम्बं च संदृश्यति सर्व लोके ॥ इति ।

[पृष्ठम् १९६]

१९६ मध्यमकशास्त्रे [ २२.१६-
उक्तं च भगवतां प्रज्ञापारमितायाम्—
अथ खलु ते देवपुत्राः आयुष्मन्तं सुभूतिं स्थविरमेतदवोचन्— किं पुनरार्यसुभूते
मायोपमास्ते सत्त्वाः, न ते माया ? एवमुक्ते आयुष्मान् सुभूतिस्तान् देवपुत्रानेतदवोचत्—मायो-
पमास्ते देवपुत्राः सत्त्वाः, स्वप्नोपमास्ते देवपुत्राः सत्त्वाः । इति हि माया च सत्त्वाश्च अद्वयमेत-
[B 450] ५ दद्वैधीकारम् । इति हि स्वप्नश्च सत्त्वाश्च अद्वयमेतदद्वैधीकारम् । सर्वधर्मा अपि देवपुत्रा मायोपमाः
स्वप्नोपमाः । स्रोतआपन्नोऽपि मायोपमः स्वप्नोपमः । स्रोतआपत्तिफलमपि मायोपमं स्वप्नोपमम् ।
एवं सकृदागाम्यपि सकृदागामिफलमपि । अनागाम्यपि अनागामिफलमपि । अर्हन्नपि मायोपमः
स्वप्नोपमः । अर्हत्त्वफलमपि मायोपमं स्वप्नोपमम् । प्रत्येकबुद्धोऽपि मायोपमः स्वप्नोपमः । प्रत्येक-
बुद्धत्वमपि मायोपमं स्वप्नोपमम् । सम्यक्संबुद्धोऽपि मायोपमः स्वप्नोपमः इति । सम्यक्संबुद्धत्वमपि
10 मायोपमं स्वप्नोपममिति वदामि ॥
अथ खलु देवपुत्रा आयुष्मन्तं सुभूतिमेतदवोचन् — सम्यक्संबुद्धोऽपि मायोपमः
स्वप्नोपम इति, सम्यक्संबुद्धत्वमपि मायोपमं स्वप्नोपममिति आर्यसुभूते वदसि ? सुभूतिराह —
निर्वाणमपि देवपुत्रा मायोपमं स्वप्नोपममिति वदामि, किं पुनरन्यं धर्मम् ? देवपुत्रा आहुः—
निर्वाणमप्यार्यसुभूते मायोपमं स्वप्नोपममिति वदसि ? सुभूतिराह — यद्यपि देवपुत्रा निर्वाणादप्यन्यः
15 कश्चिद्धर्मो विशिष्टतरः स्यात्, तमप्यहं मायोपमं स्वप्नोपममिति वदेयम् । इति हि माया च
निर्वाणं च अद्वयमेतदद्वैधीकारमिति ॥
[ अष्टसाहस्रिका - ३९ ]
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
तथागतपरीक्षा नाम द्वाविंशतितमं प्रकरणम् ॥


[पृष्ठम् १९७]

२३
विपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम् ।
अत्राह — विद्यत एव भवसंततिः, तत्कारणसद्भावात् । इह हि क्लेशेभ्यः कर्म प्रवर्तते । [B 451]
कर्मक्लेशहेतुका जन्ममरणपरंपरा उपजायते । सा च भवसंततिर्व्यपदिश्यते । तस्याश्च प्रधानं
कारणं क्लेशाः, प्रहीणक्लेशानां भवसंततेरभावात् । ते च रागादयः क्लेशाः सन्ति । तस्मात्
कार्यभूतापि जन्ममरणपरंपरा अविच्छेदप्रबन्धेन भवसंततिरपि भविष्यतीति । उच्यते । स्याद् 5
भवसंततिः, यदि तद्धेतुभूताः क्लेशाः स्युः । न तु सन्ति । कथं कृत्वा ? इह भगवद्भिर्बुद्धैः
सकलत्रिभुवनजनसंक्लेशशत्रुविध्वंसिभिर्धुतमारारितिमिरपराजयैः —
संकल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते ।
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि ॥ १ ॥
संकल्पो वितर्कः । संकल्पात् प्रभवतीति संकल्पप्रभवः । 10
काम जानामि ते मूलं संकल्पात्किल जायसे ।
न त्वां संकल्पयिष्यामि ततो मे न भविष्यसि ॥
[ महावस्तु - ३.१९० ]
इति गाथाभिधानात्
संकल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते । [B 452]
एतन्मूलकत्वादन्येषां क्लेशानां मुख्यत्वादेषामेवोपादानं त्रयाणाम् । एते च त्रयः क्लेशाः— 15
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि ।
तत्र हि शुभमाकारं प्रतीत्य राग उत्पद्यते, अशुभं प्रतीत्य द्वेषः, विपर्यासान् प्रतीत्य
मोह उत्पद्यते । संकल्पस्तु एषां त्रयाणामपि साधारणकारणमुत्पत्तौ । कथं पुनर्मोहः संकल्पप्रभवः ?
उच्यते । उक्तं हि प्रतीत्यसमुत्पादे भगवता —
अविद्यापि भिक्षवः सहेतुका सप्रत्यया सनिदाना । कश्च भिक्षवः अविद्याया हेतुः ? 20
अयोनिशो भिक्षवो मनस्कारोऽविद्याया हेतुः । आविलो मोहजो मनस्कारो भिक्षवोऽविद्याया हेतुः ॥
इत्यतः अविद्या संकल्पप्रभवा भवति ॥ १ ॥
ततश्च— [B 453]
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये ।
ते स्वभावान्न विद्यन्ते तस्मात् क्लेशा न तत्त्वतः ॥ २ ॥
इति । यदि रागादयः स्वभावसिद्धाः स्युः, नैव ते शुभाशुभविपर्यासान् प्रतीत्य 25
संभवेयुः, स्वभावस्य अकृत्रिमत्वात् परानपेक्षत्वाच्च । भवन्ति च शुभाशुभविपर्यासान् प्रतीत्य,
तस्मान्निःस्वभावा एव ते । तत्त्वतो न विद्यन्ते, परमार्थतः स्वभावतो न विद्यन्ते इत्यर्थः ॥ २ ॥

१ T om. from सकल° upto पराजयैः.

१९८ मध्यमकशास्त्रे [ २३.४-
अपि च-
आत्मनोऽस्तित्वनास्तित्वे न कथञ्चिच्च सिध्यतः ।
तं विनास्तित्वनास्तित्वे क्लेशानां सिध्यतः कथम् ॥ ३ ॥
आत्मनो यथा अस्तित्वनास्तित्वे न स्तः, तथा उक्तं विस्तरेण । ततश्च - तदाश्रितस्य
धर्मस्य कुतोऽस्तित्वनास्तित्वे भविष्यतः ? ॥ ३ ॥
अथ स्यात् - यदि अस्तित्वनास्तित्वे आत्मनो न स्तः, तदा किमत्र क्लेशानामायातम्,
यतस्तेषामपि अस्तित्वनास्तित्वे न स्तः इति ? उच्यते -
कस्यचिद्धि भवन्तीमे क्लेशाः स च न सिध्यति ।
कश्चिदाहो विना कंचित्सन्ति क्लेशा न कस्यचित् ॥ ४ ॥
इह अमी रागादयः कुड्यं चित्रवत् फलं पकतादिवच्च उत्पत्तौ आश्रयमपेक्षन्ते । ततश्च
कस्यचिदेते भवन्ति, न विना कंचिदाश्रयम् । स च आश्रयः परिकल्प्यमानः आत्मा वा चित्तं

