मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
१४ मृगेन्द्रतन्त्रे । [ १।१
‘वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।’
(मनुस्मृ० २।६)
इति ॥ ५ ॥
तदासतां तावदेवंविधाः श्रुत्यादिसदा-
गमार्थाविरोधिन्यः पौराणिक्यः संहिताः, अ-
न्याश्च काश्चन श्रुतयो यासामिदं तात्पर्यम् ।
यथा महाभारतादौ
‘ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् ।
इहलोके सुखं प्राप्य ते यान्ति परमां गतिम् ॥’
इति ।
‘सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम् ।
तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः ॥’
इति । तथा
‘आदित्या वसवो रुद्रा मुनयश्च महौजसः ।
विधिवल्लिङ्गमाराध्य पदमिष्टतमं गताः ॥’
इति । तथा
‘मृद्भस्मगोशकृत्पिष्टगुडखंडादिलिङ्गकम् ।
संपूजयन् प्रतिष्ठाप्य श्रद्धावानधिगच्छति ॥’
इति । तत्राप्रामाण्यमभ्युपगम्यापि ब्रूमः-
१ वेदविदां स्मृतिः मन्वादिः शीलमाचरणं च धर्ममूलं भवति । अखि-
लोऽपि वेदः । २ अर्चयन्तीति शेषः ।
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १५
यदभिप्रायेणेदमभिधीयते भवद्भिः, स तावत्
श्रुत्यर्थ एव स्मर्यतां, तत्र हि
वेदेऽस्ति संहिता रौद्री
वाच्या रुद्रश्च देवता ।
सान्निध्यकरणेऽप्यस्मि-
न्विहितः काल्पिको विधिः ॥६॥
रुद्रो देवतास्या इति रौद्री संहिता ऋ-
ग्यजुःसामलक्षणे चाथर्वणे च वेदेऽस्ति ।
यजुर्वेदे हि रुद्रैकादशिनी संहिता श्रूयते, यस्यां
भगवन्तो रुद्राः सर्वाभिप्रेतसाधकाः पठ्यन्ते ।
ऋग्वेदेऽपि
'त्रियम्बकं यजामहे' ( ७।५९।१२ )
'इमा रुद्राय तवसे कपर्दिने' ( १।११४।१ )
'इमा रुद्राय स्थिरधन्वने गिरः' ( ७।४६।१ )
इत्यादिका ऋग्विधानाम्नातास्तत्तद्विशिष्टविधा-
नफला विद्यन्त एव । सामवेदेऽप्यस्ति । श्रू-
यते हि साम्नां विधाने
'आ वो राजा तद्वो वर्ग आज्यदोहानि देवव्रतानि चैषा
रौद्री नाम संहितैतां प्रयुञ्जानो रुद्रं प्रीणाति' ( १।४।१६ )
इति । एवमाथर्वणेऽपि रुद्राराधनविधयः
१६ मृगेन्द्रतन्त्रे । [ ११
तन्मन्त्रसंहिताश्च संभवन्ति । न च केवलं संहि-
तामात्रमेवास्ति । तत्र तत्र रुद्र एव देवता
वाच्यरूपतया श्रूयते, यमुद्दिश्य
‘एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व स्वाहा’
( क० शा० ९।७ )
इति श्रुतिः । नचैतावत्, यावत्काल्पिक इति .
