मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 63, कुल 448 में से
संदर्भ में पढ़ेंश्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३३
स्यात् । तत्र कर्मशब्दाः क्रियाभिधायिनः 'व्रीही-
नवहन्ति' इत्यादयः । एवं रूपशब्दाः जात्यादि-
शब्दाश्च । यथा 'श्वेतं छागमालभेत' इत्यत्र
श्वेतशब्दस्य रूपाभिधायिनः, छागशब्दस्य च
जातिवाचिनः शक्रादिशब्दवत् शब्दत्वाविशे-
षात् स्वरूपयाथार्थ्यासंभवे सत्यानर्थक्यं, ततश्च
चोदनावाक्यानामकिंचित्करत्वम् । यद्वा शक्रा-
दिवाचकस्य वाक्यस्यान्यविषयत्वे कल्प्यमाने,
तद्विषयाणाम् 'इन्द्रो वृत्रमवधीत्' इत्यादीनां
कर्मशब्दानां, सहस्रदृग्वज्रपाण्यादीनां च रू-
पाद्यभिधायिनां शब्दानां कथमर्थवत्त्वं स्यात् ।
नचार्धजरतीयन्याय उपपादयितुं शक्यो येन
विधिशब्दानामेव स्वरूपयाथार्थ्यं, नेन्द्रादिश-
ब्दानामिति स्यात् ॥ १३ ॥
यदप्युक्तं 'लोकवादाः क साधवः' इति,
तदयुक्तम् । यतः
प्रवादोऽप्यखिलो मिथ्या
समूलत्वान्न युक्तिमत् ।
५