[पृष्ठम् २००]

केवला इति परिकल्पितमात्रा निःस्वभावा इत्यर्थः । यदि निःस्वभावाः, कथं तर्हि
उपलभ्यन्ते इति ? उच्यते —
गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः ॥ ८ ॥
इति एते उपलभ्यन्ते ॥ ८ ॥
यथा गन्धर्वनगरादिप्रख्या एते केवलं विपर्यासादुपलभ्यन्ते, तदा —
अशुभं वा शुभं वापि कुतस्तेषु भविष्यति ।
मायापुरुषकल्पेषु प्रतिविम्बसमेषु च ॥ ९ ॥
तदनेन मिथ्याश्रयसमुत्पन्नत्वाच्छुभाशुभयोरपि निमित्तयोर्मृषात्वमेव भवति । यथोक्तम् —
अहंकारोद्भवः स्कन्धाः सोऽहंकारोऽनृतोऽर्थतः ।
बीजं यस्यानृतं तस्य प्ररोहः सत्यतः कुतः ॥
स्कन्धानसत्यान् दृष्ट्वैषमहंकारः प्रहीयते ।
अहंकारप्रहाणाच्च न पुनः स्कन्धसंभवः ॥
इति ॥ ९ ॥
न च केवलमाश्रयमिथ्यात्वे शुभाशुभयोर्निमित्तयोर्मिथ्यात्वम्, अपि च अन्याप्युपपत्त्या
अनयोर्मिथ्यात्वमिति प्रतिपादयन्नाह —
अनपेक्ष्य शुभं नास्त्यशुभं प्रज्ञपयेमहि ।
यत्प्रतीत्य शुभं तस्माच्छुभं नैवोपपद्यते ॥ १० ॥
इह यदि शुभं नाम किंचित् स्यात्, नियतं तदशुभमपेक्ष्य भवेत्, पारावारवत्,
बीजाङ्कुरवत्, ह्रस्वदीर्घवद्वा, शुभस्य संबन्ध्यन्तरपदार्थापेक्षत्वात् । तच्चाप्यपेक्षणीयमशुभं शुभेन
विना नास्ति । [ अनपेक्ष्य शुभं नास्त्यशुभं ] शुभं निरपेक्ष्याशुभं नास्तीत्यभिप्रायः । यदशुभं
प्रतीत्य यदशुभमपेक्ष्य शुभं प्रज्ञपयेमहि व्यवस्थापयेमहि । यच्छब्देन अनन्तरस्याशुभस्य परामर्शः ।
प्रज्ञपयेमहीत्यनेन उत्तरस्य शुभस्य संबन्धः । यतश्च एवं शुभस्य प्रज्ञप्तौ संबन्ध्यन्तरमपेक्षणीय-
मशुभाख्यं पदार्थान्तरं नास्ति, तस्माच्छुभं नैवोपपद्यते ह्रस्वासंभवादिव दीर्घम्, पारासंभवादिव
अवारमित्यभिप्रायः ॥ १० ॥
इदानीमशुभमपि यथा न संभवति, तथा प्रतिपादयन्नाह —
अनपेक्ष्याशुभं नास्ति शुभं प्रज्ञपयेमहि ।
यत्प्रतीत्याशुभं तस्मादशुभं नैव विद्यते ॥ ११ ॥
यदि हि अशुभं नाम किंचित् स्यात्, नियतमेव तच्छुभमपेक्ष्य भवेत्, पारावारवत्,
ह्रस्वदीर्घवद्वा, अशुभस्य संबन्ध्यन्तरपदार्थापेक्षत्वात् । तच्चाप्यपेक्षणीयं शुभमशुभेन विना
नास्ति, अनपेक्ष्याशुभं नास्ति शुभम् । अशुभं निरपेक्ष्य शुभं न संभवतीत्यभिप्रायः । यच्छुभं
प्रतीत्य यच्छुभमपेक्ष्य अशुभं प्रज्ञपयेमहि, अशुभं व्यवस्थापयेमहि । अत्रापि यच्छब्देन अनन्तरस्य


[पृष्ठम् २०१]

शुभस्य परामर्शः । प्रज्ञपयेमहीत्यनेन च उत्तरस्याशुभस्य संबन्धः । यतश्चैवमशुभस्य प्रज्ञप्तौ
संबन्ध्यन्तरमपेक्षणीयं शुभाख्यं पदार्थान्तरं नास्ति, तस्मादशुभं नैव विद्यते ॥ ११ ॥
यतश्चैवं शुभाशुभयोरसंभवः, अतः —
अविद्यमाने च शुभे कुतो रागो भविष्यति ।
अशुभेऽविद्यमाने च कुतो द्वेषो भविष्यति ॥ १२ ॥
शुभाशुभनिमित्तकयो रागद्वेषयोः शुभाशुभनिमित्ताभावे सति निर्हेतुकत्वान्नास्ति संभव
इत्यभिप्रायः ॥ १२ ॥
तदेवं शुभाशुभनिमित्ताभावेन रागद्वेषयोरभावमुपपाद्य विपर्यासस्वभावाभावप्रतिपादनेन
मोहस्याप्यधुना स्वभावाभावं प्रतिपादयन्नाह —
अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः ।
नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः ॥ १३ ॥
इह चत्वारो विपर्यासा उच्यन्ते । तद्यथा — अनित्ये प्रतिक्षणविनाशिनि स्कन्धपञ्चके
यो नित्यमिति ग्राहः, स विपर्यासः । तथा —
अनित्यस्य ध्रुवा पीडा पीडा यस्य न तत्सुखम् ।
तस्मादनित्यं यत्सर्वं दुःखं तदिति जायते ॥
इत्यमुना न्यायेन यदनित्यं तद्दुःखम्, सर्वसंस्काराश्चानित्याः, तस्माद्दुःखात्मके स्कन्धपञ्चके
यः सुखमिति विपरीतो ग्राहः, सोऽपरो विपर्यासः । तथा —
शुक्रशोणितसंपर्कबीजं विण्मूत्रवर्धितम् ।
अमेध्यरूपमाजानन् रज्यसेऽत्र कयेच्छया ॥
अमेध्यपुञ्जप्रच्छन्ने त्वक्लेदार्द्रेण चर्मणा ।
यः शयीत स नारीणां शयीत जघनोदरे ॥ इत्यादि ।
एवमिदं शरीरं सर्वात्मना सततमशुचिस्वभावम् । तत्र यो मोहाच्छुचित्वेन ग्राहोऽभिनिवेशः,
स विपर्यासः । तथा पञ्चस्कन्धकमात्मलक्षणविलक्षणमस्थिरत्वादुदयव्ययधर्मित्वाच्च निरात्मक-
मात्मस्वभावशून्यम्, तस्मिन् य आत्मग्राहोऽभिनिवेशः अनात्मनि आत्माभिनिवेशः, स विपर्यासः ।
इत्येते चत्वारो विपर्यासाः संमोहस्य हेतुभूताः ॥
अत्रेदानीं विचार्यते — यदि नित्यत्वं नित्यदर्शनं स्वभावशून्येषु नित्यग्राहो विपर्यास
इत्येवं व्यवस्थाप्यते, ननु च स्वभावशून्येषु स्कन्धेषु अनित्यत्वमपि नास्ति, इति
नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः ।
अनित्यत्वं हि विपरीतमपेक्ष्य नित्यत्वं विपर्यास इति व्यवस्थाप्यते । न च अनित्यत्वं विद्यते
शून्ये । यदा अनित्यत्वस्याभावः, तदा कुतस्तद्विरोधि नित्यत्वं नित्यदर्शनंविपर्यासो भविष्यतीति भावः ।