कल्पो वेदाङ्गं, तदुक्तो विधिः भगवतः सांनि-
ध्यकल्पनाय श्रूयते । तथाहि काठके सूत्रप-
रिशिष्टीये रुद्रकल्पे
‘त्रिषवणमुदकोपस्पर्शनम्’
इत्युक्त्वोक्तं
‘दर्भेष्वासीनो दर्भमुष्टिं धारयमाणो
रक्षोभ्योप्यविज्ञेयो भवति, शाकयावकपयोभैक्ष-
भक्षः षड्भिर्मासैः प्रत्यक्षीभवन्तं भगवन्तं पश्यति ।’
इति । एवं च श्रद्दधानमनसां जैमीनीयच्छा-
याश्रयिणामपि चोदनाप्रदर्शितोऽयमस्तीव प्र-
सिद्धः पन्थाः, किं पुनः परमेश्वरप्रकाशनवि-
हतमहामोहतमिरतया विस्पष्टदृष्टीनामन्ये-
षाम् ॥ ६ ॥
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १७
इत्युक्तेऽपि परं भावं
जिज्ञासुः प्रहसन्प्रभुः ।
तानाह मिथ्या ज्ञानं वः
शब्दमात्रं हि देवता ॥ ७ ॥
एवमपि कथिते तदीयं भक्तिप्रकर्षं ज्ञातु-
मिच्छुरिन्द्रत्वेन परमैश्वर्ययोगात् प्रभुः प्रभव-
नशीलः स तान् मुनीन् सस्मितमाह । किं
तत्। मिथ्या ज्ञानं वः, युष्माकं संबन्धि यदेत-
ल्लिङ्गार्चनादिशिवाराधनप्रतिपादकं ज्ञानं शास्त्रं,
तन्मिथ्या न सत्यं तत्प्रणेतृतथाविधदेवतानु-
पपत्तेः । यतः कर्मानुष्ठानादेव फलं, न देव-
तातः । शब्दमात्रं हि देवता । न खलु वयं
प्रत्यक्षेतरप्रमाणापह्नवप्रवृत्तदुराचारचार्वाकवद्-
संभवमेव देवतायाः प्रतिपद्यामहे । किं तर्हि ।
विद्यत एव देवता, सा तु शब्दान्नातिरिच्यते,
अपितु अयोगोलकवह्निवदनुपलभ्यमानवा-
च्यार्थपृथग्भावः शब्द एव तेषु तेषु क्रिया-
विशेषेषु अङ्गभावं गच्छन् यागसंप्रदानदेवता-
विशेषाख्यां लभते । तदुक्तं
३
१८ मृगेन्द्रतन्त्रे । [ १।१
‘अविनिर्भिन्नशब्दार्थं ध्यायेदोङ्कारमीश्वरम् ।’
इति । नचात्र कश्चिदेक एव विश्वेशितास्तीति
नियमः प्रतिज्ञातुं शक्यः अनेकाकारसुप्रसि-
द्धबहुतरदेवताविशेषश्रवणात् । तच्चेदमनुप-
ममहिम्नः शब्दरूपस्यैवं विजृम्भितं-यदेकमपि
सत् तत्तद्देवताविशेषप्रतीतिहेतुतामात्मप्रती-
तिहेतुतां चाभ्येति । तथैव श्रुतिः
‘इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरु-
त्मान् । एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरि-
श्वानमाहुः ।’ ( ऋ० १।१६४।४६ )
इति । तत्संस्थितमेतच्छब्दात्मिका देव-
तेति ॥ ७ ॥
एवमन्वयेनाभिधाय, व्यतिरेकेणामुमेवार्थं
द्रढयितुमाह
शब्देतरत्वे युगप-
द्भिन्नदेशेषु यष्टृषु ।
न सा प्रयाति सांनिध्यं
मूर्तत्वादस्मदादिवत् ॥ ८ ॥
शब्दव्यतिरिक्ता हि यदि देवता विद्यते, किं
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपैते । १९
विग्रहवती अविग्रहा उभयरूपानुभयरूपा वा ।
अनुभयरूपत्वे विरुद्धधर्माध्यासः स्वसिद्धान्त-
विरुद्धानेकान्तवादाभ्युपगमः व्यस्तपक्षद्वयो-
द्भावितदोषप्रसङ्गश्च । अविग्रहत्वे शब्देनैव
किमपराद्धम्। विग्रहवत्त्वे तु भिन्नदेशावस्थितेषु
युगपत्प्रारब्धयागेषु यज्वसु मूर्तत्वात्तस्याः सां-
निध्यानुपपत्तिः । ननु मूर्तत्वे सत्यपि सांनिध्यं
परस्परविदूरदेशस्थोपस्थातृजनोपहृतसपर्ययो-
रर्केन्दुबिम्बयोर्दृष्टमित्यनैकान्तिकं मूर्तत्वम् ।
नानैकान्तिकमर्केन्दुबिम्बयोः स्वप्रभाभास्वरयो-
रुच्चतरत्वेन सकलदेशोपलक्ष्यस्थानमात्रस्थयो-
र्बहुजनोपलम्भयोग्यदेशावस्थानमेव सांनिध्यं
भवतां प्रतिभाति न वास्तवम् । तथाचात्युत्तु-
ङ्गरङ्गोत्सङ्गवर्तिनी नर्तकी विदूरदेशवर्तिभिर्भू-
योभिः प्रेक्षकैः प्रेक्ष्यमाणा नैकैकं प्रति प्रा-
१ उपस्थातृजनैरुपहृता सपर्या ययोस्तौ तयोः । २ इन्द्रादिः सकलदे-
शासन्निहितः मूर्तत्वात् घटादिवत् इत्यत्र मूर्तत्वं सोपाधिको हेतुः ।
तथाहि प्रकृतेऽनीश्वरत्वमुपाधिः । स साध्यरूपसकलदेशासन्निहितस्य
व्यापकोऽस्ति । यत्र यत्र सकलदेशासन्निहितत्वं, तत्र तत्र घटादावनी-
श्वरत्वमिति साध्यव्यापकत्वम्, यत्र यत्र मूर्तत्वं तत्र तत्राणिमादिष्वीश्वरत्वं
नास्तीति । योगिनि मूर्तत्वमस्ति परंतु अनीशत्वं नास्तीति साधनाव्यापक-
त्वमिति ।
२० मृगेन्द्रतन्त्रे । [ १।१
काम्यशक्त्या सान्निध्यं भजते। तस्मात्समकाल-
मनेकगृहभोजनोपनिमन्त्रितानां यथास्माकमने-
कगृहभोजनं न दृष्टमेवं देवतायास्तुल्यकालं
भिन्नदेशस्थयागसांनिध्यं मूर्तत्वान्न संभाव्य-
मिति शब्दमात्रत्वमेवास्याः साधीयः ॥ ८ ॥
किंच
न च तत्साधकं किंचि-
त्प्रमाणं भात्यबाधितम् ।
न किल तथाविधव्यत्यय¹दशाविरहितपरम-
परोक्षवपुषः प्रकृष्टातिशयैश्वर्योपपन्नज्ञानानन्त-
महिम्नो देवताविशेषस्य साधकं किमपि प्रमाणं
प्रतिभाति । तथाहि अपरोक्षत्वेन सकलप्र-
माणज्येष्ठस्य प्रत्यक्षस्य तावन्नासौ गोचरः ।
न ह्यतीन्द्रियविषयग्रहणक्षमत्वं प्रत्यक्षस्य सं-
भवति । अथ व्यवहितविप्रकृष्टार्थविषयं योगि-
प्रत्यक्षं तत्सत्तानिश्चायकमिति चेत्, तन्न यस्मा-
दस्मदाद्यतीन्द्रियार्थदर्शिनो योगिनः सूक्ष्मा-
दिविषयस्तत्प्रत्यक्षं, तेन चेशः साक्षात्क्रियते
१ नाशदशारहितस्येत्यर्थः ।
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २१
इत्येतत्सर्वमनुपपन्नं प्रमाणाभावात् । अतीन्द्रि-
योऽतीन्द्रियार्थदर्शी च कश्चित्साधयितुमिष्ट-
स्तस्य तथाविधपुरुषप्रत्यक्षेणासिद्धेन साधनं
प्रामाणिकस्यापि भवतः किमिति न त्रपावहम्।
नन्वस्त्यत्रानुपहतसामर्थ्यमनुमानं, तथाहि ज-
गदिदमुर्वीपर्वतसरित्समुद्रादि धर्मि कार्यमिति