पादटिप्पणी (Footnotes)

[पृष्ठम् २००]
१ T °केशादिकं for केशमशकमाक्षिकाद्विचन्द्रादिकं. २ T om. this stanza.

[पृष्ठम् २०१]
१ T om. this stanza. २ T om. नित्यदर्शनं.
म. २६

Here is the complete and accurate transcription of the two pages.

Left Page

२०२ मध्यमकशास्त्रे [२३. १४-
तस्मान्नास्ति विपर्यासः । यथा च अनित्यत्वं शून्ये न संभवति भावस्वभावरहिते सत्स्वभावेन
अनुत्पन्ने, एवं दुःखत्वमपि न संभवति, अशुचित्वमपि नास्ति । अनात्मकत्वमपि नास्ति ।
यदा च स्वभावशून्यत्वाद्दुःखादिकं नास्ति, तदा कुतस्तद्विपक्षभूता नित्यसुखशुच्यात्मविपर्यासा
भविष्यन्ति ? तस्मात् सन्ति विपर्यासाः स्वरूपतः । तदभावे कुतो भविष्यत्यविद्या ? हेतुभावात् ।
B 462 यथोक्तं भगवता —
अविधया नैव कदाचि विद्यते
अविद्यत प्रत्ययसंभवश्च ।
अविद्यमानेयमविद्य लोके
तस्मान्मया उक्त अविध एषा ॥
10 तथा —
कथं भगवन् मोहो धारणीपदम् ? भगवानाह — अत्यन्तमुक्तो हि मञ्जुश्रीः मोहः,
तेनोच्यते मोहः ।
इत्यादिना विपर्यय इति व्यवस्थाप्यते ॥ १३ ॥
ननु एवं सति स्वभावेन अविद्यमाने पदार्थे अनित्यमित्यपि ग्राहो न संभवति इति
15 असावपि कस्मान्न विपर्यास इति व्यवस्थाप्यते इति प्रतिपादयन्नाह --
अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः ।
अनित्यमित्यपि ग्राहः शून्ये किं न विपर्ययः ॥ १४ ॥
यदा च उभयस्यापि वैपरीत्यं नित्यस्य अनित्यस्य च, तदा तद्व्यतिरिक्तं तृतीयमपरं
नास्ति यन्न विपर्ययः स्यात् । यदा च अविपर्यासो नास्ति, तदा किमपेक्षो विपर्यासः स्यादिति ।
20 तस्मादमुनापि न्यायेन नास्ति विपर्ययः । तस्याभावाच्च नास्त्यविद्या स्वरूपतः । यथा च अनित्ये
नित्यमित्येवं ग्राहो विपर्यासो न संभवति, एवं शेषविपर्यासासम्भवेऽपि योज्यम् । अत एवोक्तं
भगवता आर्यदृढाशयपरिपृच्छायाम् —
B 463 भगवानाह — किमेतत् कुलपुत्र तस्य भवति यो मार्गेण निःसरणं पर्येषते ? न कुलपुत्र
तथागतेन रञ्जनीयान् धर्मान् परिवर्ज्य रागप्रहाणं प्रज्ञप्तम्, एवं न दोषणीयान् मोहनीयान्
25 धर्मान् परिवर्ज्य तथागतेन दोषमोहप्रहाणं प्रज्ञप्तम् । तत् कस्माद्धेतोः ? न कुलपुत्र तथागताः
कस्यचिद्धर्मस्य उत्सर्ग्याय वा प्रतिलम्भाय वा धर्मं देशयन्ति न परिज्ञायै न प्रहाणाय न
साक्षात्क्रियायै नाभिसमयाय न संसारचरणतायै न निर्वाणगमनतायै नोत्क्षेपाय न प्रभेदाय । न हि
कुलपुत्र द्वयप्रभाविता तथागतधर्मता । तत्र ये द्वये चरन्ति, न ते सम्यक्प्रयुक्ताः । मिथ्याप्रयुक्तास्ते
वक्तव्याः । कतमच्च कुलपुत्र द्वयम् ? अहं रागं प्रहास्यामीति द्वयमेतत् । अहं द्वेषं प्रहास्यामीति
30 द्वयमेतत् । अहं मोहं प्रहास्यामीति द्वयमेतत् । ये एवंप्रयुक्ताः, न ते सम्यक्प्रयुक्ताः ।
मिथ्याप्रयुक्तास्ते वेदितव्याः ॥