साध्यो धर्मः, सावयवत्वात्, यद्यत्सावयवं तत्त-
त्कार्यं यथा वलभिप्राकारपुष्करिण्यादि । वि-
पक्षव्यावृत्तश्चायं हेतुर्यत्र किलात्मादौ कार्यत्वं
नास्ति, तत्र सावयवत्वमपि नास्तीति । न
चास्य हेतोरीश्वरशरीरेणानैकान्तिकत्वं यथा-
हुर्जैमिनीयाः
'अनेकान्तश्च हेतुस्ते तच्छरीरादिना भवेत् ।' (श्लो० वा०)
इति । तस्यापि तदिच्छाकार्यत्वेन अस्माभि-
रिष्यमाणत्वादिति । सिद्धे च जगतः कार्यत्वे-
ऽपि यद्यत्कार्यं, तत्तद्विशिष्टज्ञानक्रियोपपन्नकर्तृ-
काविनाभावि घटपटादिवत् । कार्यं चेदं
जगत् । तस्मादिदमपि निरतिशयज्ञत्वकर्तृत्व-
१ अतीन्द्रियस्यातीन्द्रियार्थदर्शिनश्च । २ नचेत्यस्य इतिपदेन सहान्वयः ।
३ मया किं वक्तव्यं, जैमिनीया अपि तद्धेतुं दूषयन्ति । ४ शरीरस्यापि ।
२२ मृगेन्द्रतन्त्रे । [ १।१
संपन्नं निर्मातारं गमयति । यश्चात्र निर्माता,
स कः । ईश्वर इति । किमेतन्न प्रमाणं भवेत् ।
एतद्यद्यबाधितं स्यात् यावता परमाण्विन्द्रि-
यादेर्जगद्भागस्यासिद्धं सावयवत्वमिति भा-
गासिद्धोऽयं हेतुः । १परमाणूनामाचैतन्ये सति
अनेकत्वाद्२घटादिवत् कार्यत्वमव्यभिचारि इति
किल भवतामभ्युपगमः । यदप्येतत् दृष्टान्ती-
कृतं वलभिप्राकार३पुष्करिण्यादि, तद्गतमुपादा-
नसहकारिकारणायानुगुण्यवैगुण्यात् निर्वृत्तस-
दसत्संनिवेशं सावयवत्वम् । तदन्यदेव तत्त-
त्संनिवेशसदृशम् । इतरदेव हि महीमही-
धरादिगतं सावयैवत्वं, वस्तुसादृश्यावलम्बन-
पूर्वव्याप्तिदर्शनाहितसंस्कारा च तदनुगुण४सा-
ध्यसाधनार्थं प्रामाणिकमिति प्रवर्तत इति
युक्तं, न पुनः सावयवत्वशब्दमात्रसामान्या-
श्रयेण । यदाह धर्मकीर्तिः
१ परमाणवः कार्याणि अचेतनत्वे सति अनेकत्वात् । २ तडागादि ।
३ वलभिप्राकारपुष्करिण्यादिगतं सावयवत्वं समीचीनासमीचीनतत्तत्तक्षादिक-
र्तृकं कृत्रिमम् । महीमहीधरादिगतं सावयवत्वं त्वकृत्रिमम् । परिणामि
सावयवमिति दृष्टान्तासिद्धिः । ४ यादृशं साध्यं यादृशं च साधकं, तादृश्ये-
वानुमितिः प्रामाणिकी ।
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २३
'सिद्धं१ यादृगधिष्ठातृभावाभावानुवृत्तिमत् ।
संनिवेशादि तद्युक्तं तस्माद्यदनुमीयते ॥
२वस्तुभेदे प्रसिद्धेऽपि शब्दसाम्यादभेदिनः ।
न युक्तानुमितिः पाण्डुद्रव्या३दिव हुताशने ॥'
इति । अपिच वलभ्यादीनां पक्षान्तर्भावे
दृष्टान्ताभावः। नचेतरत्रान्तर्भावः, तदा ईश्वरस्य
सर्वकर्तृत्वहानिः । स्थपत्याद्यन्वयव्यतिरेकानु-
विधायिनौ भावाभावौ वलभ्यादीनां दृष्टौ ।
नच दृष्टं कारणमपहाय कारणान्तरं तदीश्व-
राख्यं कल्पयितुमुपपन्नम् । एवं हि सति स-
र्वत्र कार्यकारणभावो विप्लवेत । तदुक्तं
'यस्मिन्सति भवत्येव यत्ततोऽन्यस्य कल्पने ।
तद्धेतुत्वेन सर्वत्र हेतूनामनवस्थितिः ॥'
इति । किंच न तावदशरीरजगन्निर्मातृदे-
वताविशेषाभ्युपगमो युक्तः तस्य जगल्लक्षण-
कार्यसंपादनासंभवात् । यदाह
१ यादृशोऽधिष्ठाता तक्षा इति यावत् चतुरोऽचतुरो वा, समीचीनश्चेत्
समीचीनसंनिवेशादि जायते, तदभावे न जायते । असमीचीनतक्षा चेत्
असमीचीनसंनिवेशादि जायते, तदभावे न जायते । २ प्रसिद्धेऽपि वस्तु-
भेदे । ३ शब्दसाम्यादनुमितिर्युक्ता न भवति । यो यः पाण्डुगुणवान्, स स
वह्निः स्यात् तथाच जलमपि वह्निः स्यात् ।
२४ मृगेन्द्रतन्त्रे । [ १।९
'कार्यं शरीरयुक्तेन कर्त्रा व्याप्तं सदैव यत् ।
कार्यत्वात्तेन जगतः कर्ता देही प्रसज्यते ॥'
इति । ततश्च धर्मिस्वरूपविपरीतसाधकः का-
र्यत्वहेतुः। शरीरवत्त्वे त्वस्मदादिवदुत्पत्तिप्रलय-
योगित्वम् । तच्चास्य शरीरं स्वनिर्मितं कर्त्रन्तर-
निर्मितं वा । स्वनिर्मितत्वे किमसौ तत्सर्ग-
काले सशरीरः शरीररहितो वा । देहेन्द्रियर-
हितस्य न क्वचित्किंचित्कार्यं दृष्टमित्युक्तम् ।
शरीरवांश्चेत् शरीरं सृजति, तर्हि तदप्यस्य
शरीरं किंकृतम् । स्वकृतत्वेऽन्यकृतत्वे वानव-
स्थेत्येवमादिबाधकसद्भावात्साधकं प्रमाणं न
किंचिदुपपद्यते ॥
अथोच्यते वाक्यमागमलक्षणं प्रमाणमस्ति
यदत्यन्तातीन्द्रियार्थनिश्चायकं ततः प्रवर्तमा-
नस्याभिप्रेतसंपत्तेर्दृष्टत्वात् । तदाहुः
'अक्षलिङ्गातिगो ह्यर्थः पुंसः शास्त्रेण दर्श्यते ।'
इति । एतदेव निराकर्तुमाह
वाक्यं तदन्यथासिद्धं
वाक्यमागमलक्षणं पुराणेतिहासादिगीतम्।
यथाह महाभारतादौ भगवान् व्यासमुनिः
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २५
'स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ।
सेन्द्रादिषु च देवेषु तस्यैवैश्वर्यमुच्यते ॥
तं गच्छ शरणं देवदेवादिं भुवनेश्वरम् ।'
इत्यादि । श्रुतावपि
'यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो वनस्पतिषु ।
यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु ॥'
( क० शा० )
तथा
'त्रियम्बकं यजामहे' ( ऋ० ७।५९।१२ )
इत्यादि । तदेतदन्यथासिद्धम् । अत्र हि पौर्वाप-
र्यपर्यालोचनानिराकृतो यथाश्रुतश्रुतिसमुत्पा-
दितो वाक्यार्थः । अतो नैव प्रतीतिमात्रावि-
प्रलब्धबुद्धयस्तथेति प्रतिपत्तिं भावयन्ति ।
तथा किल 'विषं भक्षय मा चास्य गृहे भुङ्क्थाः'
इत्यत्र विषभक्षणेऽभ्यनुज्ञानं श्रूयमाणमपि
न वाक्यार्थः । किं तर्हि । प्रतिकूलगृहभो-
जननिषेध एव तात्पर्यम् । एवं भारताद्यु-