Right Page

-२३. १५] विपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम्। २०३
तथापि नाम कुलपुत्र कश्चिदेव पुरुषो मायाकारनाटके प्रत्युपस्थिते मायाकार-
निर्मितां स्त्रियं दृष्ट्वा रागचित्तमुत्पादयेत् । स रागपरीतचित्तः पश्चाद्दारभयेन उत्थायासना-
दपक्रामेत् । सोऽपक्रम्य तामेव स्त्रियमशुभतो मनसि कुर्यादनित्यतो दुःखतः शून्यतोऽनात्मतो
मनसि कुर्यात् । भगवानाह-एवमेव कुलपुत्र इहैके भिक्षुभिक्षुण्युपासकोपासिका द्रष्टव्याः,
येऽनुत्पन्नान् धर्मानजातानशुभतो मनसि कुर्वन्ति, अनित्यतो दुःखतोऽनात्मतो मनसि कुर्वन्ति । 5
नाहं तेषां मोहपुरुषाणां मार्गभावनां वदामि । मिथ्याप्रयुक्तास्ते वेदितव्याः ॥
तथापि नाम कुलपुत्र कश्चिदेव पुरुषः सुप्तः स्वप्नान्तरे स्वगृहे राजभार्यां पश्येत् । स B 464
तया सार्धं शय्यां कल्पयेत् । स्मृतिसंमोहाच्चैवं कल्पयेत्-विक्लोभोऽस्मीति । स भीतस्त्रस्तः
पलायेत्, मा मां राजा विध्येत्, स मा मां जीविताद् व्यपरोपयेत् । तत् किं मन्यसे कुलपुत्र
अपि नु स पुरुषो भीतस्त्रस्तः पलायमानस्ततो राजभार्यानिदानभयात्परिमुच्येत ? आह-नो 10
भगवन् । तत्कस्य हेतोः ? तथा हि भगवंस्तेन पुरुषेण अस्त्रियां स्त्रीसंज्ञा उत्पादिता, अमूर्ते च
परिकल्पितम् । भगवानाह-एवमेव कुलपुत्र इहैके भिक्षुभिक्षुण्युपासकोपासिका द्रष्टव्याः, ये
अरागे रागसंज्ञामुत्पाद्य रागभयभीता रागनिःसरणं पर्येषन्ते । एवमदोषे दोषसंज्ञामुत्पाद्य दोषभय-
भीता दोषनिःसरणं पर्येषन्ते । अमोहे मोहसंज्ञामुत्पाद्य मोहभयभीता मोहनिःसरणं पर्येषन्ते ।
नाहं तेषां मोहपुरुषाणां मार्गभावनां वदामि । मिथ्याप्रयुक्तास्ते वेदितव्याः ॥ 15
तथापि नाम कुलपुत्र स पुरुषः अभये भयसंज्ञामुत्पादयेदसत्समारोपेण । एवमेव
कुलपुत्र सर्वबालपृथग्जना रागकोटिं विरागकोटिमप्रजानन्तो रागकोटिभयभीता विरागकोटिं
निःसरणं पर्येषन्ते । दोषकोटिमकिंचनकोटिमप्रजानन्तो दोषकोटिभयभीता अकिंचनकोटिं निःसरणं
पर्येषन्ते । मोहकोटिं शून्यताकोटिमप्रजानन्तो मोहकोटिभयभीताः शून्यताकोटिं निःसरणं पर्येषन्ते ।
नाहं तेषां कुलपुत्र मोहपुरुषाणां मार्गभावनां वदामि । मिथ्याप्रयुक्तास्ते वेदितव्याः ॥ इति 20
विस्तरः ॥ १४ ॥
अत्राह — यद्यपि अनित्ये नित्यमित्येवं ग्राहो विपर्ययो न संभवति, तथापि एष तावत्
ग्राहोऽस्ति । ग्राहश्च नाम संग्रहणं भावरूपः । तस्य च अवश्यं साधनेन करणेन भवितव्यं B 465
साधकतमेन नित्यत्वादिना । कर्त्री च भवितव्यं स्वतन्त्रेण नित्यात्मना चित्तेन वा । कर्मणा च
कर्तुरीप्सिततमेन विषयेण रूपादिना । सत्यां च भावकरणकर्तृकर्मणां सिद्धौ सर्वसिद्धेरग्रसिद्धिः 25
स्यादस्माकमिति । उच्यते । अलीकेयं प्रत्याशा । ननुं च यथोपवर्णितेन न्यायेन—
येन गृह्णाति यो ग्राहो ग्रहीता यच्च गृह्यते ।
उपशान्तानि सर्वाणि तस्माद्ग्राहो न विद्यते ॥ १५ ॥
इह हि कश्चिद् ग्रहीता येन विशेषेण नित्यत्वादिना करणभूतेन किंचित् कर्मभूतं
रूपशब्दादिकं वस्तु गृह्णाति, तथा न संभवति तथा पूर्वं प्रतिपादितम् । कथं कृत्वा ? 30
अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः ।
[म० शा० २३. १३-१४]
१ T om. साधकतमेन. २ T om. स्वतन्त्रेण and नित्य. ३ Mss. रूपादिन वार for कर्मणा च... रूपादिना which reading is based on T.

[पृष्ठम् २०४]

इत्यादिना यथा नित्यत्वादिकं करणं न संभवति, तथा प्रतिपादितम्। ग्रहीतापि यथा नास्ति,
तथा—
आत्मनोऽस्तित्वनास्तित्वे न कथंचिच्च सिध्यतः।
[म० शा०—२३.२]
इत्यनेन प्रतिपादितम्। यच्च गृह्यते तदपि नास्ति तथा—
रूपशब्दरसस्पर्शा गन्धा धर्माश्च केवलाः।
[म० शा०—२३.७]
इत्यनेन प्रतिपादितम्। यदा चैवं कर्तृकरणकर्माणि न सिद्धानि, तदा कुतो निर्हेतुको ग्राहो
भविष्यति? ततश्च—
येन गृह्णाति यो ग्राहो ग्रहीता यच्च गृह्यते।
उपशान्तानि सर्वाणि
स्वभावेन अनुत्पन्नत्वान्नितवृत्तानि सर्वाणीत्यर्थः। यतश्च एवमेवम्—
तस्माद् ग्राहो न विद्यते॥
अथवा। प्रत्ययपरीक्षादिभिः प्रकरणैर्ह्यस्मात् सर्वेषामेव करणकर्तृकर्मणां सर्वथानुत्पादः
प्रतिपादितः, तस्मात् सर्वाण्येतानि भावस्वरूपविरहादुपशान्तानि। अतश्च ग्राहो न विद्यते॥ १५॥
अत्राह—विद्यन्त एव विपर्यासाः, विपरीतसद्भावात्। इह हि विपर्यासानुगतो देवदत्तो
नाम विद्यते। न च विना विपर्यासैः स विपर्यासानुगतः संभवति। तस्मात् सन्ति विपर्यासाः
विपर्यस्तसद्भावादिति। उच्यते। इह अस्माभिः करणकर्तृकर्मणामभावात् सर्वथा ग्राह एव
नास्तीति प्रतिपादितम्। ततश्च—
अविद्यमाने ग्राहे च मिथ्या वा सम्यगेव वा।
भवेद्विपर्ययः कस्य भवेत्कस्याविपर्ययः॥ १६॥
सम्यग्वा मिथ्या वा कस्यचित् किंचिदप्यगृह्णतः कुतो विपरीतत्वमविपरीतत्वं वेति।
तस्मान्न सन्ति विपर्ययाः॥ १६॥
अपि च। इमे विपर्ययाः कस्यचिद्विद्यमानाः विपरीतस्य परिकल्प्येरन्, अविपरीतस्य
वा, विपर्यस्यमानस्य वा? सर्वथा च नोपपद्यन्ते इति प्रतिपादयन्नाह—
न चापि विपरीतस्य संभवन्ति विपर्ययाः।
न चाप्यविपरीतस्य संभवन्ति विपर्ययाः॥ १७॥
न विपर्यस्यमानस्य संभवन्ति विपर्ययाः।
विमृशस्व स्वयं कस्य संभवन्ति विपर्ययाः॥ १८॥
तत्र तावद्विपरीतस्य विपर्यया न संभवन्ति। किं कारणम्? यस्मात्, यो हि विपरीत:,
स विपरीत एव। किं तस्य पुनरपि विपर्ययसंबन्धः कुर्यात्? निष्प्रयोजनत्वात्। अविपरीतस्यापि
विपर्यया न युज्यन्ते, विशुद्धबुद्धिनयनानामपि अज्ञाननिद्रातिमिरोपशमाद् बुद्धानां विपर्यय-


[पृष्ठम् २०५]