पाख्यानद्वारेण सोद्योगस्य विजिगीषोर्द्विषदुप-
शमो निर्विघ्नः, क्षत्रियाणां च स्वधर्मानुष्ठा-
नमभ्युदयायेत्येवमर्थः स्तुतिवादः । श्रुतौ तु
१ पौर्वापर्यविचारेण निराकृतः । २ प्रतीतिमात्रेणाभ्रान्तबुद्धयः ।
४
२६ मृगेन्द्रतन्त्रे । [ ११९
मन्त्रार्थवादपदानां कार्यातिशयावेदनं विना
पुरुषाप्रवृत्तेः श्रद्धावहविविधाभ्युदयज्ञानोप-
जननप्रतीत्यङ्गत्वं, न स्वरूपयाथार्थ्यमित्यङ्गत्व-
मिति न तदुक्तिमात्राद्विशिष्टदेवतासद्भावावे-
दकत्वम् । तथाचाहुः
'स्तुतिवादकृतश्चैष जनानां मतिविभ्रमः ।
पौर्वापर्यापरामृष्टः शब्दोऽन्यां कुरुते मतिम् ॥' (श्लो०वा०)
इति ॥
अथ सकललोकसिद्धा प्रसिद्धिरनपह्नवनीया
विद्यते—यत्सर्वो ह्ययमाविद्वदङ्गनाबालो जनः
परमेश्वरस्येच्छाविधिप्रेरितः प्रवर्तते, दैवमेवात्र
कारणमिति ब्रुवाणो दृश्यते च, उपाख्यानानि
च दक्षमखमथनकालदमनकामदाहान्धकवध-
त्रैलोक्याक्रमणाद्युपरचितानि बहुशः पठन्तः
१ अक्षय्यं वै चातुर्मास्ययाजिनः सुकृतं भवतीति चातुर्मास्ययागस्य
कार्यस्यातिशयः स्तुतिरिति यावत् । तदावेदनं विना पुरुषाणां प्रवृत्तिर्न
जायते, अतो मन्त्रवादानां स्तावकत्वमिति । २ श्रद्धावहानि यानि विवि-
धाभ्युदयज्ञानानि, तेषामुपजननी या प्रतीतिस्तस्याः अङ्गत्वं मन्त्रार्थवादानां,
नतु स्वरूपयाथार्थ्यप्रमित्यङ्गत्वमिति शब्दार्थज्ञानादभ्युदयज्ञानं जायते,
अभ्युदयज्ञानाच्छ्रद्धा भवति, तथाहि चातुर्मास्ययागादक्षय्यं सुकृतं भव-
तीति ज्ञायते, अतोऽस्माभिरपि विधेय इति श्रद्धा ।
कथयन्तः शृण्वन्तश्चोपलभ्यन्ते, तदुद्देशेन चार्थ-
विनियोगनियमजपतपःप्रभृतिक्लेशकारिणीमपि
कर्मपद्धतिमनुतिष्ठन्तोऽस्मानवगमयन्ति यदुत
सन्ति देवताविशेषा इत्याह
लोकवादाः क साधवः ॥ ९ ॥
अपर्यालोचितपौर्वापर्यगतानुगतमूर्खजनप्र-
वर्तितात्प्रवादमात्रादसकृद्दृष्टव्यभिचाराद्वस्तु-
सिद्धिमिच्छन् अहो बत वृथैव दैन्यास्पदतामु-
पयातोऽसि । अथ प्रत्ययितपुरुषप्रवर्तितः प्र-
वादः, तर्हि आगम एवासौ । प्रत्ययितत्वं च
तस्य कतमेन प्रमाणेन सिद्धं, तत्प्रवर्तितादा-
गमप्रामाण्याच्च तत्सिद्धिः, तत्सिद्ध्या च आ-
गमप्रामाण्यमितीतरेतराश्रयदोषः, नित्यत्वे
त्वागमस्य कार्य एवार्थे प्रामाण्यं, न सिद्धे इति
न युष्मदभिमतदेव
२८ मृगेन्द्रतन्त्रे । [ १।१
इत्यनीशवचोवारि-
वेलानुन्नोऽब्धिनेव सः ।
शक्रेण न चचालैषां
धीशैलः सारगौरवात् ॥ १० ॥
इत्यनेनोक्तेन क्रमेण, ईश्वरनिराकरणवच-
नान्येव निम्नमार्गानुसरणाद्वारीणि तेषां वेला
समुल्लासो जलवृद्धिरिति यावत्, तया नुन्नः
प्रेरितोऽप्येषां भरद्वाजादीनां संबन्धी मति-
पर्वतः सारवत्त्वात् गुरुत्वाच्च हेतोः न चचाल
न चकम्पे। केन नुन्न इत्याह अब्धिनेव शक्रेण।
यथा किल वेलाचलः समुद्रजलतरङ्गदृढाहतः
खा²वष्टम्भान्न चलति, एवं मुनिमतिस्तीक्ष्णा-
ग्रत्वादिसाधर्म्यात्पर्वतेन रूपकीकृता च स्व-
स्थैर्यान्न व्यचलत् ॥ १० ॥
ततश्चेन्द्रं प्रति ते पुनरिदमभ्यदधुः
न जातु देवतामूर्ति-
रस्मदादिशरीरवत्।
१ तृणपर्णादिराशिः गुरुरपि निःसारत्त्वाद्वायुना वा जलेनापनेतुं शक्यः ।
बालुकायां सारवत्त्वे पर्वत इव गुरुत्वाभावः । २ खमवष्टम्भो यस्य सः
तस्मात् स्वस्थानादित्यर्थः ।
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २९
विशिष्टैश्वर्यसंपन्ना
सातो नैतन्निदर्शनम् ॥ ११ ॥
विभूतियोगतारतम्यमस्मदादिलोचनगो-
चरचारि सामान्यपुरुषमात्राश्रयं दृष्टमदृष्टवि-
ग्रहस्य देवताविशेषस्य अणिमाद्यैश्वर्यसंपत्तिम-
नुमापयति, तत्कथं प्राकाम्यशक्तिजनितं युग-
पदनेकदेशमात्रसंनिधिमात्रमसंभाव्यं मन्यसे ।
नहि कदाचिदस्मदादिशरीरवत् देवतामूर्त्तिः
क्लेशकर्मविपाकाशययोगिन्यव्यापिका वा इ-
च्छामात्रेणास्मदादिसृष्टिस्थितिध्वंसकरणक्षम-
विशिष्टैश्वर्यसंपन्नत्वात् । मूर्च्छिताणुत्राणाद्धि
मूर्त्तित्वमस्मदादिमूर्त्तित्वविलक्षणं चास्याः। तत-
श्च युगपदनेकदेशसंनिधिनिराकरणायोपात्तस्य
मूर्त्तित्वाख्यस्य हेतोरप्रयोजकत्वम् । दृष्टान्त-
श्चानुपपन्नः साध्यधर्मासिद्धत्वात् । साध्यो हि
धर्मस्तुल्यकालमनेकदेशासंनिधिलक्षणोऽत्र स-
र्वात्मना नास्ति यस्मादस्मदादिमध्यवर्तिनां मू-
र्त्तिमतां सतामप्यणिमादिसिद्धिप्रकर्षयोगिनां
१ पञ्च क्लेशाः, कर्म प्रसिद्धम्, आशयो वासना ।
३० मृगेन्द्रतन्त्रे । [ १।१
योगिनां युगपदनेकदेशसंनिधिर्द्यत्वेऽपि¹ नासं-
भाव्यः । नच निरतिशयसकलोत्कर्षयोगिनः
परमेश्वरस्य स्वदर्शनाभिनिवेशिभिः कुम्भ-
कारादिनिदर्शनकलुषीक्रियमाणजगन्निर्माणस्य
किंकायः किमाश्रयः किमुपकरण इत्याद्यस-
द्विकल्पविप्लवोऽनुप्रविशति । तथाचोक्तं सिद्ध-
चूडामणिना
'किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः
कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगताम् ॥'
इति । यथा चाशरीरदेवताविशेषसंभवोऽसंभ-
वद्बाधस्तथेश्वरसिद्धिप्रकरणे वक्ष्यामः । स तु
तथा तथा प्रतिपाद्यमानोऽपि न तन्निराकरण-
प्रवणानां प्रयोजनहेतुर्भविष्यतीति । अत्र दै-
वोपहतत्वमेवापराध्यति । यथाह राजानक
उत्पलदेवः
'समुज्ज्वलन्न्यायसहस्रसाधितोऽ-
प्युपैति सिद्धिं न विमूढचेतसाम् ।
१ इदानीमपि ।
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३१