प्रसङ्गात्॥ तथा विपर्यस्यमानस्यापि न सन्ति विपर्ययाः, विपर्यस्यमानस्य भावस्य अभावात्।
को हि नाम असावपरः पदार्थः, यो विपरीताविपरीतविनिर्मुक्तो विपर्यस्यमानो नाम भविष्यति?
अर्थविपरीतो विपर्यस्यमान इति चेत्, अर्थविपरीतो हि नाम यस्य किंचिद्विपरीतं किंचिदविपरीतम्।
तत्र यदस्य किंचिद्विपरीतं तद्विपर्यासो न विपर्यासयति, विपर्यस्तत्वात्। यदप्यस्य अविपरीतम्,
तदपि विपर्यासो न विपर्यासयति, अविपर्यस्तत्वात्। तस्माद्विपर्यस्यमानस्यापि कस्यचिद्विपर्यासा न
संभवन्ति। यदा चैवं विपरीताविपरीतविपर्यस्यमाना न संभवन्ति, भवानिदानीं विमृशतु स्वयं प्रज्ञया
मध्यस्थः सन् कस्य संभवन्ति विपर्यासा इति। तदेवमाश्रयस्याभावान्न सन्ति विपर्ययाः॥ १७-१८॥
किं चान्यत्—
अनुत्पन्नाः कथं नाम भविष्यन्ति विपर्ययाः।
विपर्ययेष्वजातेषु विपर्ययगतः कुतः॥ १९॥
तत्र
न स्वतो जायते भावः परतो नैव जायते।
न स्वतः परतश्चेति विपर्ययगतः कुतः॥ २०॥
कुतो विपरीत इत्यर्थः। ततश्च यदुक्तम्—सन्ति विपर्ययाः विपर्ययगतसद्भावादिति,
तन्न युक्तम्॥ १९-२०॥
यस्यापि कथंचिद्विपर्यासचतुष्टयमस्त्येवेत्यभ्युपगम्यते, तथापि तस्य विपरीतत्वमशक्य-
मास्थातुम्। किं कारणम्? यस्मात्—
आत्मा च शुचि नित्यं च सुखं च यदि विद्यते।
**आत्मा च शुचि नित्य

पृष्ठम् २०६

एवं निरुध्यतेऽविद्या विपर्ययनिरोधनात् ।
अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते ॥ २३ ॥
यदा अयं योगी यथोदितेन न्यायेन विपर्यासान् नोपलभते, तदा एवं विपर्यासानुप-
लम्भनेन तद्धेतुका अविद्या निरुध्यते । तन्निरोधाच्च संस्कारादयः अविद्याहेतुका जरामरण-
शोकपरिदेवदुःखदौर्मनस्योपायासपर्यन्ता धर्मा निरुध्यन्ते ॥
अविद्या हि सकलस्यैव संक्लेशगणस्य जात्यादिदुःखस्य च हेतुभूता । यथा हि
कायेन्द्रियहेतुकानि सर्वाणि रूपीन्द्रियाणि कायेन्द्रिये निरुध्यमाने निरुध्यन्ते, एवमविद्याहेतुकानि
संस्कारादीनि भवाङ्गानि प्रवर्तमानानि नियतमविद्यायां निरुद्धायां निरुध्यन्ते इति प्रतिपादयन्नाह –
अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते । इति ॥
अत्राह – यदि विपर्यासानिरोधादविद्या निरुध्यते, अस्ति तर्हि अविद्या यस्या एवं विपर्यास-
निरोधान्निरोधो भवति । न तर्हि अविद्यमानाया गगनचूतलतायाः प्रहाणोपायान्वेषणमस्ति । तस्माद्विद्यते
एव अविद्या, तन्निरोधोपायान्वेषणसद्भावात् । ततश्च सन्ति तद्धेतुका रागादयः क्लेशाः । क्लेशासद्भा-
वाच्च अस्यैव संसारे भवसंततिः । उच्यते । अत्र हि नाम अतिमहदनर्थपाण्डित्यं परस्य, यो हि नाम
सर्वात्मना अत्यन्तदुःखायासक्लेशासमञ्जसे संसारे निरन्तरफुल्लफलप्रदसङ्क्लेशविषवृक्षे परार्थोदय-
संबद्धकक्षैः साधुभिः प्रज्ञोपायमहानिलबलैर्निःशेषं तदुन्मूल्यमानैर्न केवलं न साहाय्येनावातिष्ठते,
अपि खलु तदुन्मूलकानामतिगहनलवनानामिव भावसद्भाववादमहाशैलायमान इवातिविरोधितया
अवस्थितो भवान् आहोपुरुषिकया तस्यैव क्लेशविषवृक्षस्य जातिजरामरणशोकायासविसर-
दुःखैकफलस्य सुतरां भावाभिनिवेशतोयास्त्रवैरारोपणमाद्रियते ॥
अपि च । यदि अविद्यादीनां संक्लेशानां प्रहाणं संभवेत्, स्यात् तद्रहाणोपायान्वेषणम् । न
च तेषां प्रहाणं संभवति । यदि स्यात्, तदा तत्स्वरूपतो विद्यमानानां वा स्यात्, अविद्यमानानां
वा ? किं चातः ? तत्र यदि स्वरूपतः सद्भूतानां क्लेशानां प्रहाणमिष्यते, तन्नोपपद्यते । किं
कारणम् ? यस्मात् –
यदि भूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित् ।
कथं नाम प्रहीयेरन् कः स्वभावं प्रहास्यति ॥ २४ ॥
स्वभावतो विद्यमानानां भावानां न शक्यः स्वभावो विनिवर्तयितुम् । न हि क्षित्यादीनां
कठिनत्वादिस्वभावो निवर्तते । एवं यदि इमे क्लेशाः स्वभावतः सद्भूताः स्युः । केचिदित्याविद्यादयः ।
कस्यचिदिति पुद्गलस्य । कथं नाम प्रहीयेरन् ? नैव ते कस्यचित् कथंचिन्नाम प्रहीयेरन् ।
कस्मात्पुनः न ते प्रहीयन्ते इत्याह – कः स्वभावं प्रहास्यतीति । स्वभावस्य विनिवर्तयितुमशक्य-
त्वात् । आकाशानावरणविनिवर्तनासंभववदित्यभिप्रायः ॥ २४ ॥
अथ स्वभावेन असद्भूता इति विकल्प्यते, एवमपि प्रहाणासंभव एवेत्याह –


१ T om. संसारे. २ T reads: यो हि नाम साधुभिः परार्थोदयसंबद्धकक्षैः प्रज्ञोपायबलैर्निःशेषं महाक्लेश-
विषवृक्षं सर्वात्मना दुःखमुन्मूल्यमानैः for यो हि... न्मूल्यमानैः. ३ T reads: अपि खलु तदुन्मूलकानामपि-
विरोधितयावस्थित आहोपुरुषिकया तस्य महाक्लेशविषवृक्षस्यारोहणमाद्रियते for अपि...द्रियते ।


पृष्ठम् २०७

यद्यभूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित् ।
कथं नाम प्रहीयेरन् कोऽसद्भावं प्रहास्यति ॥ २५ ॥
अभूता अपि क्लेशाः स्वभावेन अविद्यमानाः अशक्या एव प्रहातुम् । न हि अग्नेः
शैत्यमसंविद्यमानं शक्यमपाकर्तुम् । एवमिमेऽपि क्लेशाः केचिद् यदि कस्यचित् स्वभावतो न
विद्यन्ते, कस्तान् प्रहास्यति ? नैव कश्चित् प्रहास्यति । तदेवमुभयपक्षेऽपि प्रहाणासंभवान्नास्ति
प्रहाणं क्लेशानाम् । प्रहाणाभावाच्च कुतः क्लेशप्रहाणोपायान्वेषणमिति । अतो यदुक्तम्-विद्यन्त
एव अविद्यादयः क्लेशाः, तद्रहाणोपायान्वेषणादिति, तदयुक्तमिति । यथोक्तमार्यसमाधिराजे –
यो रज्येत, यत्र वा रज्येत, येन वा रज्येत । यो दुष्येत, यत्र वा दुष्येत, येन वा
दुष्येत । यो मुह्येत यत्र वा मुह्येत, येन वा मुह्येत । स तं धर्मं न समनुपश्यति, तं धर्मं
नोपलभते । स तं धर्ममसमनुपश्यन् अनुपलभमानोऽरक्तोऽदुष्टोऽमूढोऽविपर्यस्तचित्तः समाहित
इत्युच्यते । तीर्णः पारग इत्युच्यते । क्षेमप्राप्त इत्युच्यते ॥ इति विस्तरः ।
[ समाधिराजसूत्र -९ ]
तथा –
आदर्शपृष्ठे तथ तैलपात्रे
निरीक्षते नारिमुखं स्वलंकृतम् ।
सो तत्र रागं जनयित्व बालो
प्रधावितो कामि गवेषमाणो ॥
मुखस्य संक्रान्ति यदा न विद्यते
बिम्बे मुखं नैव कदाचि लभ्यते ।
मूढो यथा सो जनयेत रागं
तथोपमान् जानथ सर्वधर्मान् ॥ इत्यादि ।
[ समाधिराजसूत्र – ९.१०-११ ]
तथा –
रूपेण दर्शिता बोधी बोधये रूप दर्शितम् ।
विभगेन शब्देन उत्तरो धर्मु देशितः ॥
शब्देन उत्तरं रूपं गम्भीरं च स्वभावतः ।
समं रूपं च बोधिश्च नानात्वं न स लभ्यते ॥
यथा निर्वाणु गम्भीरं शब्देन संप्रकाशितम् ।
लभ्यते न च निर्वाणं स च शब्दो न लभ्यते ॥
शब्दश्चापि निर्वाणं च उभयं तन्न लभ्यते ।
एवं शून्येषु धर्मेषु निर्वाणं संप्रकाशितम् ॥


१ T om. the quotation upto जानथ सर्वधर्मान्.

निर्वाणं निवृत्तिरेव निर्वाणं च न लभ्यते ।
अप्रवृत्तिर्हि धर्माणां यथा पश्चात्तथा पुरा ॥
सर्वधर्माः स्वभावेन निर्वाणसमसादृशाः ।
ज्ञाता नैष्क्रम्यसारेहि ये युक्ता बुद्धबोधये ॥
[ समाधिराजसूत्र - २४.१-६ ]
तथा -
ज्ञानेन जानाम्यहु स्कन्धशून्यतां
ज्ञात्वा च क्लेशेहि न संवसामि ।
व्याहारमात्रेण हि व्याहरामि
परिनिर्वृतो लोकमिमं चरामि ॥
[ समाधिराजसूत्र - ६.१२ ]
तथा -
परिनिर्वृत लोकि ते शूरा
येहि स्वभावत ज्ञातिमि धर्माः ।
कामगुणैर्हि चरन्ति असङ्गाः
सङ्गु विवर्जिय सत्त्व विनेन्ति ॥
इति ॥ २५ ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
विपर्यासपरीक्षा नाम त्रयोविंशतितमं प्रकरणम् ॥
१ T om. this stanza.


२४
आर्यसत्यपरीक्षा चतुर्विंशतितमं प्रकरणम् ।
अत्राह -
यदि शून्यमिदं सर्वमुदयो नास्ति न व्ययः ।
चतुर्णामार्यसत्यानामभावस्ते प्रसज्यते ॥ १ ॥
यदि युक्त्या नोपपद्यते इति कृत्वा सर्वमिदं बाह्याध्यात्मिकं भावजातं शून्यमिति
प्रतिपादितम्, ननु च एवं सति बहवश्च महान्तश्च दोषा भवत आपद्यन्ते । कथं कृत्वा ? यदि
सर्वमिदं शून्यं स्यात्, तदा यच्छून्यं तन्नास्ति, यच्च नास्ति, तदविद्यमानत्वाद् वन्ध्यापुत्रवन्नैवोत्पद्यते
न चापि निरुध्यते, इति न कस्यचित्पदार्थस्य उदयो व्ययश्च । तदभावाच्च चतुर्णामार्यसत्यानामभावः
ते शून्यवादिन्: प्रसज्यते । कथं कृत्वा ? इह हि पूर्वहेतुजनिताः प्रतीत्यसमुत्पन्नाः पञ्चोपादान-
स्कन्धाः दुःखदुःखतया विपरिणामदुःखतया संस्कारदुःखतया च प्रतिकूलावर्तित्वाच्च पीडात्मकत्वेन
दुःखमित्युच्यते । एतच्च दुःखमार्या एव विपर्यासप्रहाणे सति दुःखमिति संजानते, न अनार्याः,
विपर्यासानुगतत्वात्, यथादर्शनं च पदार्थस्वभावव्यवस्थानात् । यथा हि विपर्यस्तेन्द्रियाणां
मधुरस्वभावमपि गुडशर्करादिकं तिक्ततया उपलभमानानां ज्वरादिरोगातुर्राणां तिक्ततैव सत्यं
तज्ज्ञानापेक्षया, न माधुर्यम्, तेनात्मना तस्य वस्तुनोऽनुपलभ्यमानत्वात्, एवमिहापि यद्यपि
पञ्चोपादानस्कन्धा दुःखस्वभावा भवन्ति, तथापि ये एतान् दुःखात्मकान् पश्यन्ति, तेषामेव
दुःखं व्यवस्थाप्यते, न विपर्यासानुगमादन्यथोपलभमानानामिति । अतः आर्याणामेव दुःखामता
सत्यमिति कृत्वा दुःखमार्यसत्यमित्युच्यते । ननु च अनार्यैर्दुःखा वेदना दुःखमिति परिच्छिद्यते
इति, एवं तत्कथं दुःखमार्याणामेव सत्यम् ? सत्यम् । न हि दुःखैव वेदना केवलं दुःखसत्यम्,
किं तर्हि पञ्चाप्युपादानस्कन्धाः, इत्यतः आर्याणामेव तत् सत्यमिति कृत्वा आर्यसत्यमिति
व्यवस्थाप्यते । यथोक्तम् -
ऊर्णापक्ष्म यथैव हि करतलसंस्थं न वि (वे ?) द्यते पुंभिः ।
अक्षिगतं तु तदेव हि जनयत्यर्तिं च पीडां च ॥
करतलसदृशो बालो न वेत्ति संस्कारदुःखतापक्ष्म ।
अक्षिसदृशस्तु विद्वान् तेनैवोद्विजते गाढम् ॥ इति ।
तस्मादार्याणामेव तद्दुःखसत्यमिति दुःखमार्यसत्यमिति व्यवस्थाप्यते ॥
कदा च तद्दुःखमार्यसत्यं युज्यते ? यदा संस्काराणामुदयव्ययौ संभवतः । यदा तु
शून्यत्वान्न किंचिदुत्पद्यते नापि किंचिन्निरुध्यते, तदा नास्ति दुःखम् ॥
असति च दुःखे कुतः समुदयसत्यम् ? यतो हि हेतोर्दुःखम्, समुदेति समुत्पद्यते स हेतुः
तृष्णाकर्मक्लेशलक्षणः समुदय इत्युच्यते । यदा तु फलभूतं दुःखसत्यं नास्ति, तदा फलरहितस्य
हेतुत्वानुपपत्तेः समुदयोऽपि नास्ति ॥
१ T दुःखामतया for दुःखामता.
म. २७