महेश्वरः पाणितले स्थितोऽपि सन्
पलायते दैवहतस्य सन्मणिः ॥' (ई० सि० ५५)
इति ॥ ११ ॥
ईदृशाभ्यां च हेतुदृष्टान्ताभ्यां साध्यसिद्ध्यनु-
पगमेऽन्यत्राप्ययमेव न्यायः प्रसज्यत इत्याह
अथास्त्वेवं घटे न्यायः
शब्दत्वादिन्द्रशब्दवत् ।
भवता किल 'शब्दमात्रं हि देवता' इति
प्रतिज्ञातं, अतः शब्दव्यतिरिक्तदेवतानभ्युप-
गमे सत्येतदापतितं—यदुत वाचकव्यतिरिक्तवा-
च्यार्थासंभवः । इन्द्रादिशब्दानां नान्यो वा-
च्योऽर्थो विद्यते । एवं शब्दत्वाविशेषात् घटा-
दावपि अयमेव न्यायोऽस्तु, नचैतद्युक्तमनु-
भवविरोधात् ॥
तथाहि
नादत्ते घटशब्दोऽम्भ-
श्चन्द्रशब्दो न राजते ॥ १२ ॥
घटते चेष्टते अर्थक्रियामिति घटः, चन्दति
ह्लादयति दीप्यते चेति चन्द्र इत्येवंविधया श-
३२ मृगेन्द्रतन्त्रे । [ १।१
ब्दव्युत्पत्त्या शब्दव्यतिरिक्तवाच्यार्थासंभवतो
घटशब्दस्यैवोदकाहरणं चन्द्रशब्दस्यैव चाह्ला-
दनादि प्राप्तं, नचानयोस्तदस्ति, अपितु त-
द्वाच्ययोः पृथुबुध्नोदराद्याकारभास्वरबिम्बस्वरू-
पयोस्तत्तदर्थक्रियाकरणक्षमत्वं दृष्टम् । ततो न
वाच्यवाचकयोरैक्यम् । ततश्च न शब्दमात्रं
देवता किं तर्हि तद्वाच्यैवेति सिद्धम् ॥ १२ ॥
इदानीं वाक्यं तदन्यथासिद्धमिति परम-
तमनुसंधाय दूषयति
अथान्यविषयं वाक्य-
मस्तु शक्रादिवाचकम् ।
कर्मरूपादिशब्दानां
सार्थकत्वं कथं भवेत् ॥ १३ ॥
'इन्द्रो वज्री हिरण्मयः'इत्यादीनि वाक्या-
नि शक्रादिदेवतालिङ्गानि मन्त्रार्थवादपराणि,
नत्वेषां स्वरूपयाथार्थ्यमिति यद्भवद्भिरभि-
हितं, तत्तथास्तु, स्वार्थप्रतिपादनपराणां तु
श्रूयमाणानां कर्मरूपादिशब्दानां कथमर्थवत्त्वं
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३३
स्यात् । तत्र कर्मशब्दाः क्रियाभिधायिनः 'व्रीही-
नवहन्ति' इत्यादयः । एवं रूपशब्दाः जात्यादि-
शब्दाश्च । यथा 'श्वेतं छागमालभेत' इत्यत्र
श्वेतशब्दस्य रूपाभिधायिनः, छागशब्दस्य च
जातिवाचिनः शक्रादिशब्दवत् शब्दत्वाविशे-
षात् स्वरूपयाथार्थ्यासंभवे सत्यानर्थक्यं, ततश्च
चोदनावाक्यानामकिंचित्करत्वम् । यद्वा शक्रा-
दिवाचकस्य वाक्यस्यान्यविषयत्वे कल्प्यमाने,
तद्विषयाणाम् 'इन्द्रो वृत्रमवधीत्' इत्यादीनां
कर्मशब्दानां, सहस्रदृग्वज्रपाण्यादीनां च रू-
पाद्यभिधायिनां शब्दानां कथमर्थवत्त्वं स्यात् ।
नचार्धजरतीयन्याय उपपादयितुं शक्यो येन
विधिशब्दानामेव स्वरूपयाथार्थ्यं, नेन्द्रादिश-
ब्दानामिति स्यात् ॥ १३ ॥
यदप्युक्तं 'लोकवादाः क साधवः' इति,
तदयुक्तम् । यतः
प्रवादोऽप्यखिलो मिथ्या
समूलत्वान्न युक्तिमत् ।
५