निरोधे अन्वयज्ञानक्षान्तिक्षणस्तृतीयः ।"
Line 23:
"विमुक्तिमार्गलक्षणः निरोधे अन्वयज्ञानक्षणश्चतुर्थः ।"
Line 27:
"आनन्तर्यमार्गलक्षणः मार्गे धर्मज्ञानक्षान्तिक्षणः एकः ।"
Line 28:
"विमुक्तिमार्गलक्षणः मार्गे धर्मज्ञानक्षणः द्वितीयः ।"
Line 29:
"आनन्तर्यमार्गलक्षणो मार्गेऽन्वयज्ञानक्षान्तिक्षणः तृतीयः ।"
Line 30:
"इत्येते पञ्चदश क्षणाः दर्शनमार्गाभिधानाः ॥"

Everything makes complete, 100% perfect sense! The word is indeed क्षान्तिक्षणः / क्षान्तिक्षणस्तृतीयः!

Let's check other details on the Right page:
Line 1:
-२४.४] आर्यसत्यपरीक्षा चतुर्विंशतितमं प्रकरणम् । २११
इह हि षोडशात् मार्गेऽन्वयज्ञानक्षणात् पूर्वे ये पञ्चदश क्षान्तिज्ञानक्षणाः, तद्यथा-त्रैधातु-
Line 2:
कदुःखामिसमये (Wait, is it कदुःखामिसमये or कदुःखाभिसमये? Look at line 2: "कदुःखामिसमये" vs line 10 "दु

यां न त्वं वेत्सि प्रयोजनम् ।
शून्यतां शून्यतार्थं च तत एवं विहन्यसे ॥ ७ ॥
Wait, look at line 30: "अत्र ब्रूमः शून्यतायां" - wait, is there a danda or space after ब्रूमः?
"अत्र ब्रूमः शून्यतायां न त्वं वेत्सि प्रयोजनम् ।"
Wait, in line 30:
"अत्र ब्रूमः शून्यतायां न त्वं वेत्सि प्रयोजनम् ।"
There is no danda after ब्रूमः, just a small space.
Line 31:
"शून्यतां शून्यतार्थं च तत एवं विहन्यसे ॥ ७ ॥"
Wait, is it "तत एवं" or "तत एव"?
Line 31: "त त ए वं" -> yes, "एवं" with anusvara!
Wait, kārikā 24.7 is:
"अत्र ब्रूमः शून्यतायां न त्वं वेत्सि प्रयोजनम् ।
शून्यतां शून्यतार्थं च तत एवं विहन्यसे ॥ ७ ॥"
Wait, standard kārikā text has "तत एव विहन्यसे" or "तत एवं विहन्यसे"?
Looking at the text in line 31: "त त ए वं वि ह न्य से" -> it has a dot: "एवं"!

उपदिष्टेन ? उच्यते । सत्यमेतदेवम् । किं तु लौकिकं व्यवहारमनभ्युपगम्य
अभिधानाभिधेयज्ञानादि लक्षणम्, अशक्य एव परमार्थो देशयितुम्, अदेशितश्च न शक्योऽधि-
Wait, "अभिधानाभिधेयज्ञानादि लक्षणम्" or "अभिधानाभिधेयज्ञानज्ञेयादिलक्षणम्"?
Look at line 31:
अ - भि - धा - ना - भि - धे - य - ज्ञा - न - ज्ञे - या - दि - ल - क्ष - णम् !
Wait, look at line 31:
अभिधानाभिधेयज्ञानज्ञेयादिलक्षणम्!
Wait, look after ज्ञाना or ज्ञान:
There is: ज्ञे - या - दि - ल - क्ष - णम्!
Yes! "अभिधानाभिधेयज्ञानज्ञेयादिलक्षणम्"!
Line 32:
गन्तुम्, अनधिगम्य च परमार्थं न शक्यं निर्वाणमधिगन्तुमिति प्रतिपादयन्नाह -

Let's double-check line by line for any tiny detail.

Left Page (214):
Header:
२१४ मध्यमकशास्त्रे [२४.७-

Line 1:
स भवान् स्वविकल्पेनैव नास्तित्वं शून्यार्थ इत्येवं विपरीतमध्या

१२ ॥"
Line 18:
"तदेवं सत्यद्वयाविपरीतव्यवस्थामविज्ञाय —"
Line 19:
"शून्यतायामधि Bard? -> शून्यतायामधि Bard" -> "शून्यतायामधि Bard" wait, let's look at the verse 13:
"शून्यतायामधि Bardयं यं पुनः कुरुते भवान् ।"
Wait, look at the letters of that word in the verse (line 19):
शू न्य ता या म धि
then:
ल (la)
यं (yaṁ)
य (ya) with anusvara: यं
then:
पु नः
कु रु ते
भ वा न् ।
Yes, "शून्यतायामधि Bard" is literally "शून्यतायामधि Bard"? No, the letters are:
अ धि ल यं
Wait, let's look at line 19 again:
शू-न्य-ता-या-म-धि-ल-यं यं पु-नः कु-रु-ते भ-वा-न् ।
Yes: "शून्यतायामधिलयं यं पुनः कुरुते भवान् ।"
Line 20:
"दोषप्रसङ्गो नास्माकं स शून्ये नोपपद्यते ॥ १३ ॥"
Line 21:
"20 योऽयं भवता महान् दोषप्रसङ्गोऽस्मासु प्र

[पृष्ठम् २१८]

२१८ | मध्यमशास्त्रे | [२४. १४-
सर्वं च युज्यते तस्य शून्यता यस्य युज्यते ।
सर्वं न युज्यते तस्य शून्यं यस्य न युज्यते ॥ १४ ॥
यस्य हि सर्वभावस्वभावशून्यतेयं युज्यते, तस्य सर्वमेतद् यथोपवर्णितं युज्यते । कथं
कृत्वा ? यस्मात् प्रतीत्यसमुत्पादं हि वयं शून्यतेति व्याचक्ष्महे —
यः प्रत्ययैर्जायति स ह्यजातो
न तस्य उत्पादु स्वभावतोऽस्ति ।
यः प्रत्ययाधीनु स शून्य उक्तो
यः शून्यतां जानति सोऽप्रमत्तः ॥
इति गाथावचनात्। “शून्याः सर्वधर्मा निःस्वभावयोगेन” इति प्रज्ञापारमिताभिधानात् ॥
तस्माद्यस्येयं शून्यता युज्यते रोचते क्षमते, तस्य प्रतीत्यसमुत्पादो युज्यते । यस्य
प्रतीत्यसमुत्पादो युज्यते, तस्य चत्वार्यार्यसत्यानि युज्यन्ते । कथं कृत्वा ? यस्मात् प्रतीत्यसमु-
त्पन्नं हि दुःखं भवति नाप्रतीत्यसमुत्पन्नम् । तच्च निःस्वभावत्वाच्छून्यम् । सति च दुःखे दुःख-
समुदयो दुःखनिरोधो दुःखनिरोधगामिनी च प्रतिपद् युज्यते । ततश्च दुःखपरिज्ञानं समुदय-
प्रहाणं निरोधसाक्षात्कारणं मार्गभावना च युज्यते । सति च दुःखादिसत्यपरिज्ञानादिके फलानि
युज्यन्ते । सत्सु च फलेषु फलस्था युज्यन्ते । सत्सु च फलस्थेषु प्रतिपन्नका युज्यन्ते । सत्सु च
प्रतिपन्नकफलस्थेषु संघो युज्यते । आर्यसत्यानां च सद्भावे सति सद्धर्मोऽपि युज्यते । सति च
सद्धर्मे संघे च बुद्धोऽपि युज्यते । ततश्च त्रीण्यपि रत्नानि युज्यन्ते । लौकिकलोकोत्तराश्च पदार्थाः
सर्वे विशेषाधिगमा युज्यन्ते । धर्माधर्मौ तत्फलं सुगतिदुर्गतिः लौकिकाश्च सर्वसंव्यवहारा
युज्यन्ते । तदेवम् —
सर्वं च युज्यते तस्य शून्यता यस्य युज्यते ।
यस्य सर्वभावस्वभावशून्यता युज्यते, तस्य सर्वमेतद् यथोदितं युज्यते, संपद्यते इत्यर्थः ।
यस्य तु शून्यता यथोदिता न युज्यते, तस्य प्रतीत्यसमुत्पादाभावात् सर्वं न युज्यते । यथा च न
युज्यते, तथा विस्तरेण प्रतिपादयिष्यति ॥ १४ ॥
तदेवमस्माकीने सुपरिशुद्धतरे सर्वव्यवस्थासु अविरुद्धे व्यवस्थिते, अतिस्थूले अत्यासन्ने
तद्विरुद्धे च स्वकीये पक्षे दोषवति अतिमोहो यथावदवस्थितौ गुणदोषावपश्यन् —
स त्वं दोषानात्मनीनानस्मासु परिपातयन् ।
अश्वमेवाभिरूढः सन्नश्वमेवासि विस्मृतः ॥ १५ ॥


पादटिप्पण्यः (Footnotes):
१ See under XIII. 2, where this stanza is quoted as from अनवतप्तह्रदापसंक्रमण-
सूत्र ; Mdo xii ; Nanjio, No. 437 under अनवतप्तनागराजपरिपृच्छासूत्र. २ T om. रोचते क्षमते.
३ Compare लौकिकन्यायाञ्जलि, III, अश्वाढः कथं चाश्वान विस्मरेयुः सचेतसः । or शुक्लविदर्शना
as cited by Poussin :
घोटामेवाभिरूढः सन् घोटामेवासि विस्मृतः ॥
स्वभावाद्यदि भावानां सद्भावमनुपश्यसि ।
अहेतुप्रत्ययान् भावांस्त्वमेवं सति पश्यसि ॥


[पृष्ठम् २१९]

-२४. १८] | आर्यसत्यपरीक्षा चतुर्विंशतितमं प्रकरणम् । | २१९
यथा हि कश्चिद् यमेवाश्वमारूढः, तमेव विस्मृतः सन्, तदपहारदोषेण परानुपालभते,
एवमेव भवान् प्रतीत्यसमुत्पादलक्षणशून्यतादर्शनाश्वमारूढ एव अत्यन्तविक्षेपात्तमनुपलभमानोऽ-
स्मान् परिवदति ॥ १५ ॥
के पुनस्ते परस्य दोषाः, याननुपलभमानः शून्यतावादिनमेव उपालभते इति, तान्
प्रतिपादयन्नाह —
स्वभावाद्यदि भावानां सद्भावमनुपश्यसि ।
अहेतुप्रत्ययान् भावांस्त्वमेवं सति पश्यसि ॥ १६ ॥
यदि त्वं स्वभावेन विद्यमानान् भावान् पश्यसि, तदा स्वभावस्य हेतुप्रत्ययनिरपेक्षत्वात्
अहेतुप्रत्ययान् अविद्यमानहेतुप्रत्ययान् पदार्थान् बाह्याध्यात्मिकभेदभिन्नान् निर्हेतुकान् त्वमेवं
सति पश्यसि ॥ १६ ॥
सति च अहेतुकत्वाभ्युपगमे —
कार्यं च कारणं चैव कर्तारं करणं क्रियाम् ।
उत्पादं च निरोधं च फलं च प्रतिबाधसे ॥ १७ ॥
कथं कृत्वा ? यदिह घटः स्वभावतोऽस्तीति परिकल्पयसि, तदा अस्य स्वभावतो
विद्यमानस्य किं मृदादिभिर्हेतुप्रत्ययैः प्रयोजनमिति तेषामभावः स्यात् । निर्हेतुकं च कार्यं घटरूपं
नोपपद्यते । असति च दण्डचक्रादिकस्य करणस्य, कर्तुः कुम्भकारस्य घटकरणक्रियायाश्चाभावा-
दुत्पादनिरोधयोरभावः । असतोश्चोत्पादनिरोधयोः कुतः फलम् ? इति सत्स्वभावाभ्युपगमे सति सर्व-
मेतत् कार्यादिकं प्रतिबाधसे । तदेवं भवतः स्वभावाभ्युपगमे सति सर्वमेव न युज्यते ॥ १७॥
अस्माकं तु भावस्वभावशून्यतावादिनां सर्वमेतदुपपद्यते । किं कारणम् ? यस्मादयम् —
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे ।
सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा ॥ १८ ॥
योऽयं प्रतीत्यसमुत्पादो हेतुप्रत्ययानपेक्ष्य अङ्कुरविज्ञानादीनां प्रादुर्भावः, स स्वभावे-
नानुत्पादः । यश्च स्वभावेनानुत्पादो भावानां सा शून्यता । यथा भगवतोक्तम् —
यः प्रत्ययैर्जायति स ह्यजातो
न तस्य उत्पादु स्वभावतोऽस्ति ।
यः प्रत्ययाधीनु स शून्य उक्तो
यः शून्यतां जानति सोऽप्रमत्तः ॥ इति ।
तथा आर्यलङ्कावतारे — “स्वभावानुत्पत्तिं संधाय महामते सर्वधर्माः शून्या इति मया
देशिताः” ॥ इति विस्तरेणोक्तम् ॥
द्वयर्धशतिकायाम् — “शून्याः सर्वधर्मा निःस्वभावयोगेन” ॥ इति ॥
या चेयं स्वभावशून्यता सा प्रज्ञप्तिरुपादाय, सैव शून्यता उपादाय प्रज्ञप्तिरिति